धूल्यापि प्रेक्ष्यते या ताम् अपि द्रुमलतादयः । महातपस्विनीं सूचीं द्रष्टुं नोत्कण्ठयन्ति के
स्थिरबद्धपदाम् एनां सुमनोवृत्तिम् उत्थिताम् । अनिलाः क्षोभयां चक्रुर् मुखनिर्गतभाङ्कृतैः
प्रसूतानि भविष्यामो निगीर्णान्य् अनयाचिरम् । कौसुमानि रजांस्य् अस्या इत्य् आस्यं पर्यपूपुरन्
तपोहरेन्द्रप्रहितवातनुन्नामिषं रजः । तया त्व् अहृत्त्वव्याजेन न निगीर्णं मुखे ऽपि सत्
न निगीर्णवती तानि रजांसि दृढनिश्चया । अन्तस्सारतया कार्यं लघवो ऽप्य् आप्नुवन्ति हि
न पिबन्त्य् आस्यसंस्थानितया पुष्परजांस्य् अपि । विस्मयं पवनः प्राप सुमेरून्मूलनाधिकम् । आशिरःपिहिता पङ्कैः पूरितापि महाजलैः
विधुतापि बृहद्वातैस् त्रासितापि तडिद्भ्रमैः । उद्धूलितापि जलदैः क्षोभिताप्य् अभ्रगर्जितैः
अपि वर्षसहस्रैस् सा चित्तस्थदृढनिश्चया । पट्टगण्डकसुप्तेव नाकम्पत तपस्विनी
निवृत्ताया बहिस्स्पन्दाद् अथ काले ऽसहागते । विचारयन्त्यास् तस्यास् स्वम् आत्मतत्त्वं स्वचेतनम्
ज्ञानालोकस् समुदभूत् सा परावरदर्शिनी । बभूव निर्मला सूची चित्सूची पावनी परम्
जाता विदितवेद्या सा स्वयम् एव तया धिया । तपसा दुष्कृते क्षीणे सूची स्वमुखसूचनी
इति वर्षसहस्राणि साकरोद् दारुणं तपः । सप्त सप्तमहालोकसन्तापकरम् उन्मुखी
तस्याः कल्पाग्निभीमेन तपसा हिमवान् गिरिः । बभूव तेन ज्वलितो जज्वालेव ततो जगत्
कस्येदं तपसाक्रान्तं जगद् इत्य् अथ वासवः । नारदं परिपप्रच्छ स तस्याकथयच् च तत्
सप्त वर्षसहस्राणि सूची दीर्घतपस्विनी । मया विज्ञातदेहासौ तेनेदं ज्वलितं जगत्
नागाश् श्वसन्ति विदलन्ति नगाः पतन्ति वैमानिका जलदवारिधयः प्रयान्ति । शोषं दिशो ऽर्कसहिता मलिनीभवन्ति सूच्येन्द्र पश्य तपसा क्षयमाययैव
कर्कटीकटुवृत्तान्तं सर्वम् आकर्ण्य वासवः । नारदं परिपप्रच्छ पुनर्जातकुतूहलः
सूचीवृत्तपिशाचीत्वं तपसोपार्ज्य तत् तया । कर्कट्या हिमवत्कुक्ष्यां के भुक्ता विभवा मुने
जीवसूची पिशाचीत्वं गता या शूकपेलवम् । असीत् कार्ष्णायसी सूचिस् तस्यास् स्वम् अवलम्बनम्
तत् स्वम् आलम्बनं त्यक्त्वा व्योमवातरथस्थया । प्राणमारुतमार्गेण तया देहप्रविष्टया
सर्वासाम् अन्त्रतन्त्रीणां स्नायुमेदोवसासृजाम् । रन्ध्रेषु पक्षिण्येवान्तर् निलीनं मलिनाङ्गया
यस्यां नाड्यां न यो वायुर् माति तत् ताम् उपेतया । तत्र शूलं कृतं मूलं न्यग्रोधाग्र इवोत्कटम्
तच् छरीरेन्द्रियैस् तानि तथान्यानि बहूनि च । भुक्तानि नरमांसानि भोजनान्य् उचितानि च
सुप्तं विवलितानल्पमालया मुग्धबालया । कान्तवक्षस्स्थलस्यूतम्लिष्टपत्त्रकपोलया
विहृतं वीतशोकासु विहङ्ग्या वनवीथिषु । कल्पद्रुमोत्थपुष्पाभ्रद्विगुणाम्भोदपङ्क्तिषु
पीत आमोदिमन्दारमकरन्दकणासवः । वनेष्व् अमरशैलानाम् अलिन्यालिनिलीनया
चर्वितानि शवाङ्गानि गृध्रगर्वातिवृद्धया । खड्गयष्ट्येव सङ्ग्रामे वीराङ्गानि जवेद्धया
सर्वाङ्गकोशनाडीषु दिक्ष्व् इवानिललेखया । उड्डीनम् अवडीनं च काक्येव व्योमवीथिषु
विराडात्महृदि प्राणा वातस्कन्धास् स्फुरन्ति खे । यथा तथा प्रस्फुरितं प्रति देहगृहं तया
सर्वप्राणिशरीरेषु भ्रान्तं चिच्छक्तिदुष्टया । दीपप्रभाभासितया गृहिण्येव स्वसद्मसु