एकवस्त्वनुरागाणाम् अहो नु विषमा गतिः । देहो ऽपि तृणवत् त्यक्तो राक्षस्या निजयेच्छया
एकवस्त्वतिगर्वेण नश्यन्त्य् अन्या हि संविदः । राक्सस्या ग्रासगर्वेण देहनाशो ऽपि नेक्षितः
नाशो ऽपि सुखयत्य् अज्ञम् एकवस्त्वतिरागिणम् । सूचीभूता विदेहापि परितुष्टैव राक्षसी
अन्या बभूव तल्लग्ना सा तथा जीवसूचिका । व्योमात्मिका निराकारा व्योमवृत्तिशरीरका
तेजस्तन्तुप्रवाहाभा प्राणतन्तुमयात्मिका । शूलसंवेदनाकारा तद्रन्ध्रार्कांशुसुन्दरी
पृथक्स्थेवासिधारा सा परमाण्वावलीव च । कौसुमी गन्धलेखेव कलाकलनरूपिणी
पापात्मिका मनोवृत्तिस् सा हि तस्यास् तथा स्थिता । परप्राणदशावेधपरमार्थपरायणा
एवम् अस्यास् तनुर् जाता सूचिद्वयमयी हि सा । नीवारशूकवत् तन्वी कर्पासांशुसुपेलवा
तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम् । वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश
सर्वस् स्वसङ्कल्पवशाल् लघुर् भवति वा गुरुः । कर्कट्योग्रं वपुस् त्यक्त्वा सूचीत्वम् उररीकृतम्
तुच्छो ऽप्य् अर्थो ऽल्पसत्त्वानां यात्य् अतिप्रार्थनीयताम् । सूचीवृत्तपिशाचीत्वं राक्षस्या तपसार्जितम्
अपि पुण्यशरीराणां जातिबन्धो न शाम्यति । अनुसूचि पिशाचीत्वं राक्षस्या समुपार्जितम्
तस्यां दिगन्तभ्रमणे प्रवृत्तायां सहानिलैः । तत्रैव सा तनुस् स्थूला गलिता शारदाभ्रवत्
कस्यचिद् विवशाङ्गस्य क्षीवस्य विपुलस्य वा । प्रविश्यान्तर् वातसूची भवत्य् अति विषूचिका
कस्यचित् तनुदेहस्य स्वच्छस्य सुधियो ऽपि च । प्रविश्य जीवसूचित्वे भवत्य् अन्तर् विषूचिका
एवं क्वचित् तृप्यति सा दुर्बुद्धिहृदयस्थिता । क्वचिद् उच्छिद्यते पुण्यैर् मन्त्रौषधिकृतक्रमैः
आसीद् बहूनि वर्षाणि भ्रमणैकपरायणा । देहद्वयेन गच्छन्ती व्योम्नि भूमितले तथा
रजस्तिरोहिता भूमौ हस्ते ऽङ्गुलितिरोहिता । प्रभातिरोहिता व्योम्नि वस्त्रे सूत्रतिरोहिता
अन्तस्स्था स्नायुसरिति दुर्भगे पांसुपाण्डुनि । शुष्करेखासरित्खाते सूक्ष्मरेखाजरत्तृणे
अर्थहीने गतच्छाये शून्ये उच्छ्वासकारिणि । मक्षिकावातहरणे श्रीवृक्षपरिवर्जिते
स्थूलास्थिग्रन्थिवलिते नित्यकम्पस्फुरत्तले । अनात्मीयाच्छनीहारशुद्धांशुककृतभ्रमे
किणस्थाण्वग्रविश्रान्तमक्षिकाविङ्कवायसे । रौक्ष्यरूढरसद्वाते विलोलाङ्गुलिशाखिनि
मलाभ्रलेखासंसारे स्वाङ्गुलिव्रणगर्तके । स्वेदावश्यायदुष्ष्ठ्यूते पर्ववाल्मीकपर्वते
कचत्पांसुजलभ्रान्तौ नखाजगरकर्कशे । क्वचित् क्वचित् सरिद्भीतभीतयूकाकुपान्थके
विरला शुष्कसन्दृष्टपिटकापूतपल्वले । मध्यस्थलेखामार्गौघे शीतश्वसनगोचरे
ग्रस्तयूकानरौघासृक्पूर्णसृक्विनखास्यताम् । दधताङ्गुष्ठयक्षेण क्रान्ते सर्वत्र पातिना
नानाविरचना चित्रपटपत्तनगामिनी । गमागमपरिश्रान्ता तत्रात्यन्तचिराश्वगा
नगरान् नगरे न्यस्तसूत्रभाण्डिकभारिणी । प्राप्ते करतलारण्ये बलीवर्दविवर्तिनी
गुप्ते विश्रमणायैव मनाक् करपरिच्युता । तन्तुप्रोतमुखाकृष्टिखिन्ना क्वापि विशीर्यते
वेधनं कर्णसंश्लिष्टा कठिनापि न साकरोत् । न हि तीक्ष्णो बहिः कार्ये नीचत्वं विजहाति चेत्