अहं किम् इति शब्दार्थवेदनाम् सो ऽङ्गसंविदम् । संविदन् वस्तुशब्दार्थं जीवः पश्यति सार्थकम्
तादृक्संवेदनस् सो ऽथ रसशब्दार्थवेदनम् । भाविजिह्वार्थनाम्नैकदेशे ऽनुभवति क्षणात्
तादृक्संवेदनाज् जीवश् शब्दार्थोन्मुखतां गतः । भविष्यन्नेत्रनाम्नैकदेशे भवति भासनम्
तादृक्संवेदनस् सो ऽथ घ्राणं तद्वृत्तिवेदनात् । स्थितो यस्मिन् भविष्यन्ती तावद् दृष्ट्यादितत्स्थितिः
एवम्प्रायस् स जीवात्मा काकतालीयवच् छनैः । विशिष्टसन्निवेशत्वं भावितं पश्यति स्वतः
स तस्य सन्निवेशस्य त्व् असतो ऽपि सतस् सतः । शब्दभावैकदेशत्वं श्रवणार्थेन विन्दति
स्पर्शभावैकदेशत्वं त्वक्छब्दार्थेन विन्दति । रसभावैकदेशत्वं जिह्वार्थाकृति पश्यति
रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति । गन्धभावैकदेशत्वं नासिकात्वेन पश्यति
एवम्भावमयैतत्ता प्रकटीकरणक्षमम् । भविष्यद् इन्द्रियाख्यं सा रन्ध्रं पश्यति देहके
इत्य् एवम् आदिजीवस्य राघवाद्यतनस्य च । उदेति प्रतिभासात्मा देह एवातिवाहिकः
अनाख्यैव परा सत्ता स्वातिवाहिकताम् इव । सा गच्छत्य् अप्य् अगच्छन्ती तादृक्शक्त्यात्मभावनात्
मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात् । तदातिवाहिकोक्तीनां कः प्रसङ्गस् तद् एव तत्
अन्यत्ववेदनाद् अन्यः परस्माद् आतिवाहिकः । ब्रह्मत्ववेदनाद् ब्रह्म नासंवित्तिर् हि सान्यथा
असम्भवाद् असंवित्तेर् ब्रह्मात्मकतयाथवा । को मोक्षः को विचारस् स्याद् अलं भेदविकल्पनैः
सिद्धान्तकाल एवैष प्रश्नस् ते राम राजते । अकालपुष्पमाला हि शोभनापि न शोभते
सार्थैवानर्थिकाकालमाला विवलिता यथा । तथैवाकालगीर् जन्तोस् सर्वं काले हि शोभते
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति दृश्यते । ननु सर्वपदार्थानां कालेन फलयोगिता
एवम् एष स जीवात्मा सुप्तात्मा समुपस्थितः । पितामहत्वम् उच्छूनः पश्यन्न् आत्मनि कालतः
ओमुच्चारणसंवित्तिपूर्वं वेदान् प्रपश्यति । यः करोति मनोराज्यं भवत्य् आशु स तन्मतिः
इदम् एवम् असत् सद्वद् विदन् व्योम्नि सुतात्मनि । पर्वतौघाकृति व्योमजगद् व्योम्नि विजृम्भते
नेह प्रजायते किञ्चिन् नेह किञ्चन नश्यति । जगद् गन्धर्वनगररूपेण ब्रह्मबृंहितम्
यथैव ब्रह्मजादीनां जीवानां सदसन्मयी । सत्ता तथैव सर्वेषाम् आसरीसृपम् आसुरम्
संविद्विभ्रम एवायम् एवम् अभ्युत्थितो ऽप्य् असत् । आब्रह्म कीटसंवित्तेस् सम्यक्संवेदनक्षयः
यथा सम्पद्यते ब्रह्मा कीटस् सम्पद्यते तथा । कीटस् तु रूढभूतौघवलनात् तुच्छकर्मतः
यद् एव जीवनं जीवे चेत्योन्मुखमयात्मकम् । तद् एव पौरुषं तस्मिन् सारं कर्म तद् एव च
ब्रह्मणस् सर्गताहन्ते कीटस्याप्य् असदुत्थिते । चित्तमात्रात्मके भ्रान्ते प्रेक्षामात्रभवत्क्षये
मातृमानप्रमेयार्थो न चिन्मात्रेतरो यदा । तदा द्वैतैक्यवादार्थश् शशशृङ्गाब्जिनीसमः
भावदार्ढ्यात्मकं मिथ्या ब्रह्मणो ऽण्डं विभाव्यते । आत्मैव कोशकारेण लालारूपात्मकं यथा
सत्तया ब्रह्मणा यद् यद् यथा दृष्टं विभाति तत् । तत् तथा दृश्यते तज्ज्ञैस् स्वभावस्यैष निश्चयः
यथा यद् उदितं वस्तु तन् न तत्तां विना भवेत् । निमेषम् अपि कल्पो वा स्वभावस्यैष निश्चयः