सायस्सूची मनस्सूच्या वलिता विजहार ह । दिक्ष्व् अप्स्व् इव शिलागुर्वी नावङ्गवलिता सती
विससार दिगन्तेषु सान्तःकरणसत्तया । तृणलेखेव पवनशक्त्या संसृतिरूपया
मुखेन सूक्ष्मसूत्रान्तं त्यजन्ती सुशिरोम्भने । परापूरोद्यमेनाशु जातेव हृदयान्विता
परापूररसेनेव सूच्या हृत् सुविकासितम् । अनारतवमत् सूक्ष्मसूत्रान्तम् इव सूम्भने
तीक्ष्णैर् अपि चिरक्षीणः पूर्यते निर्विचारणम् । दृष्टान्तो ऽत्र क्षणात् सूच्या पूरितो जर्जरः पटः
सूत्रांशुनिर्गतैर् योग्यं सूच्या हृदयम् अर्जितम् । परपूरणयैवाशु तेजश् च कचितार्करुक्
अकस्मात् तेन रूढेण क्षीणपूरणरूपिणा । हृदये राक्षसी सूची कर्मणातप्यतेव सा
वेधं खुररवेणैव करोतीषत्प्रचारिता । प्रकृतेन निजेनापि खेदाय व्यवहारिता
सञ्चारयति वस्त्रेषु सूत्रं चतुरवेधना । आदीर्घं वासनातन्तुं शरीरेष्व् इव वेदना
सञ्चार्यमाणा वेगेन धावतीवाक्षिपाटने । अदर्शितमुखा एव दुर्जना मर्मवेधिनः
स्कन्धवस्त्रजवप्रोता वेधाक्ष्णा सुखम् ईक्षते । कथम् एनं भिनद्मीति तीक्ष्णानाम् एतद् ईप्सितम्
समम् एव च कौशेये क्षौमे च वसने शिता । जडः क इव वा नाम गुणागुणम् उपेक्षते
सा दधानोज्ज्वलं सूत्रम् अङ्गुष्ठाङ्गुलिपीडिता । अन्त्रतन्तुम् इवानन्तम् उद्गिरन्ती निरीक्षते
तीक्ष्णास्यहृदयत्वेन सरसेषु न केषुचित् । सूत्रितापि पदार्थेषु विशत्य् अलसगामिनी
अगर्दभीमुखप्रोता सुतीक्ष्णापि न चापि धीः । अवेधिताप्य् अहृदया राजपुत्र्य् अपि दुर्भगा
विना परापकारेण तीक्ष्णे सरणम् ईहते । वेधनाद् रोधिता सूचिः कर्णपाशे प्रलम्बते
शेते किं चारु मैत्र्येव बुसे करपरिच्युता । स्वरूपसदृशं मित्रं कस्मै नाम न रोचते
मिश्रिता मूढचित्तानां वृत्तिभिः प्राकृते जने । तिष्ठत्य् आत्मसमां को हि सङ्गतिं त्यक्तुम् इच्छति
भवत्य् अयस्कारचितौ सन्त्यक्तान्तर्धिगामिनी । भस्त्रावातैर् विवलिता गगनोड्डयनोन्मुखी
प्राणापानप्रवाहस्था हृत्पद्मान्तरगामिनी । दुःखशक्तिर् महाघोरा जीवशक्तिर् इवोद्यता
समानवैपरीत्येन समानसमगामिनी । उदानविपरीतत्वाद् उदानसमगामिनी
व्यानस्था व्याधिजननी सर्वाङ्गरसचारिणी । हृत्कण्टशूलोत्प्लवनवैवर्ण्योन्मादकारिणी
प्रायस् सौचिकहस्तस्था सुप्तोर्णागण्डकोटरे । बालहस्ते ऽङ्गुलीतल्पवेधनैकविलासिनी
पादप्रविष्टा रुधिरपानपाजिरविस्तृता । तुष्यत्य् अतितरां तुच्छभोजना तुच्छभोजनैः
शेते कर्दमकोशस्था चिरकालम् अधोमुखी । इच्छानुरूपम् आसाद्य क इवास्पदम् उज्झति
क्रौर्येणापहृतात्मानं दर्शयत्य् उपवेधनैः । उत्सवाद् अपि नीचानां कलहो हि सुखायते
कपर्दिका वलभ्यान्तरात्मानं बहु मन्यते । दुरुच्छेदा हि भूतानाम् अहङ्कारचमत्कृतिः
श्वेतिकायुग्मलभ्येन साहृतेनात्मना नृणाम् । मृतिम् आधास्यते चित्रा स्वार्थे नोदेति मूढता
वस्त्रतन्तुविभेदेन परमारणम् आशु मे । इदं सम्पद्यत इति भवत्य् अत्यन्तनिर्मला
स्थापिता मलम् आदत्ते सूची यद् घर्षणं विना । परापवेधविरहाद् व्याधिस् सो ऽस्याः प्रवर्तते