न ह्य् अमूर्तस्य सिध्यन्ति विनाधारं किल क्रियाः । इत्य् आधारैकनिष्ठत्वम् आश्रित्यासौ तपस्स्थिता
जीवसूची लोहसूचीं पिशाची शिंशपाम् इव । सर्वतो वलयाम् आस वात्येवामोदलेखिकाम्
ततस् ततःप्रभृत्य् एषा सूची दीर्घतपस्विनी । अरण्यान्यां स्थिता शक्र तत्र वर्षगणान् बहून्
तस्या वरार्थं यत्नं त्वं कुरु कर्तव्यकोविद । चिरेण सम्भृतं लोकम् अलं दग्धुं हि तत्तपः
इति नारदतश् श्रुत्वा शक्रस् सूचिनिरीक्षणे । मारुतं प्रेषयाम् आस दशदिङ्मण्डलान्य् अथ
जगामाथ मरुत्संविद् आत्मना तां निरीक्षितुम् । अवमुच्य नभोमार्गं विचचार त्वरान्वितः
सा वातसंवित् क्षिप्रा वै नैव सर्वगता सती । परमा चिद् इवाविघ्नं सहसैव ददर्श ह
भूमेस् सप्तसमुद्रान्ते निबद्धां विपुलस्थले । लोकालोकाद्रिरशनां नानामणिमयोपलाम्
स्वादूदकाब्धिवलयं सकोटरककुब्गणम् । पुष्करद्वीपवलयं तदन्तर्गिरिमण्डलम्
मदिराम्भोधिवलयं तज्जलेचरसंस्थितम् । गोमेधद्वीपकटकं तन्मध्यविषयव्रजम्
इक्षूदकाब्धिपरिखां सान्तर्गिरिगणान्तराम् । क्रौञ्चद्वीपोर्वरापीठं सान्तर्गतगिरिक्रमम्
क्षीराब्धिमुक्तावलयं समध्यगतनायकम् । श्वेताख्यद्वीपवलयं सभूतप्रतिभागकम्
भूमेर् घृतोदवलनं सान्तस्थामरमन्दिरम् । कुशद्वीपवृतिव्यासं सुमहाशैलकोटरम्
दध्यम्भोराशिरशनां सान्तश् चरपुरोदराम् । शाकद्वीपोर्वराकारं सान्तस्स्थविषयान्तरम्
क्षाराम्भोराशिपरिखां सान्तस्स्थपुरपर्वताम् । जम्बुद्वीपमहामेरुं कुलपर्वतसङ्कुलम्
वातस्कन्धेभ्य एवादौ पतत्य् अनिलवेल्लना । क्रमेणानेन पर्यन्ते तेनैव प्रसृतेह सा
वायुर् आलोकयन्न् इत्थं जम्बुद्वीपं निरीक्ष्य च । तत् प्राप हिमवच्छृङ्गं यत्र सूचिस् तपस्विनी
शृङ्गमूर्ध्नि महत्य् उग्रे सो ऽरण्यानीम् अवाप ताम् । द्वितीयाकाशविततां वर्जितां प्राणिकर्मभिः
असञ्जाततृणव्यूहां निकटत्वाद् विवस्वतः । रजोमयीम् एव ततां संसाररचनाम् इव
मृगतृष्णानदीसार्थपूरणीयाब्धितां गताम् । शक्रकोदण्डसङ्काशमृगतृष्णासरिच्छताम्
अमितोपान्तपर्यन्तां लोकपालेक्षितैर् अपि । केवलं पवनस्पन्दप्रचलद्धूलिकुण्डलाम्
सूर्यांशुकुङ्कुमैर् लिप्तां लग्नचन्द्रांशुचन्दनाम् । विलासिनीम् इव व्योम्नो वातशीत्कारगायनाम्
सप्तद्वीपसमुद्रमुद्रणसमुच्छूनैकदेशाश्रयं भूपीठं परितो विहृत्य पवनो दीर्घाध्वना जर्जरः । तां प्राप्याग्रगिरिस्थलीम् अलिवपुर्व्योमाङ्गलग्नाम् इव व्यात्तानन्तदिगन्तपूरकबृहद्देहो विशश्राम सः
तत्र तस्योर्ध्वशृङ्गस्य तस्यां मूर्धमहावनौ । ददर्श मध्ये तां सूचीं प्रोत्थितां सशिखाम् इव
एकपादं तपस्यन्तीं शुष्यन्तीं चिरम् ऊष्मपाम् । सततानशनाच् छुष्कां पिण्डीभूतोदरत्वचम्
सकृद्विकासिनास्येन गृहीत्वैव तम् आनिलम् । पश्चात् त्यजन्तीं हृदये ऽप्य् एव मान्तीम् अनारतम्
शुष्कां चण्डांशुकिरणैर् जर्जरां वनवायुभिः । अचलन्तीं निजात् स्थानात् स्नपिताम् इन्दुरश्मिभिः
पूर्वं रजोऽणुनैकेन समधिष्ठितमस्तकाम् । कृतार्थत्वं कलयता ददतान्यस्य नास्पदम्
अरण्येनेव दत्तार्घां चिराज् जातशिखाम् इव । मूर्ध्नीव स्थापितप्राणां जटाकूटवतीम् इव
तां वीक्ष्य पवनस् सूचीं विस्मयाकुलचेतनः । प्रणम्यालोक्य चरितं भीतभीत इवाग्रतः