इति गगनगतस् त्रिलोकनाथो गगनगसिद्धगृहीतसिद्धमन्त्रः । गत इभगतशक्रवन्द्यमानो निजपुरम् अक्षयम् अग्र्यम् उज्ज्वलश्रि
अथ वैडूर्यशृङ्गाभा सा महाकृष्णा राक्षसी । कज्जलाम्बुदलेखेव तानवं गन्तुम् उद्यता
बभूवाभ्रोपमाकारत्यागे विटपिरूपिणी । पुम्प्रमाणा ततो ऽप्य् आसीत् ततो ऽभूद् धस्तमात्रकम्
ततः प्रादेशमात्राभा ततो ऽप्य् अङ्गुलरूपिणी । ततो माषशिमीतुल्या ततस् सूची बभूव ह
ततः कौशेयसूचीत्वं पद्मकेसरसुन्दरम् । प्राप्ता सा शिखराकारा सङ्कल्पाद्रिर् इवातता
रराज सूचिका कृष्णा श्लक्ष्णायसकलामयी । पुर्यष्टकेन वलिता व्योमगा वातवाहिनी
सूचिर् दृश्यत एवासौ न त्व् अयो नाम विद्यते । संविद्भ्रमकलैवैषा स्वप्नसूचीव लक्ष्यते
रत्नसूचीव मसृणा मनोमननसंयुता । वैडूर्यरश्मिलेखेव दण्डसन्तानसुन्दरी
कज्जलाम्भोजकिञ्जल्कलतेव पवनाहृता । सूक्ष्मरन्ध्रेक्षणस्वच्छदृष्टव्योमकनीनिका
स्वमुखग्राह्यसूत्रेण श्लक्ष्णपुच्छशिखाणुना । दृश्या वैपुल्यशान्त्यर्थं परं मौनव्रतं गता
सुदूराद् दीपवद् दृष्टं सुतन्मात्रत्वम् आगतम् । दूराद् एव मनोज्ञेन प्रोद्गिरन्ती मुखेन खम्
कुञ्चितेक्षणसन्दृश्यदीर्घदीपांशुकोमला । सद्यस्स्नानसमुच्छूनभालबालविलासिनी
तन्तुर् बिसाद् इवोड्डीना बाह्यसञ्चारकौतुकात् । ब्रह्मनाडिर् इवोद्युक्ता बहिर् इन्द्वंशसुन्दरी
नियतेन्द्रियशक्तिस् स्वा जीवेनेव बहिष्कृता । बौद्धतीर्थिकविज्ञानसन्तानवद् अलक्षिता
शून्यसिद्धान्तशिसिका रन्ध्रानिललवाभया । क्षीणदीपांशुसूच्येव तीक्ष्णयानुपलभ्यया
ग्रासार्थं सूचितां याता स चास्या नोपयुज्यते । विचारितं तया नैतद् अहो मौर्ख्यविजृम्भितम्
साग्रा सञ्चिन्तयाम् आस न सूची तुच्छरूपताम् । चैत्तम् ईहितम् एवैकं पश्यन्त्य् आस्ते यथासुखम्
अविचार्यैव सूचित्वं तया मूढधियार्थितम् । नानार्थबुद्धेस् स्फुरति पूर्वापरविचारणा
सार्थक्रियो ऽग्र्यसामर्थ्यो याति भावनयान्यताम् । पदार्थो ऽभिमतार्थाढ्यां निश्श्वासेनेव दर्पणः
सूचीभावं प्रपन्नायास् त्यजन्त्याः पीवरं वपुः । महामरणम् अप्य् अस्या राक्षस्यास् सुसुखं स्थितम्
एकवस्त्वनुरागाणाम् अहो नु विषमा गतिः । देहो ऽपि तृणवत् त्यक्तो राक्षस्या निजयेच्छया
एकवस्त्वतिगर्वेण नश्यन्त्य् अन्या हि संविदः । राक्सस्या ग्रासगर्वेण देहनाशो ऽपि नेक्षितः
नाशो ऽपि सुखयत्य् अज्ञम् एकवस्त्वतिरागिणम् । सूचीभूता विदेहापि परितुष्टैव राक्षसी
अन्या बभूव तल्लग्ना सा तथा जीवसूचिका । व्योमात्मिका निराकारा व्योमवृत्तिशरीरका
तेजस्तन्तुप्रवाहाभा प्राणतन्तुमयात्मिका । शूलसंवेदनाकारा तद्रन्ध्रार्कांशुसुन्दरी
पृथक्स्थेवासिधारा सा परमाण्वावलीव च । कौसुमी गन्धलेखेव कलाकलनरूपिणी
पापात्मिका मनोवृत्तिस् सा हि तस्यास् तथा स्थिता । परप्राणदशावेधपरमार्थपरायणा
एवम् अस्यास् तनुर् जाता सूचिद्वयमयी हि सा । नीवारशूकवत् तन्वी कर्पासांशुसुपेलवा
तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम् । वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश
सर्वस् स्वसङ्कल्पवशाल् लघुर् भवति वा गुरुः । कर्कट्योग्रं वपुस् त्यक्त्वा सूचीत्वम् उररीकृतम्