सर्वासाम् अन्त्रतन्त्रीणां स्नायुमेदोवसासृजाम् । रन्ध्रेषु पक्षिण्येवान्तर् निलीनं मलिनाङ्गया
यस्यां नाड्यां न यो वायुर् माति तत् ताम् उपेतया । तत्र शूलं कृतं मूलं न्यग्रोधाग्र इवोत्कटम्
तच् छरीरेन्द्रियैस् तानि तथान्यानि बहूनि च । भुक्तानि नरमांसानि भोजनान्य् उचितानि च
सुप्तं विवलितानल्पमालया मुग्धबालया । कान्तवक्षस्स्थलस्यूतम्लिष्टपत्त्रकपोलया
विहृतं वीतशोकासु विहङ्ग्या वनवीथिषु । कल्पद्रुमोत्थपुष्पाभ्रद्विगुणाम्भोदपङ्क्तिषु
पीत आमोदिमन्दारमकरन्दकणासवः । वनेष्व् अमरशैलानाम् अलिन्यालिनिलीनया
चर्वितानि शवाङ्गानि गृध्रगर्वातिवृद्धया । खड्गयष्ट्येव सङ्ग्रामे वीराङ्गानि जवेद्धया
सर्वाङ्गकोशनाडीषु दिक्ष्व् इवानिललेखया । उड्डीनम् अवडीनं च काक्येव व्योमवीथिषु
विराडात्महृदि प्राणा वातस्कन्धास् स्फुरन्ति खे । यथा तथा प्रस्फुरितं प्रति देहगृहं तया
सर्वप्राणिशरीरेषु भ्रान्तं चिच्छक्तिदुष्टया । दीपप्रभाभासितया गृहिण्येव स्वसद्मसु
विहृतं रुधिरेष्व् अन्तर् द्रवशक्त्येव वारिषु । अब्धिष्व् आवर्तवृत्त्येव जठरेषु विवल्गितम्
सुप्तं मेदस्सु शुभ्रेषु शेषाङ्गेष्व् इव शौरिणा । स्वादितस् स्वामगन्धो ऽन्तर् वातशक्त्यामृतं यथा
तरुगुल्मौषधादीनां हृत्स्थारण्यानिलश्रिया । परिभुक्तान्य् अशक्तानि हिंसया वीक्षितानि च
अहं जीवमयी सूची स्याम् इतीच्छावरेण सा । सम्पन्ना मानसी सूचिश् चेतनी पावनी शिता
अदृश्यया तया तेन मारुतोग्रतुरङ्गया । अयस्सूचीनिलयया विहृतं दिक्षु रुद्धया
पीतं भुक्तं विलसितं हसितं दत्तम् आहृतम् । नर्तितं गीतम् उषितम् अनन्तैः प्राणिदेहकैः
अदृश्यया शरीरिण्या मनः पवनदेहया । कृतम् आकाशरूपिण्या न तद् अस्ति न यत् तया
मत्तयाशक्तया स्वादुरसांश् चर्वितुम् एतया । बालयालानम् आश्रित्य करिण्येव विवल्गितम्
कल्लोलबहलाद्यूनदेहदुष्टनदीष्व् अलम् । वेगैर् वैधुर्यकारिण्या मत्तया मकरायितम्
अशक्तया निगिरितुं मेदोमांसं तया हृदि । दूनं सुचिरम् अर्थाढ्यवृद्धातुरधिया यथा
गजोष्ट्रमृगहस्त्यश्वसिंहादिहृदि नर्तितम् । नर्तक्येव चिरं रङ्गे वेल्लयन्त्याङ्गम् अङ्गके
बहिर् अन्तश् च वायूनाम् एकत्वम् अनुयातया । गन्धलेखिकयेवान्तस्स्थितं दुर्लक्ष्ययानया
मन्त्रौषधतपोदानदेवपूजादिभिर् हिता । वल्गद्गिरिनदीतुङ्गतरङ्गवद् अपद्रुता
दीपप्रभेवाविज्ञातगतिर् गत्वाशु लीयते । अयस्सूच्यां मातरीव तत्र निवृतिम् एति सा
स्ववासनानुसारेण सर्व आस्पदम् ईहते । सूचित्वम् एव राक्षस्या सूचित्वेनास्पदीकृतम्
सर्वो विहृत्यापि दिशस् स्वम् एवास्पदम् आपदि । जीवसूची लोहसूचीम् इवायाति जडो जनः
एवं प्रयतमाना सा विहरन्ती दिशो दश । मानसीं तृप्तिम् आयाति न शारीरीं कदाचन
सति धर्मिणि धर्मा हि सम्भवन्तीह नासति । शरीरं दृश्यते यस्य तस्य तत् किल तृप्यति
अथ तृप्तस्य देहस्य स्मरणात् प्राक्तनस्य सा । बभूव दुःखिता स्वादुपूर्णोदरसुखार्थिनी
ततः प्राक्तनदेहार्थं करोमि विपुलं तपः । इति सञ्चिन्त्य तपसे देशं निर्णीय चात्मना