जाता विदितवेद्या सा स्वयम् एव तया धिया । तपसा दुष्कृते क्षीणे सूची स्वमुखसूचनी
इति वर्षसहस्राणि साकरोद् दारुणं तपः । सप्त सप्तमहालोकसन्तापकरम् उन्मुखी
तस्याः कल्पाग्निभीमेन तपसा हिमवान् गिरिः । बभूव तेन ज्वलितो जज्वालेव ततो जगत्
कस्येदं तपसाक्रान्तं जगद् इत्य् अथ वासवः । नारदं परिपप्रच्छ स तस्याकथयच् च तत्
सप्त वर्षसहस्राणि सूची दीर्घतपस्विनी । मया विज्ञातदेहासौ तेनेदं ज्वलितं जगत्
नागाश् श्वसन्ति विदलन्ति नगाः पतन्ति वैमानिका जलदवारिधयः प्रयान्ति । शोषं दिशो ऽर्कसहिता मलिनीभवन्ति सूच्येन्द्र पश्य तपसा क्षयमाययैव
कर्कटीकटुवृत्तान्तं सर्वम् आकर्ण्य वासवः । नारदं परिपप्रच्छ पुनर्जातकुतूहलः
सूचीवृत्तपिशाचीत्वं तपसोपार्ज्य तत् तया । कर्कट्या हिमवत्कुक्ष्यां के भुक्ता विभवा मुने
जीवसूची पिशाचीत्वं गता या शूकपेलवम् । असीत् कार्ष्णायसी सूचिस् तस्यास् स्वम् अवलम्बनम्
तत् स्वम् आलम्बनं त्यक्त्वा व्योमवातरथस्थया । प्राणमारुतमार्गेण तया देहप्रविष्टया
सर्वासाम् अन्त्रतन्त्रीणां स्नायुमेदोवसासृजाम् । रन्ध्रेषु पक्षिण्येवान्तर् निलीनं मलिनाङ्गया
यस्यां नाड्यां न यो वायुर् माति तत् ताम् उपेतया । तत्र शूलं कृतं मूलं न्यग्रोधाग्र इवोत्कटम्
तच् छरीरेन्द्रियैस् तानि तथान्यानि बहूनि च । भुक्तानि नरमांसानि भोजनान्य् उचितानि च
सुप्तं विवलितानल्पमालया मुग्धबालया । कान्तवक्षस्स्थलस्यूतम्लिष्टपत्त्रकपोलया
विहृतं वीतशोकासु विहङ्ग्या वनवीथिषु । कल्पद्रुमोत्थपुष्पाभ्रद्विगुणाम्भोदपङ्क्तिषु
पीत आमोदिमन्दारमकरन्दकणासवः । वनेष्व् अमरशैलानाम् अलिन्यालिनिलीनया
चर्वितानि शवाङ्गानि गृध्रगर्वातिवृद्धया । खड्गयष्ट्येव सङ्ग्रामे वीराङ्गानि जवेद्धया
सर्वाङ्गकोशनाडीषु दिक्ष्व् इवानिललेखया । उड्डीनम् अवडीनं च काक्येव व्योमवीथिषु
विराडात्महृदि प्राणा वातस्कन्धास् स्फुरन्ति खे । यथा तथा प्रस्फुरितं प्रति देहगृहं तया
सर्वप्राणिशरीरेषु भ्रान्तं चिच्छक्तिदुष्टया । दीपप्रभाभासितया गृहिण्येव स्वसद्मसु
विहृतं रुधिरेष्व् अन्तर् द्रवशक्त्येव वारिषु । अब्धिष्व् आवर्तवृत्त्येव जठरेषु विवल्गितम्
सुप्तं मेदस्सु शुभ्रेषु शेषाङ्गेष्व् इव शौरिणा । स्वादितस् स्वामगन्धो ऽन्तर् वातशक्त्यामृतं यथा
तरुगुल्मौषधादीनां हृत्स्थारण्यानिलश्रिया । परिभुक्तान्य् अशक्तानि हिंसया वीक्षितानि च
अहं जीवमयी सूची स्याम् इतीच्छावरेण सा । सम्पन्ना मानसी सूचिश् चेतनी पावनी शिता
अदृश्यया तया तेन मारुतोग्रतुरङ्गया । अयस्सूचीनिलयया विहृतं दिक्षु रुद्धया
पीतं भुक्तं विलसितं हसितं दत्तम् आहृतम् । नर्तितं गीतम् उषितम् अनन्तैः प्राणिदेहकैः
अदृश्यया शरीरिण्या मनः पवनदेहया । कृतम् आकाशरूपिण्या न तद् अस्ति न यत् तया
मत्तयाशक्तया स्वादुरसांश् चर्वितुम् एतया । बालयालानम् आश्रित्य करिण्येव विवल्गितम्
कल्लोलबहलाद्यूनदेहदुष्टनदीष्व् अलम् । वेगैर् वैधुर्यकारिण्या मत्तया मकरायितम्
अशक्तया निगिरितुं मेदोमांसं तया हृदि । दूनं सुचिरम् अर्थाढ्यवृद्धातुरधिया यथा