नेह प्रजायते किञ्चिन् नेह किञ्चन नश्यति । जगद् गन्धर्वनगररूपेण ब्रह्मबृंहितम्
यथैव ब्रह्मजादीनां जीवानां सदसन्मयी । सत्ता तथैव सर्वेषाम् आसरीसृपम् आसुरम्
संविद्विभ्रम एवायम् एवम् अभ्युत्थितो ऽप्य् असत् । आब्रह्म कीटसंवित्तेस् सम्यक्संवेदनक्षयः
यथा सम्पद्यते ब्रह्मा कीटस् सम्पद्यते तथा । कीटस् तु रूढभूतौघवलनात् तुच्छकर्मतः
यद् एव जीवनं जीवे चेत्योन्मुखमयात्मकम् । तद् एव पौरुषं तस्मिन् सारं कर्म तद् एव च
ब्रह्मणस् सर्गताहन्ते कीटस्याप्य् असदुत्थिते । चित्तमात्रात्मके भ्रान्ते प्रेक्षामात्रभवत्क्षये
मातृमानप्रमेयार्थो न चिन्मात्रेतरो यदा । तदा द्वैतैक्यवादार्थश् शशशृङ्गाब्जिनीसमः
भावदार्ढ्यात्मकं मिथ्या ब्रह्मणो ऽण्डं विभाव्यते । आत्मैव कोशकारेण लालारूपात्मकं यथा
सत्तया ब्रह्मणा यद् यद् यथा दृष्टं विभाति तत् । तत् तथा दृश्यते तज्ज्ञैस् स्वभावस्यैष निश्चयः
यथा यद् उदितं वस्तु तन् न तत्तां विना भवेत् । निमेषम् अपि कल्पो वा स्वभावस्यैष निश्चयः
अलीकम् इदम् उत्पन्नम् अलीकं च विवर्धते । अलीकम् एव स्वदते तथालीकं विलीयते
चिन्मात्रस्यान्तरे सर्गश् चिन्मात्रं सकलान्तरे । तत्त्वात् समस्तसत्तानां चिन्मात्रं सर्वम् एव वा
चिन्मात्रम् एव बहिर् अन्तर् उपर्य् अधस्तान् मानप्रमेयम् इति मातृपदं च धत्ते । नित्योपशान्तम् इति तेन समस्तसत्ता नित्यं स्थितं सुसमम् एकम् अपेततुर्यम्
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । राक्षस्योक्तं महाप्रश्नजालम् आवलिताखिलम्
अस्ति कज्जलपङ्काद्रेर् इवोग्रा सालभञ्जिका । हिमाद्रेर् उत्तरे पार्श्वे कर्कटी नाम राक्षसी
विषूचिकाभिधाना या कन्या सा न्यायबाधिका । विन्ध्याटवीव देहेन युक्त्या कार्श्यम् उपागता
महाबलाग्निनयना रोदोरन्ध्रावपूरिणी । नीलाम्बराम्बरा कृष्णा देहबद्धेव यामिनी
नीहारवसनाच्छन्ना मेदुराभ्रशिरःपटा । लम्बाभ्रबिम्बोरसिजा नित्योर्ध्वतिमिरोर्ध्वजा
स्थिरविद्युल्लतानेत्रा तमालतरुतारका । वैडूर्यशूर्पाग्रनखी भस्मनीहारहासिनी
निर्मांसनरदेहौघपुष्पस्रग्दामभूषिता । सर्वाङ्गोग्रान्त्रसम्प्रोतशवमालाविराजिता
वेतालावेशविवलत्कालकङ्कालकुण्डला । अर्कादानोत्कदीप्ताभ्रभीमोग्रभुजमण्डला
तस्या विपुलकायत्वाद् दुर्लभत्वान् निजान्धसः । अतृप्तो ऽर्णवलेखाया इवाभूज् जाठरो ऽनलः
न कदाचन सा तृप्तिम् उपायाति महोदरी । वडवानलजिह्वेव चिन्तयाम् आस चैकदा
जम्बुद्वीपगतान् सर्वान् निगिरामि जनान् यदि । अनारतम् अनुच्छ्वासं जलराशीन् इवार्णवः
मेघेन मृगतृष्णेव तन् मे क्षुद् उपशाम्यति । अविरुद्धैव सा युक्तिर् ययापदि हि जीव्यते
मन्त्रौषधतपोदानदेवपूजादिरक्षितम् । समम् एव जनं सर्वं निर्बाधं कः प्रबाधते
तपः करोमि परमम् अखिन्नेनैव चेतसा । तपसैव महोग्रेण यद् दुरापं तद् आप्यते
इति सञ्चिन्त्य सा सर्वजन्तुजातजिघत्सया । तपोऽर्थम् अथ सस्मार प्रदेशं भूतदुर्गमम्
आरुरोह च तच् छृङ्गं स्थिरविद्युद्विलोचना । हस्तपादादिमद्देहा श्यामलेवाभ्रमण्डली
तत्राम्बराम्बरा स्नातुं तपः कर्तुं कृतस्थितिः । अतिष्ठद् एकपादेन चन्द्रार्कास्पन्दलोचना