कदा मे स्याद् उरुश्वभ्रभासुरं तन् महोदरम् । कदा मे स्याच् छरन्मेघमेदुरा नखरावली
कदा मे स्यान् महारक्षोविद्रावणकरं स्मितम् । स्वस्फिग्वाद्यैर् अरण्यान्यां कदा नृत्येयम् उन्मदा
वसासवमहाकुम्भैर् मृतमांसास्थिसञ्चयैः । कदा करिष्ये विरतं मधुरोदरपूरणम्
कदा पीतमहालोकरुधिरा क्षीवतां गता । भवेयम् उदितोन्नृत्ता मुद्रिता निद्रया ततः
मयैव कुतपोवह्नौ तद् दग्ध्वा भासुरं वपुः । भस्मत्वं कनकेनेव सूचित्वम् उररीकृतम्
क्व किलाञ्जनशैलाभं वपुर् भरितदिक्तटम् । क्व मूषिकाखुरसमं सूचित्वं तृणपेलवम्
त्यजत्य् आशु मृद् इत्य् अज्ञः प्राप्यापि कनकाङ्गदम् । मया सूचित्वलोभेन सन्त्यक्तं भासुरं वपुः
हा महोदर विन्ध्याद्रिसनीहारगुहोपमम् । अद्य नान्तं करोषि त्वं कथं सिंहैणहस्तिनाम्
हा भुजौ भरनिर्भुग्नशिखरौ शशभृन्नखौ । पुरोऌआशधिया चन्द्रं कथम् अद्य न धावथः
हा वक्षः काचवैडूर्यगिरीन्द्रतटसुन्दर । नाद्य सिंहादियौकं तद् धृतं रोमवनं त्वया
हा नेत्रे कृष्णरजनीज्वलच्छुष्कवनोज्ज्वले । कस्मान् न मे भूषयथो दृग्ज्वालामालया दिशः
हा स्कन्धबन्धो नष्टो ऽसि विभ्रष्टो ऽसि महीतले । कालेन विनिविष्टो ऽसि निघृष्टो ऽसि शिलोदरे
हा मुखेन्दो तपसि किं नाद्य त्वद्दन्तरश्मिभिः । कल्पाग्निदग्धसंशान्तचन्द्रबिम्बमनोहर
हा हा हस्तौ महाकारौ ताव् अद्य क्व गतौ मम । सम्पन्ना किम् अहं सूची मक्षिकाखुरदोलिता
हा भगोग्रकरञ्जाढ्यसुखदश्वभ्रशोभन । विन्ध्याद्र्यरण्यविपुलनितम्बामलबिम्बक
क्वाकारो ऽम्बरपूरकः क्व च नवं तुच्छात्मसूचीवपू रोदोरन्ध्रसमः क्व चास्यकुहरः क्वेदं च सूचीमुखम् । क्व ग्रासो बहुमांसभारबहलः क्वाब्बिन्दुना रोधनं सूक्ष्मास्य् एतद् अहो मयैव रचितं स्वात्मक्षये नाटकम्
सूची सासम्भवद्वाणी चिन्तयित्वेत्य् अकल्पयत् । पुनस् तद्देहलाभाय भवाम्य् आशु तपस्विनी
इति सञ्चिन्त्य सत्त्वस्थं संहृत्य जनमारणम् । तद् एव हिमवच्छृङ्गं जगाम तपसे स्थिरम्
अपश्यद् एवं सूचीत्वं सा तन् मानसम् आत्मनि । प्राणवातात्मका प्राणैः प्रविश्य हतमानवा
अथात्मन्य् एव सूचीत्वं पश्यन्त्य् एव मनोमयी । प्राणवातशरीरासौ जगाम हिमवच्छिरः
दृढदावानले तत्र सर्वभूतविवर्जिते । महाशिलातलक्षोभरूक्षे पांसुविधूसरे
तस्थाव् अभ्युत्थितैकासौ निस्तृणे विपुलस्थले । मराव् अकस्मात् सञ्जाता शुष्का तृणशिखा यथा
सूक्ष्मस्यैकस्य पादस्य सार्धेनैवाश्रितोर्वरा । स्वसंविदेकपादात्मतपः कर्तुं प्रचक्रमे
सूक्ष्मपादतलेनैषा वसुधारेणुसङ्कटम् । निवार्यात्तपदा कृच्छ्राद् यत्नेनोर्ध्वमुखी स्थिता
कृष्णत्वहिंस्रतातैक्ष्ण्या वृत्तास्या पवनाशनैः । यत्नात् पदं निबध्नन्ती रेण्वणूपलसङ्कटे
अरण्ये क्षुभितां सर्पीं दूरालोकार्थम् उत्थिताम् । पुच्छकोटिस्थितां पातलोलाम् अनुचकार सा
मुखरन्ध्रविनिष्क्रान्ता तस्या भास्करदीधितिः । सखी बभूव सूच्याभा पश्चाद्भागैकरक्षिणी
क्षुद्रे ऽपि स्वजनीभूते याति वत्सलतां जनः । दीधित्यापि सखीवृत्तं सूच्यास् सूचितयाश्रितम्
बभूव तस्यास् स्वच्छा या द्वितीया तापसी सखी । एनस्सूचीव मलिना तया पश्चात् कृतैव सा
सूच्यास्यनिर्गतार्कांशुपाताक्षस्मयकूणितम् । पश्चात् स्मयतता दृष्टा सा धूल्यैवात्र केवलम्