विवेशाकाशगृध्रस्य हृदयं तरुणस्य सा । प्राणमारुतमार्गेण खं मृगेव खखेलगा
स गृध्रस् ताम् अयस्सूचीं काञ्चिद् एवंसमाश्रिताम् । चिता तयेरितश् चञ्च्वा वृत्तिं मन इवादधे
सूचीम् आदाय गृध्रो ऽसौ ययौ तच्चिन्तितं गिरिम् । अन्तस् सूचीपिशाच्याशु नुन्नो ऽब्द इव वायुना
तत्राजने महारण्ये स्थापयाम् आस ताम् असौ । सर्वसङ्कल्परहिते पदे योगीव चेतनाम्
एकेनैवाणुना तेन पादप्रान्तेन मूर्छिता । सा प्रतिष्ठापितेवाद्रेर् मूर्ध्नि गृध्रेण देवता
रजःकणबृहच्छृङ्गशिरस्य् एकेन साणुना । पादेनातिष्ठद् उद्ग्रीवं शिखेव गिरिमूर्धनि
उत्थितां स्थापितां सूचीं गृध्रान्तर् जीवसूचिका । दृष्ट्वा बहिर् विनिर्गन्तुं खगदेहात् प्रचक्रमे
गृध्रप्राणान् निर्जगाम सूची प्रोन्मुखचेतना । पवनाद् गन्धलेखेव घ्राणवातलवोन्मुखी
जगाम गृध्रस् स्वं देशं भारं त्यक्त्वेव भारिकः । निवृत्तव्याधिर् इव स बभूवान्तरनाकुलः
अयस्सूचितयाधारस् तपसे परिकल्पितः । दृढस्य सदृशो ऽर्थानां विनियोगो हि राजते
न ह्य् अमूर्तस्य सिध्यन्ति विनाधारं किल क्रियाः । इत्य् आधारैकनिष्ठत्वम् आश्रित्यासौ तपस्स्थिता
जीवसूची लोहसूचीं पिशाची शिंशपाम् इव । सर्वतो वलयाम् आस वात्येवामोदलेखिकाम्
ततस् ततःप्रभृत्य् एषा सूची दीर्घतपस्विनी । अरण्यान्यां स्थिता शक्र तत्र वर्षगणान् बहून्
तस्या वरार्थं यत्नं त्वं कुरु कर्तव्यकोविद । चिरेण सम्भृतं लोकम् अलं दग्धुं हि तत्तपः
इति नारदतश् श्रुत्वा शक्रस् सूचिनिरीक्षणे । मारुतं प्रेषयाम् आस दशदिङ्मण्डलान्य् अथ
जगामाथ मरुत्संविद् आत्मना तां निरीक्षितुम् । अवमुच्य नभोमार्गं विचचार त्वरान्वितः
सा वातसंवित् क्षिप्रा वै नैव सर्वगता सती । परमा चिद् इवाविघ्नं सहसैव ददर्श ह
भूमेस् सप्तसमुद्रान्ते निबद्धां विपुलस्थले । लोकालोकाद्रिरशनां नानामणिमयोपलाम्
स्वादूदकाब्धिवलयं सकोटरककुब्गणम् । पुष्करद्वीपवलयं तदन्तर्गिरिमण्डलम्
मदिराम्भोधिवलयं तज्जलेचरसंस्थितम् । गोमेधद्वीपकटकं तन्मध्यविषयव्रजम्
इक्षूदकाब्धिपरिखां सान्तर्गिरिगणान्तराम् । क्रौञ्चद्वीपोर्वरापीठं सान्तर्गतगिरिक्रमम्
क्षीराब्धिमुक्तावलयं समध्यगतनायकम् । श्वेताख्यद्वीपवलयं सभूतप्रतिभागकम्
भूमेर् घृतोदवलनं सान्तस्थामरमन्दिरम् । कुशद्वीपवृतिव्यासं सुमहाशैलकोटरम्
दध्यम्भोराशिरशनां सान्तश् चरपुरोदराम् । शाकद्वीपोर्वराकारं सान्तस्स्थविषयान्तरम्
क्षाराम्भोराशिपरिखां सान्तस्स्थपुरपर्वताम् । जम्बुद्वीपमहामेरुं कुलपर्वतसङ्कुलम्
वातस्कन्धेभ्य एवादौ पतत्य् अनिलवेल्लना । क्रमेणानेन पर्यन्ते तेनैव प्रसृतेह सा
वायुर् आलोकयन्न् इत्थं जम्बुद्वीपं निरीक्ष्य च । तत् प्राप हिमवच्छृङ्गं यत्र सूचिस् तपस्विनी
शृङ्गमूर्ध्नि महत्य् उग्रे सो ऽरण्यानीम् अवाप ताम् । द्वितीयाकाशविततां वर्जितां प्राणिकर्मभिः
असञ्जाततृणव्यूहां निकटत्वाद् विवस्वतः । रजोमयीम् एव ततां संसाररचनाम् इव
मृगतृष्णानदीसार्थपूरणीयाब्धितां गताम् । शक्रकोदण्डसङ्काशमृगतृष्णासरिच्छताम्