अपारवानविस्तारसंवित्सलिलवल्गनैः । चिदेकार्णव एवायं स्वयम् आत्मा विजृम्भते
असत्यम् अस्थैर्यवशात् सत्यं स्वप्रतिभासतः । यथा स्वप्नस् तथा चित्ते जगत् सदसदात्मकम्
न सन् नासन्न् अयं जातश् चेतसो जागतो भ्रमः । ओषधीसमवायानाम् इन्द्रजालम् इवोत्थितम्
दीर्घस् स्वप्नस् स्थितिं यातस् संसाराख्यो मनोवशात् । असम्यग्दर्शनात् स्थाणाव् इव पुम्प्रत्ययो मुधा
अनात्मालोकनाच् चित्तं चित्तत्वेनानुशोचति । वेतालकल्पनाद् बाल इव सङ्कल्पिते भये
अनाख्यस्य स्वरूपस्य सर्वांशातिगतात्मनः । चेत्योन्मुखतया चित्त्वं चित्त्वाज् जीवत्वकल्पनम्
जीवत्वाद् अप्य् अहम्भावस् त्व् अहम्भावाच् च चित्तता । चित्तत्वाद् इन्द्रियादित्वं ततो देहादिविभ्रमः
देहादिमोहतस् स्वर्गनरकौ मोक्षबन्धने । बीजाङ्कुरवद् आरम्भस् संरूढो देहकर्मणोः
द्वैतं यथा नास्ति चिदात्मतत्त्वयोस् तथैव भेदो ऽस्ति न जीवचित्तयोः । यथैव भेदो ऽस्ति न जीवचित्तयोस् तथैव भेदो ऽस्ति न देहकर्मणोः
कर्मैव देहो ननु देह एव चित्तं तद् एवाहम् इतीव जीवः । स जीव एवेश्वरचित् स आत्मा सर्वं शिवात् त्व् एकपदोत्थम् एतत्
एवम् एकं परं वस्तु रामानानात्वम् अप्य् अलम् । नानात्वम् इव संयातं दीपाद् दीपशतं यथा
यथाभूतम् असद्रूपम् आत्मानं यदि पश्यति । विचार्य चेतस् तद् अहम्भावहीनं न शोचति
चित्तमात्रं नरस् तस्मिन् शान्ते शान्तम् इदं जगत् । उपानद्रूढपादस्य ननु चर्मावृतैव भूः
पत्त्रमात्राद् ऋते नान्यत् कदल्या विद्यते यथा । भ्रममात्राद् ऋते नान्यज् जगतां विद्यते तथा
जायते बालताम् एति यौवनं वार्धकं तथा । मृतिं स्वर्गं च नरकं भ्रमाच् चेतो हि नृत्यति
विचित्रबुद्बुदोल्लासे स्वात्मनो ऽव्यतिरेकिणि । यथा सुरायास् सामर्थ्यं तथा चित्तस्य संसृतौ
यथा द्वित्वं शशाङ्कादौ पश्यत्य् अक्षि मलाबिलम् । चिच् चेतनकलाक्रान्ता तथैव परमात्मनि
यथा मदवशाद् भ्रान्तान् क्षीवः पश्यति पादपान् । तथा चेतनविक्षुब्धा संसारांश् चित् प्रपश्यति
यथा लीलाभ्रमाद् बालः कुम्भकृच्चक्रवज् जगत् । भ्रान्तं पश्यति चित्त्वात् तु चिद् वै दृश्यं तथैव हि
यदा चिच् चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः । यदा न चेतति द्वित्वं तदा द्वैतैक्ययोः क्षयः
यच् चेत्यते तद् इतरद् व्यतिरिक्तं चितो ऽस्ति नो । किञ्चिन् नास्तीति संशान्त्या चितश् शाम्यति चेतनम्
चिद्घनेनैकताम् एत्य यदा तिष्ठसि निश्चलः । शाम्यन् व्यवहरन् वापि तदा संशान्त उच्यसे
तन्वी चेतयते चेत्यं घना चिन् नाङ्ग चेतति । अल्पक्षीवः क्षोभम् एति घनक्षीवो हि शाम्यति
चिद्घनैक्यं प्रयातस्य रूढस्य परमे पदे । नैरात्म्यशून्यवादाद्यैः पर्यायैः कथनं भवेत्
चिच् चेतनेन चेत्यत्वम् इत्य् एवं पश्यति भ्रमम् । जाये जीवामि नश्यामि संसरामीत्य् असन्मयम्
स्वभावाद् व्यतिरिक्तं तु न चितश् चास्ति चेतनम् । स्पन्दाद् ऋते यथा वायाव् अतः किं केन चेत्यते
चेत्ये त्व् असम्भवत्य् एव किञ्चिद् यच् चेत्यते चिता । रज्जोस् सर्पभ्रमाभासं तद् अविद्याभ्रमं विदुः
संविन्मात्रचिकित्स्ये ऽस्मिन् व्याधौ संसारनामनि । चित्तमात्रपरिस्पन्दे संरम्भो ऽनघ किं तव
यदि सर्वं परित्यज्य तिष्ठस्य् उत्क्रान्तवासनम् । अमुनैव निमेषेण तन् मुक्तो ऽसि न संशयः
यथा रज्ज्वां भुजङ्गाशा विनाङ्गचलनं क्षणात् । संविन्मात्रविवर्तेन नश्यत्य् एवं हि संसृतिः