यत्राभिलाषस् तन् नूनं सन्त्यज्य स्थीयते यदि । प्राप्त एवाङ्ग तन् मोक्षः किम् एतावति दुष्करम्
अपि प्राणांस् तृणम् इव त्यजन्तीह महाशयाः । यत्राभिलाषस् तन्मात्रत्यागे कृपणता कथम्
यत्राभिलाषस् तत् त्यक्त्वा चेतसा निरवग्रहम् । प्राप्तं कर्मेन्द्रियैर् गृह्णंस् त्यजन्न् इष्टं च तिष्ठ भोः
यथा करतले बिल्वं यथा वा पर्वतः पुरः । प्रत्यक्षम् एवम् अस्यालम् अजत्वं परमात्मनः
आत्मैव भाति जगद् इत्य् उदितस् तरङ्गैः कल्पान्त एक इव वारिधिर् अप्रमेयः । ज्ञातस् स एव हि ददाति विमोक्षसिद्धिम् अज्ञात एव मनसा चिरबन्धनाय
मनस्त्वयोग्यो जीवो ऽयं को भवेत् परमात्मनः । कथं वास्मिन् समुत्पन्नः को वायं वद मे पुनः
समस्तशक्तिकचितं ब्रह्म सर्वेश्वरं सदा । ययैव शक्त्या स्फुरति प्राप्तां ताम् एव पश्यति
स्वयं यां वेत्ति सर्वात्मा चितिं चेतनरूपिणीम् । सा प्रोक्ता जीवशब्देन सैव सङ्कल्पकारिणी
स्वभावकारणं द्वित्वे पूर्वं सङ्कल्प्य चित् स्वयम् । नानाकारणतां पश्चाद् याति जन्ममृतिस्थितौ
एवं स्थिते मुनिश्रेष्ठ दैवं नाम किम् उच्यते । किम् उच्यते तथा कर्म कारणं च किम् उच्यते
स्पन्दास्पन्दस्वभावं हि चिन्मात्रम् इह विद्यते । खे वात इव तत्स्पन्दात् सोल्लासं शान्तम् अन्यथा
चितश् चित्त्वं भावितं सत् स्पन्द इत्य् उच्यते बुधैः । दृश्यत्वाभावितं चैतद् अस्पन्दनम् इति स्मृतम्
स्पन्दात् स्फुरन्ती चित् सर्गो निस्स्पन्दा ब्रह्म शाश्वतम् । जीवकारणकर्माद्याश् चित्स्पन्दस्याभिधास् स्मृताः
य एवानुभवात्मायं चित्स्पन्दो ऽस्ति स एव हि । जीवकारणकर्माख्यो बीजम् एतद् धि संसृतेः
कृतद्वित्वचिदाभासवशाद् देह उपस्थिते । सङ्कल्पविविधार्थत्वं चित्स्पन्दो ऽनुभवंश् चिरात्
नानाकारणतां यातश् चित्स्पन्दो मुच्यते चिरात् । कश्चिज् जन्मसहस्रेण कश्चिद् एकेन जन्मना
स्वभावकारणाद् द्वित्वं चित् समेत्याथ गच्छति । स्वर्गापवर्गनरकबन्धकारणतां शनैः
हेम्नीव कटकादित्वं काष्ठलोष्टसमस्थितौ । देहे तिष्ठति नानात्वं जडे भावविकारजम्
अजातम् अप्य् असद्रूपं पश्यतीमं भ्रमं मनः । जातस् स्थितो मृतो ऽस्मीति भ्रमान्तःपतनं यथा
अहं ममेत्य् असद्रूपम् एव चेतः प्रपश्यति । अदृष्टपरमार्थत्वाद् आशाविवशसंस्थिति
मथुराधिपते राज्ञो यथा श्वपचसम्भ्रमः । आसीद् एवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः
सर्वम् एव मनोमात्रभ्रान्त्युल्लासविजृम्भणम् । इदं जीवतया नाम प्रस्फुरत्य् अम्बुभङ्गवत्
शिवात् प्राक् कारणात् पूर्वं चिच् चेत्यकलनोन्मुखी । उदेति सौम्याज् जलधेः पयस्स्पन्दो मनाग् इव
स्फुरणाज् जीवचक्रत्वम् एत्य चित्तोर्मितां गतम् । चिद्वारि ब्रह्मजलधौ कुरुते सर्गबुद्बुदम्
स्वच्छसौम्यसमस्येषद् यत् सिंहस्येव जृम्भणम् । ब्रह्मणस् स चिदाभासस् तत् सचेत्यम् इव स्वयम्
चित् सचेत्योच्यते जीवस् स सङ्कल्पान् मनो भवेत् । बुद्धिश् चेत्यम् अहङ्कारो मायेत्याद्यभिधं ततः
तन्मात्रकल्पना पूर्वं तनोतीदं जगन् मनः । असत्यं सत्यसङ्काशं गन्धर्वनगरं यथा
यथा शून्यदृशस् तारामुक्तावल्यादिदर्शनम् । यथा स्वप्ने भ्रमश् चैव तथा चित्तस्य संसृतिः
शुद्ध आत्मा नित्यतृप्त इव शान्तस् समस्थितिः । अपश्यन् पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम्
संसृतिर् जाग्रद् इत्य् उक्तं स्वप्नं विदुर् अहङ्कृतिम् । चित्तं सुषुप्तभावस् स्याच् चिन्मात्रं तुर्यम् उच्यते