हा हताहम् अनाथाहम् अनाश्वासा निरास्पदा । दुःखाद् दुःखे निमज्जामि सङ्कटात् सङ्कटे ऽपि च
न मे सखी न मे दासी न मे माता न मे पिता । न मे बन्धुर् न मे भृत्यो न मे भ्राता न मे सुतः
न मे देहो न मे स्थानं न मे कश्चित् समाश्रयः । नैकस्थानसमाश्वासो भ्रमामि वनपर्णवत्
आपदां धुरि तिष्ठामि निविष्टास्मि सुदारुणे । अभावम् अभिवाञ्छामि सो ऽपि सम्पद्यते न मे
स्वको देहः परित्यक्तो मूढचेतनया मया । काचबुद्ध्या विमूढेन हस्ताच् चिन्तामणिर् यथा
आपतन्ती मनोमोहं पूर्वम् आपत् प्रयच्छति । पश्चाद् अनर्थविस्ताररूपेण प्रविजृम्भते
बुसेषु परिसुप्तास्मि मार्गेषु लुलितास्मि च । व्रणेषु प्रेषितास्म्य् अन्तर् हा मे दुःखपरम्परा
परप्रेष्यकरी नित्यं परसञ्चारचारिणी । परं कार्पण्यम् आयाता जाता परवशास्म्य् अहम्
भृतिं करोमि तुच्छैव सापि वेधनरूपिणी । अहो ममाल्पभाग्याया दौर्भाग्यम् अपि दुर्लभम्
उत्थितस् स्फारवेतालः कुर्वन्त्याश् शान्तिम् एव मे । सर्वनाशो धनादाने प्रवृत्ताया ममोदितः
किम् अन्धया मया तादृक् सन्त्यक्तं तन् महावपुः । यथा नाशेन वा भाव्यं तथोदेत्य् अशुभा मतिः
माम् अवान्तरनिर्दग्धां न्यूनां कीटकणाद् अपि । उद्धरिष्यति को नाम पांसुराशिषु हारिताम्
विविक्तमनसां बुद्धौ क्व स्फुरन्ति हताशयाः । ग्राममार्गतृणानीव गिरेर् उपरि वासिनाम्
स्थितानाम् अज्ञसम्बोधे कथम् अभ्युदयो भवेत् । अण्व् अप्य् उदेति प्राकाश्यं न खद्योतानुसेविनः
अतः कियन्तं नो जाने कालम् आवलितापदम् । मयापच्छ्वभ्रगर्तेषु लुठितव्यं हतेहया
कदा स्याम् अञ्जनमहाशैलपुत्रकरूपिणी । द्यावापृथिव्योर् वैडूर्यस्तम्भताम् अनुतिष्ठती
मेघमालासमभुजा स्थिरविद्युच्छटेक्षणा । नीहारजालवसना प्रोच्चकेशासिताम्बरा
लम्बोदराभ्रसन्दर्शप्रनर्तितशिखण्डिनी । लम्बलोलस्तनी श्यामदेहपातद्रवत्सुरा
हासभस्मच्छटाच्छन्नसूर्यमण्डलरोधिनी । कृतान्तग्रसनोद्युक्तकृत्यैकाकृतिधारिणी
कुणालोलूखलबृसीशूर्पस्रग्दामभारिणी । पर्वतात् पर्वते शृङ्गे न्यस्य पादं विहारिणी
कदा मे स्याद् उरुश्वभ्रभासुरं तन् महोदरम् । कदा मे स्याच् छरन्मेघमेदुरा नखरावली
कदा मे स्यान् महारक्षोविद्रावणकरं स्मितम् । स्वस्फिग्वाद्यैर् अरण्यान्यां कदा नृत्येयम् उन्मदा
वसासवमहाकुम्भैर् मृतमांसास्थिसञ्चयैः । कदा करिष्ये विरतं मधुरोदरपूरणम्
कदा पीतमहालोकरुधिरा क्षीवतां गता । भवेयम् उदितोन्नृत्ता मुद्रिता निद्रया ततः
मयैव कुतपोवह्नौ तद् दग्ध्वा भासुरं वपुः । भस्मत्वं कनकेनेव सूचित्वम् उररीकृतम्
क्व किलाञ्जनशैलाभं वपुर् भरितदिक्तटम् । क्व मूषिकाखुरसमं सूचित्वं तृणपेलवम्
त्यजत्य् आशु मृद् इत्य् अज्ञः प्राप्यापि कनकाङ्गदम् । मया सूचित्वलोभेन सन्त्यक्तं भासुरं वपुः
हा महोदर विन्ध्याद्रिसनीहारगुहोपमम् । अद्य नान्तं करोषि त्वं कथं सिंहैणहस्तिनाम्
हा भुजौ भरनिर्भुग्नशिखरौ शशभृन्नखौ । पुरोऌआशधिया चन्द्रं कथम् अद्य न धावथः
हा वक्षः काचवैडूर्यगिरीन्द्रतटसुन्दर । नाद्य सिंहादियौकं तद् धृतं रोमवनं त्वया