मथुराधिपते राज्ञो यथा श्वपचसम्भ्रमः । आसीद् एवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः
सर्वम् एव मनोमात्रभ्रान्त्युल्लासविजृम्भणम् । इदं जीवतया नाम प्रस्फुरत्य् अम्बुभङ्गवत्
शिवात् प्राक् कारणात् पूर्वं चिच् चेत्यकलनोन्मुखी । उदेति सौम्याज् जलधेः पयस्स्पन्दो मनाग् इव
स्फुरणाज् जीवचक्रत्वम् एत्य चित्तोर्मितां गतम् । चिद्वारि ब्रह्मजलधौ कुरुते सर्गबुद्बुदम्
स्वच्छसौम्यसमस्येषद् यत् सिंहस्येव जृम्भणम् । ब्रह्मणस् स चिदाभासस् तत् सचेत्यम् इव स्वयम्
चित् सचेत्योच्यते जीवस् स सङ्कल्पान् मनो भवेत् । बुद्धिश् चेत्यम् अहङ्कारो मायेत्याद्यभिधं ततः
तन्मात्रकल्पना पूर्वं तनोतीदं जगन् मनः । असत्यं सत्यसङ्काशं गन्धर्वनगरं यथा
यथा शून्यदृशस् तारामुक्तावल्यादिदर्शनम् । यथा स्वप्ने भ्रमश् चैव तथा चित्तस्य संसृतिः
शुद्ध आत्मा नित्यतृप्त इव शान्तस् समस्थितिः । अपश्यन् पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम्
संसृतिर् जाग्रद् इत्य् उक्तं स्वप्नं विदुर् अहङ्कृतिम् । चित्तं सुषुप्तभावस् स्याच् चिन्मात्रं तुर्यम् उच्यते
अत्यन्तशुद्धचिन्मात्रे परिणामश् चिराय यः । तुर्यातीतं पदं यत् स्यात् तत्स्थो भूयो न शोचति
तस्मिन् सर्वम् उदेतीदं तस्मिन्न् एव प्रलीयते । तत्रैव तनुते चेदं दृष्टौ मुक्तावली यथा
अरोधकत्वात् खं हेतुर् यथा वृक्षसमुन्नतेः । अकर्त्र्य् अपि तथा कर्त्री चेतनाच् चिज् जगत्स्थितेः
सन्निधानाद् यथा लोहः प्रतिबिम्बस्य हेतुताम् । यात्य् आदर्शस् तथैवायं चिन्मयो ऽप्य् अर्थवेदने
बीजम् अङ्कुरपत्त्रादियुक्त्या यद्वत् फलं भवेत् । चिन्मात्रं चेत्यजीवादियुक्त्या तद्वन् मनो भवेत्
स्वतो बीजं फलाद्य् उज्झद् यथा बीजं पुनर् भवेत् । तथा चिच् चेत्यचित्तादि त्यक्त्वा स्वास्थ्येन तिष्ठति
यद्य् अप्य् अबोधे बोधे च बीजान्तस् तरुबीजयोः । इव भेदो ऽस्ति न जगद्ब्रह्मणोर् अपि चित्तयोः
तथापि व्यज्यते बोधे सत्य् आत्मत्वम् अखण्डितम् । रूपश्रीर् इव दीपेन चिन्मात्रालोकम् एति यत्
यद् यन् निखन्यते भूमेर् यथा तत् तन् नभो भवेत् । या या विचार्यते ऽविद्या तथा सा सा परं भवेत्
स्फटिकान्तस् सन्निवेशस् स्वाणूनां वेदनाद् यथा । शुद्धो ऽपि भाति नानेव तथा ब्रह्मोदरं जगत्
ब्रह्म सर्वं जगद् वस्तु पिण्ड एकम् अखण्डितम् । फलपत्त्रलतागुल्मपीठं बीजम् इव स्थितम्
अहो चित्रं जगद् इदम् असत् सद् इव भासते । अहो बृहद् अहो स्वच्छम् अहो स्फुटम् अहो तनु
ब्रह्मणि प्रतिभासात्मा तन्मात्रगणगोलकः । अवश्यायकणाभो ऽसौ यथा स्फुरति तच् छ्रुतम्
यथासौ याति वैमुख्यं यथा भवति चात्मभूः । यथा स्वभावसिद्धिर् वा तथा कथय मे प्रभो
अत्यन्तासम्भवद् रूपम् अनन्यत् स्वस्वभावतः । अत्यन्ताननुभूतं सत् स्वनुभूतम् इवाग्रतः
हुल्लस् सभुल्लो घुल्लाङ्घ इति बालहृदि स्फुटम् । यथोदेति तथोदेति परे ब्रह्मणि जीवता
मानमेयात्मिकाशुद्धासत्यैव सत्यवत् स्थिता । भिन्नेव च न भिन्नास्माद् ब्रह्मणो बृंहणात्मिका
यथा ब्रह्म भवत्य् आशु जीवः कलनजीवितः । तथा जीवो भवत्य् आशु मनो मननवेदनम्
चित्तं तन्मात्रमननं पश्यत्य् आशु स्वरूपवत् । एष सङ्घो ऽनिललवप्रख्यस् स्फुरति खान्तरे
औच्छून्यम् एषो ऽनुभवत्य् अवश्यायकणोपमम् । संवेदनात्मकं कालकलितैकान्तम् आत्मनि