भोगान् भुक्त्वा ततः पश्चाद् गमिष्यसि परं पदम् । अव्यावृत्तिस्वरूपाया नियतेर् एष निश्चयः
तपसानेन सङ्कल्पस् सफलो ऽस्तु तवोत्तमे । पीना भव पुनस् सैव हिमकाननराक्षसी
यया पूर्वं वियुक्तासि तन्वा जलदरूपया । बीजान्तर्वृक्षता पुत्रि बृहद्वृक्षतया यथा
योगम् एष्यसि भूयस् त्वं तन्वा तद्बीजरूपिणी । तयैव रमसे पुत्रि लतयेवाङ्कुरस्थितिः
बाधां विदितवेद्यत्वान् न च लोके करिष्यसि । अन्तश्शुद्धा शान्तवाता शरदीवाभ्रमण्डली
अन्तरध्यानविरता कदाचिल् लीलया यदि । भविष्यसि बहीरूढा सर्वात्मध्यानरूपिणी
व्यवहारात्मकध्यानधारणाधाररूपिणी । वातस्वभाववद्देहपरिस्पन्दविलासिनी
तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी । न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि
भविष्यसि न्यायवृत्तिर् लोके त्वं न्यायबाधिका । जीवन्मुक्ततया देहे स्वविवेकैकपालिका
इत्य् उक्त्वा गगनतलाज् जगाम देवस् सूची सा भवतु ममेति किं विरागः । रागो वाब्जजवचनार्थधारणे ऽस्मिन्न् इत्य् अन्तर् मननमयी मनाग् बभूव
प्रादेशः प्रथमम् अभूत् ततो ऽपि हस्तो व्यासं चाप्य् अथ विटपस् ततो ऽभ्रमाला । सोद्यत्सावयवलता बभौ निमेषात् सङ्कल्पद्रुमकणिकाङ्कुरक्रमेण
तन्मात्राण्य् अविकलशक्तिमन्ति देहाद् उद्भूतान्य् अथ करणेन्द्रियाणि सम्यक् । सङ्कल्पद्रुमनवपुष्पवत् समन्ताद् बीजे यान्य् अलम् अभवंस् तिरोहितानि
अथाभवद् असौ सूची कर्कटी राक्षसी पुनः । सूक्ष्मैव स्थौल्यम् आयाता मेघलेखेव वार्षिकी
निजम् आकारम् आसाद्य किञ्चित् प्रमुदिता सती । बृहद्राक्षसगर्वं तद्बोधात् कञ्चुकवज् जहौ
तत्रैव ध्यायिनी तस्थौ बद्धपद्मासनस्थितिः । आलम्ब्य संविदं शुद्धां संस्थिता गिरिकूटवत्
अथ सा मासषट्केन ध्यानाद् बोधम् उपागता । महाजलदनादेन प्रावृषीव शिखण्डिनी
प्रबुद्धा सा बहिर्वृत्तिर् बभूव क्षुत्परायणा । यावज्जीवं स्वभावो ऽस्य देहस्य न निवर्तते
अथ सा किं ग्रस इति चिन्तयाम् आस चिन्तया । भोक्तव्यं परकीयं च न्यायेन न विना मया
यद् आर्यगर्हितं यद् वा न्यायेन न समर्जितम् । तस्माद् ग्रासाद् वरं मन्ये मरणं देहिनाम् इह
यदि देहं त्यजामीमं तन् न्यायोपार्जितं विना । न किञ्चिद् अद्मि निर्न्यायं भुक्तो ऽर्थो हि गरायते
यन् न लोकक्रमप्राप्तं तेन भुक्तेन किं भवेत् । न जीवितेन नो मृत्या किञ्चित् कारणम् अस्ति मे
मनोमात्रम् अहं ह्य् आसं देहादिभ्रममात्रकम् । तच् छान्तं स्वावबोधेन देहादेहदृशौ कुतः
एवं स्थिता मौनवती शुश्राव गगनाद् गिरम् । रक्षस्स्वभावसन्त्यागतुष्टेनोक्तां नभस्वता
गच्छ कर्कटि मूढांस् त्वं ज्ञानेनाश्व् अवबोधय । मूढोत्तारणम् एवेह स्वभावो महताम् इति
बोध्यमानो भवत्यापि यो न बोधम् उपैष्यति । स्वनाशायैव जातो ऽसौ न्याय्यो ग्रासो भवेत् तव
श्रुत्वेत्य् अनुगृहीतास्मि त्वयेत्य् उक्तवती शनैः । उत्तस्थौ शैलशिखरात् क्रमाद् अवरुरोह च
अधित्यकाम् अतीत्याशु गत्वा चोपत्यकातटात् । विवेश शैलपादस्थं किरातजनमण्डलम्
बह्वन्नपशुलोकौघद्रव्यसस्यौषधामिषम् । अनन्तमूलपानान्नमृगकीटखगादिकम्
प्रचलितगलिताञ्जनाचलाभा हिमगिरिपादनिषेवितं सुदेशम् । तदनु गतवती निशाचरी सा निशि सुघनान्धतमिस्रमार्गभूमौ
एतस्मिन्न् अन्तरे तत्र किरातजनमण्डले । हस्तहार्यतमःपिण्डा बभूवासितयामिनी