तीर्थमुन्याश्रमश्रेणीं द्रष्टुम् उत्कण्ठितं मनः । रामस्याभूद् भृशं तत्र कदाचिद् गुणशालिनः
राघवश् चिन्तयित्वैवम् उपेत्य चरणौ पितुः । हंसः पद्माव् इव नवौ जग्राह नखकेसरौ
तीर्थानि देवसद्मानि वनान्य् आयतनानि च । द्रष्टुम् उत्कण्ठितं तात ममेदं हि भृशं मनः
तद् एताम् अर्थनां पूर्वां सफलीकर्तुम् अर्हसि । न सो ऽस्ति भुवने तात त्वया यो ऽर्थी विमानितः
इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा । विचार्यामुञ्चद् एवैनं रामं प्रथमम् अर्थिनम्
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः । मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः
वसिष्ठप्रहितैर् विप्रैश् शास्त्रतज्ज्ञैस् समन्वितः । स्निग्धैः कतिपयैर् एव राजपुत्रवरैस् सह
अम्बाभिर् विहिताशीर्भिर् आलिङ्ग्यालिङ्ग्य भूषितः । निरगात् स गृहात् तस्मात् तीर्थयात्रार्थम् उद्यतः
निर्गतस् स्वपुरात् पौरैस् तूर्यघोषेण वर्धितः । पीयमानः पुरन्ध्रीणां नेत्रैर् भृङ्गौघभङ्गुरैः
ग्रामीणललनालोकहस्तपद्मापवर्जितैः । लाजवर्षैर् विकीर्णात्मा हिमैर् इव हिमाचलः
आवर्जयन् विप्रगणान् परिशृण्वन् प्रजाशिषः । आलोकयन् दिगन्तांश् च परिचक्राम जङ्गले
अथारभ्य स्वकात् तस्मात् क्रमात् कोसलमण्डलात् । स्नानदानतपोध्यानपूर्वकं स ददर्श ह
नदीस् तीर्थानि पुण्यानि वनान्य् आयतनानि च । जङ्गलानि वनान्तेषु तटान्य् अब्धिमहीभृताम्
मन्दाकिनीम् इन्दुनिभां कालिन्दीं चोत्पलामलाम् । सरस्वतीं शतद्रुं च चन्द्रभागाम् इरावतीम्
वेणां च कृष्णवेणां च निर्विन्ध्यां सरयूं तथा । चर्मण्वतीं वितस्तां च विपाशां बाहुदाम् अपि
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा । वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा
मानसं च क्रमसरस् तथैवोत्तरमानसम् । वडवां मडवां चैव तीर्थवृन्दं ससोदरम्
अग्नितीर्थं महातीर्थम् इन्द्रद्युम्नसरस् तथा । सरांसि सरसीश् चैव तथा वापीह्रदावलीम्
स्वामिनं कार्त्तिकेयं च सालिग्रामहरिं तथा । स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः
नानाश्चर्यविचित्राणि चतुरब्धितटानि च । विन्ध्यकन्दरकुञ्जांश् च कुलशैलस्थलानि च
राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां च पावनान् आश्रमाञ् शुभान्
भूयो भूयस् स बभ्राम भ्रातृभ्यां सह मानदः । चतुर्ष्व् अपि दिगन्तेषु सर्वान् एव महीतटान्
अमरकिन्नरमानवमानितस् समवलोक्य महीम् अखिलाम् इमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकम् इवेश्वरः
लाजपुष्पाञ्जलिव्रातैर् विकीर्णः पौरवासिभिः । स विवेश गृहं श्रीमाञ् जयन्तो विष्टपं यथा
प्रणनामाथ पितरं वसिष्ठं मातृबान्धवान् । ब्राह्मणान् गुरुवृद्धांश् च राघवः प्रथमागतः
सुहृद्भिर् मातृभिश् चैव पित्रा द्विजगणेन च । मुहुरालिङ्गनाचारै राघवो न ममौ तदा
तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः । जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव
बहून्य् आस दिनान्य् अत्र रामागमनम् उत्सवः । महानन्दे जनान् मुञ्चन् केलिकोलाहलाकुलः
उवास स सुखं गेहे ततः प्रभृति राघवः । वर्णयन् विविधाचारान् देशाचारान् इतस् ततः
प्रातर् उत्थाय रामो ऽसौ कृत्वा सन्ध्यां यथाविधि । सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा