क्रमेण दिवसाः पक्षास् तस्या मासर्तवो ययुः । शीतातपेष्व् अलोलायाः कृत्ताया इव शैलतः
सा बभूवाभ्रमालायास् समा संस्तम्भिताकृतिः । कृष्णोत्थितोर्ध्वकेशी खम् आहर्तुम् इव चोद्भुजा
आलोक्य तां पवनजर्जरिताङ्गकत्वक्क्लीवां सझाङ्कृतिरणत्पवनावधूतैः । ऊर्ध्वस्थमूर्धजतमःपटलैर् दधानां तारौघमौक्तिकम् अजस् समुपाजगाम
अथ वर्षसहस्रेण तां पितामह आययौ । दारुणं हि तपस् सिद्ध्यै विष्ठाग्निर् अपि शीतहा
मनसैव प्रणम्यैनं सा तथेति स्थिता सती । को वरः क्षुत्क्षयायालम् इति चिन्तान्विताभवत्
अनायसी चायसी च स्याम् अहं जीवसूचिका । अस्योक्त्या द्विविधा सूचीभूत्वालक्ष्या विशाम्य् अहम्
प्राणेन सह सर्वेषां हृदयं सुरभिर् यथा । यथाभिमतम् एतेन ग्रसेयं सकलं जनम्
क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् । इति सञ्चिन्तयन्तीं ताम् उवाच कमलोद्भवः
अन्यादृष्टस् तया दृष्टस् त्व् अमृताभ्ररवोपमम् । पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके
उत्तिष्ठ त्वयि तुष्टो ऽस्मि गृहाणाभिमतं वरम् । भगवन् भूतभव्येश स्याम् अहं जीवसूचिका
अनायसी चायसी च विकल्पय च मे वरम् । एवम् अस्त्व् इति ताम् उक्त्वा पुनर् एव पितामहः
सूचिकाम् आह सर्गे त्वं भविष्यसि विषूचिका । सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि
दुर्भोजना दुरारम्भा मूर्खा दुस्स्थितयश् च ये । दुर्देशवासिनो धृष्टास् तेषां हिंसां करिष्यसि
प्रविश्य हृदयं प्राणैः पद्मप्लीहादिवेधनात् । वातलेखात्मिका व्याधिर् भविष्यसि विषूचिका
सगुणं विगुणं वापि जनम् आसादयिष्यसि । गुणिनि त्वच्चिकित्सार्थं मन्त्रो ऽयं तु मयोच्यते
हिमाद्रेर् उत्तरे पार्श्वे कर्कटी नाम राक्षसी । विषूचिकाभिधाना या कन्या सा न्यायबाधिका
इति मन्त्रं महामन्त्रं न्यस्य वामकरोदरे । मार्जयेद् आतुराकारं तेन हस्तेन संयतः
हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् । कर्कटीं कर्कशाक्रन्दां मन्त्रमुद्गरचूर्णिताम्
आतुरं चिन्तयेच् चन्द्रे रसायनह्रदे स्थितम् । अजरामरणं मुक्तं सर्वाधिव्याधिविभ्रमैः
साधको हि शुचिर् भूत्वा स्वाचान्तस् सुसमाहितः । क्रमेणानेन सकलाः प्रोच्छिनत्ति विषूचिकाः
इति गगनगतस् त्रिलोकनाथो गगनगसिद्धगृहीतसिद्धमन्त्रः । गत इभगतशक्रवन्द्यमानो निजपुरम् अक्षयम् अग्र्यम् उज्ज्वलश्रि
अथ वैडूर्यशृङ्गाभा सा महाकृष्णा राक्षसी । कज्जलाम्बुदलेखेव तानवं गन्तुम् उद्यता
बभूवाभ्रोपमाकारत्यागे विटपिरूपिणी । पुम्प्रमाणा ततो ऽप्य् आसीत् ततो ऽभूद् धस्तमात्रकम्
ततः प्रादेशमात्राभा ततो ऽप्य् अङ्गुलरूपिणी । ततो माषशिमीतुल्या ततस् सूची बभूव ह
ततः कौशेयसूचीत्वं पद्मकेसरसुन्दरम् । प्राप्ता सा शिखराकारा सङ्कल्पाद्रिर् इवातता
रराज सूचिका कृष्णा श्लक्ष्णायसकलामयी । पुर्यष्टकेन वलिता व्योमगा वातवाहिनी
सूचिर् दृश्यत एवासौ न त्व् अयो नाम विद्यते । संविद्भ्रमकलैवैषा स्वप्नसूचीव लक्ष्यते
रत्नसूचीव मसृणा मनोमननसंयुता । वैडूर्यरश्मिलेखेव दण्डसन्तानसुन्दरी
कज्जलाम्भोजकिञ्जल्कलतेव पवनाहृता । सूक्ष्मरन्ध्रेक्षणस्वच्छदृष्टव्योमकनीनिका
स्वमुखग्राह्यसूत्रेण श्लक्ष्णपुच्छशिखाणुना । दृश्या वैपुल्यशान्त्यर्थं परं मौनव्रतं गता