महातपस्विनी सूचि किमर्थं तप्यसे तपः । नेति वक्तुं शशाकासौ तत्तेजोराशिनिर्जितः
भगवत्या महासूच्या अहो चित्रं महत् तपः । इत्य् एव केवलं ध्यायन् मारुतो गगनं ययौ
समुल्लङ्घ्याभ्रमार्गं तु वातस्कन्धान् अतीत्य च । सिद्धवृन्दान्य् अधः कृत्वा सूर्यमार्गम् उपेत्य च
ऊर्ध्वम् एत्य विचारेभ्यः प्राप शक्रपुरान्तरम् । सूचिदर्शनपुण्यं तम् आलिलिङ्ग पुरन्दरः
पृष्टश् च कथयाम् आस दृष्टं सर्वं मयेत्य् असौ । सहदेवनिकायाय शक्रायास्थानवासिने
जम्बुद्वीपे ऽस्ति शैलेन्द्रो हिमवान् नाम सून्नतः । जामाता यस्य भगवान् साक्षाच् छशिकलाधरः
तस्योत्तरे महाशृङ्गपृष्ठे परमरूपिणी । स्थिता तपस्विनी सूची तपश् चरति दारुणम्
बहुनात्र किम् उक्तेन वाताद्यशनशान्तये । तया स्वोदरसौषिर्यं पिण्डीकृत्य निवारितम्
शान्तसङ्कोचम् ऊष्मार्थं विकास्यास्यं रजोऽणुना । तयाद्य स्थगितं शीतवाताशननिवृत्तये
तस्यास् तीव्रेण तपसा तुहिनाकारम् उत्सृजन् । अग्न्याकारम् अगो गृह्णन् देवदुस्सेव्यतां गतः
तद् उत्तिष्ठाशु गच्छामस् सर्व एव पितामहम् । तद्वरार्थम् अनर्थाय विद्धि तद्दुस्सहं तपः
इति वातेरितश् शक्रस् सह देवगणेन सः । जगाम ब्रह्मणो लोकं प्रार्थयाम् आस तं प्रभुम्
सूच्या अहं वरं दातुं गच्छामि हिमवच्छिरः । ब्रह्मणेति प्रतिज्ञाते शक्रस् स्वर्गम् उपाययौ
एतावताथ कालेन सा बभूव च पावनी । सूची निजतपस्तापतापितामरमन्दिरा
मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा । विस्मयिन्या विवर्तिन्या आदिनान्तम् उपेक्षिता
कौशेयसूच्या तृणवन् मेरुस् स्थैर्येण निर्जितः । मज्जनित्र्येति वृद्ध्येव युक्तयाद्यन्तयोर् दिने
मध्याह्ने तापभीत्येव विशन्त्या मातुर् अन्तरम् । अन्यदा गौरवाद् दृष्ट्या दूरतः प्रेक्ष्यमाणया
सा ताम् अवेक्षिते ऽक्ष्णारात् तापाद् अङ्गे निमज्जति । सङ्कटे विस्मरत्य् एव जनो गौरवसत्क्रियाम्
छायासूचिस् तापसूचिस् तयेत्य् आत्मतृतीयया । त्रिकोणं तपसा पूतं वाराणस्यास् समं कृतम्
गतास् तेन त्रिकोणेन त्रिवर्णपरिखावता । वायवः पांसवो ये ऽपि ते परां मुक्तिम् आगताः
विदितपरमकारणाथ जाता स्वयम् अनु चेतनसंविदं विचार्य । स्वमननकलनानुसार एकस् त्व् इह हि गुरुः परमो न राघवान्यः
अथ वर्षसहस्रेण तां पितामह आययौ । वरं पुत्रि गृहाणेति व्याजहार नभस्तलात्
सूची कर्मेन्द्रियाभावाज् जीवमात्रकलावती । न किञ्चिद् व्याजहारास्मै चिन्तयाम् आस केवलम्
पूर्णास्मि गतसन्देहा किं वरेण करोम्य् अहम् । शाम्यामि परिनिर्वामि सुखम् आसे च केवलम्
ज्ञातं ज्ञातव्यम् अखिलं शान्तास् सन्देहजालिकाः । स्वविवेको विकसितः किम् अन्येन प्रयोजनम्
यथा स्थितेयम् अस्मीह सन्तिष्ठेयं तथैव हि । सत्यासत्यकलाम् एव त्यक्त्वा किम् इतरेण मे
एतावन्तम् अहं कालम् अविवेकेन बाधिता । स्वसङ्कल्पसमुत्थेन वेतालेनेव बालिका
इदानीम् उपशान्तो ऽसौ स्वविचारणया स्वयम् । ईप्सितानीप्सितैर् अर्थः को भवेत् कल्पितैर् मम
इति निश्चययुक्तां तां सूचीं कर्मेन्द्रियोज्झिताम् । तूष्णीं स्थितां स नियतेस् सम्पश्यन् भगवान् स्थितिम्
ब्रह्मा पुनर् उवाचेमां वीतरागां प्रसन्नधीः । वरं पुत्रि गृहाण त्वं कञ्चित् कालं च भूतले