तद् उत्तिष्ठाशु गच्छामस् सर्व एव पितामहम् । तद्वरार्थम् अनर्थाय विद्धि तद्दुस्सहं तपः
इति वातेरितश् शक्रस् सह देवगणेन सः । जगाम ब्रह्मणो लोकं प्रार्थयाम् आस तं प्रभुम्
सूच्या अहं वरं दातुं गच्छामि हिमवच्छिरः । ब्रह्मणेति प्रतिज्ञाते शक्रस् स्वर्गम् उपाययौ
एतावताथ कालेन सा बभूव च पावनी । सूची निजतपस्तापतापितामरमन्दिरा
मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा । विस्मयिन्या विवर्तिन्या आदिनान्तम् उपेक्षिता
कौशेयसूच्या तृणवन् मेरुस् स्थैर्येण निर्जितः । मज्जनित्र्येति वृद्ध्येव युक्तयाद्यन्तयोर् दिने
मध्याह्ने तापभीत्येव विशन्त्या मातुर् अन्तरम् । अन्यदा गौरवाद् दृष्ट्या दूरतः प्रेक्ष्यमाणया
सा ताम् अवेक्षिते ऽक्ष्णारात् तापाद् अङ्गे निमज्जति । सङ्कटे विस्मरत्य् एव जनो गौरवसत्क्रियाम्
छायासूचिस् तापसूचिस् तयेत्य् आत्मतृतीयया । त्रिकोणं तपसा पूतं वाराणस्यास् समं कृतम्
गतास् तेन त्रिकोणेन त्रिवर्णपरिखावता । वायवः पांसवो ये ऽपि ते परां मुक्तिम् आगताः
विदितपरमकारणाथ जाता स्वयम् अनु चेतनसंविदं विचार्य । स्वमननकलनानुसार एकस् त्व् इह हि गुरुः परमो न राघवान्यः
अथ वर्षसहस्रेण तां पितामह आययौ । वरं पुत्रि गृहाणेति व्याजहार नभस्तलात्
सूची कर्मेन्द्रियाभावाज् जीवमात्रकलावती । न किञ्चिद् व्याजहारास्मै चिन्तयाम् आस केवलम्
पूर्णास्मि गतसन्देहा किं वरेण करोम्य् अहम् । शाम्यामि परिनिर्वामि सुखम् आसे च केवलम्
ज्ञातं ज्ञातव्यम् अखिलं शान्तास् सन्देहजालिकाः । स्वविवेको विकसितः किम् अन्येन प्रयोजनम्
यथा स्थितेयम् अस्मीह सन्तिष्ठेयं तथैव हि । सत्यासत्यकलाम् एव त्यक्त्वा किम् इतरेण मे
एतावन्तम् अहं कालम् अविवेकेन बाधिता । स्वसङ्कल्पसमुत्थेन वेतालेनेव बालिका
इदानीम् उपशान्तो ऽसौ स्वविचारणया स्वयम् । ईप्सितानीप्सितैर् अर्थः को भवेत् कल्पितैर् मम
इति निश्चययुक्तां तां सूचीं कर्मेन्द्रियोज्झिताम् । तूष्णीं स्थितां स नियतेस् सम्पश्यन् भगवान् स्थितिम्
ब्रह्मा पुनर् उवाचेमां वीतरागां प्रसन्नधीः । वरं पुत्रि गृहाण त्वं कञ्चित् कालं च भूतले
भोगान् भुक्त्वा ततः पश्चाद् गमिष्यसि परं पदम् । अव्यावृत्तिस्वरूपाया नियतेर् एष निश्चयः
तपसानेन सङ्कल्पस् सफलो ऽस्तु तवोत्तमे । पीना भव पुनस् सैव हिमकाननराक्षसी
यया पूर्वं वियुक्तासि तन्वा जलदरूपया । बीजान्तर्वृक्षता पुत्रि बृहद्वृक्षतया यथा
योगम् एष्यसि भूयस् त्वं तन्वा तद्बीजरूपिणी । तयैव रमसे पुत्रि लतयेवाङ्कुरस्थितिः
बाधां विदितवेद्यत्वान् न च लोके करिष्यसि । अन्तश्शुद्धा शान्तवाता शरदीवाभ्रमण्डली
अन्तरध्यानविरता कदाचिल् लीलया यदि । भविष्यसि बहीरूढा सर्वात्मध्यानरूपिणी
व्यवहारात्मकध्यानधारणाधाररूपिणी । वातस्वभाववद्देहपरिस्पन्दविलासिनी
तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी । न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि
भविष्यसि न्यायवृत्तिर् लोके त्वं न्यायबाधिका । जीवन्मुक्ततया देहे स्वविवेकैकपालिका
इत्य् उक्त्वा गगनतलाज् जगाम देवस् सूची सा भवतु ममेति किं विरागः । रागो वाब्जजवचनार्थधारणे ऽस्मिन्न् इत्य् अन्तर् मननमयी मनाग् बभूव