समानवैपरीत्येन समानसमगामिनी । उदानविपरीतत्वाद् उदानसमगामिनी
व्यानस्था व्याधिजननी सर्वाङ्गरसचारिणी । हृत्कण्टशूलोत्प्लवनवैवर्ण्योन्मादकारिणी
प्रायस् सौचिकहस्तस्था सुप्तोर्णागण्डकोटरे । बालहस्ते ऽङ्गुलीतल्पवेधनैकविलासिनी
पादप्रविष्टा रुधिरपानपाजिरविस्तृता । तुष्यत्य् अतितरां तुच्छभोजना तुच्छभोजनैः
शेते कर्दमकोशस्था चिरकालम् अधोमुखी । इच्छानुरूपम् आसाद्य क इवास्पदम् उज्झति
क्रौर्येणापहृतात्मानं दर्शयत्य् उपवेधनैः । उत्सवाद् अपि नीचानां कलहो हि सुखायते
कपर्दिका वलभ्यान्तरात्मानं बहु मन्यते । दुरुच्छेदा हि भूतानाम् अहङ्कारचमत्कृतिः
श्वेतिकायुग्मलभ्येन साहृतेनात्मना नृणाम् । मृतिम् आधास्यते चित्रा स्वार्थे नोदेति मूढता
वस्त्रतन्तुविभेदेन परमारणम् आशु मे । इदं सम्पद्यत इति भवत्य् अत्यन्तनिर्मला
स्थापिता मलम् आदत्ते सूची यद् घर्षणं विना । परापवेधविरहाद् व्याधिस् सो ऽस्याः प्रवर्तते
सूक्ष्मदृश्या वेधदात्री क्षणाद् विस्मृतिम् एति वा । तीक्ष्णा भेदकरी क्रूरा सूचिचेष्टेव दैविकी
तन्तुवेधनमात्रेण हतो ऽन्य इति तोषिता । दुर्जनो येन तेनैव नाशितो वेत्ति दुष्टताम्
पङ्के मज्जति याति खे विहरति व्योमानिलैर् दिक्तटाञ् शेते पांसुषु भूतले पथि गृहे हट्टे वने ऽन्तःपुरे । हस्ते श्रोत्रसरोरुहे ऽथ मृदुनि स्वस्थोर्णिकागण्डके रन्ध्रे काष्ठमृदां च नाडिहृदये द्रव्यात्मसत्तैव सा
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
अथ सा बहुकालेन कर्कटी नाम राक्षसी । सर्वेषां नरमांसानां नूनं तृप्तिम् उपाययौ
पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना । सूच्यां किम् इव मात्य् अन्तस् तृष्णासूचिस् तु दुर्भरा
चिन्तयाम् आस हा कष्टं किम् इदं सूचितां गता । सूक्ष्मास्मि हतशक्तिश् च मयि ग्रासो न माति च
क्व मे तानि विशालानि गतान्य् अङ्गानि दुर्धियः । कालमेघविलासानि वने शीर्णानि पर्णवत्
मय्य् अस्यां मन्दभाग्यायां मनाग् अपि न माति च । स्वादुमांसरसग्रासो वसावासित आसवः
पङ्के ऽन्तर् विनिमज्जामि पतामि धरणीतले । हतास्मि जनपदौघैस् तस्करैर् दलितास्मि च
हा हताहम् अनाथाहम् अनाश्वासा निरास्पदा । दुःखाद् दुःखे निमज्जामि सङ्कटात् सङ्कटे ऽपि च
न मे सखी न मे दासी न मे माता न मे पिता । न मे बन्धुर् न मे भृत्यो न मे भ्राता न मे सुतः
न मे देहो न मे स्थानं न मे कश्चित् समाश्रयः । नैकस्थानसमाश्वासो भ्रमामि वनपर्णवत्
आपदां धुरि तिष्ठामि निविष्टास्मि सुदारुणे । अभावम् अभिवाञ्छामि सो ऽपि सम्पद्यते न मे
स्वको देहः परित्यक्तो मूढचेतनया मया । काचबुद्ध्या विमूढेन हस्ताच् चिन्तामणिर् यथा
आपतन्ती मनोमोहं पूर्वम् आपत् प्रयच्छति । पश्चाद् अनर्थविस्ताररूपेण प्रविजृम्भते
बुसेषु परिसुप्तास्मि मार्गेषु लुलितास्मि च । व्रणेषु प्रेषितास्म्य् अन्तर् हा मे दुःखपरम्परा
परप्रेष्यकरी नित्यं परसञ्चारचारिणी । परं कार्पण्यम् आयाता जाता परवशास्म्य् अहम्
भृतिं करोमि तुच्छैव सापि वेधनरूपिणी । अहो ममाल्पभाग्याया दौर्भाग्यम् अपि दुर्लभम्
उत्थितस् स्फारवेतालः कुर्वन्त्याश् शान्तिम् एव मे । सर्वनाशो धनादाने प्रवृत्ताया ममोदितः