चित्स्वभावात् स्वम् आयातं ब्रह्मत्वं सर्वकारणम् । संसृतौ कारणं पश्चात् कर्म निर्माय संस्थितम्
चित्त्वं स्वभावात् स्फुरति चितः फेन इवाम्भसः । कर्मभिर् बध्यते पश्चाद् दिण्डीरम् इव रज्जुभिः
सङ्कल्पः कर्मणो बीजं तदात्मैव हि जीवकः । कर्म पश्चात् तनोत्य् उच्चैर् उत्थायाकर्मकक्रमम्
क्रोडीकृताङ्कुरां पूर्वं बीजं धत्ते स्वबीजताम् । पश्चान् नानात्वम् आयाति पत्त्राङ्कुरफलभ्रमैः
अन्ये ख एव ये जीवा एवम् एवाकृतिं गताः । पूर्वोत्पन्ने जगति ते यान्ति भूताश्रितास् स्थितिम्
स्वकर्मभिस् ततो जन्ममृतिकारणतां गतैः । प्रयान्त्य् ऊर्ध्वम् अधस्ताद् वा कर्म चित्स्पन्द उच्यते
चित्स्पन्दनं भवति कर्म तद् एव दैवं चित्तं तद् एव च तद् एव शुभाशुभादि । तस्माद् भवन्ति भुवनानि जगन्ति पूर्वं भूतानि चाशु कुसुमानि तरोर् इवाद्यात्
एतस्मात् कारणाद् एवं मनः प्रथमम् उत्थितम् । मननात्मकम् आभोगि तत्स्थम् एव स्थितिं गतम्
भावाभावर्द्धिमद्दोलस् तेनायम् अवलोक्यते । सर्गस् सदसदाभासः पूर् गन्धर्वेच्छया यथा
न कश्चिद् विद्यते भेदो द्वैतैक्यकलनात्मकः । ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम्
अपारवानविस्तारसंवित्सलिलवल्गनैः । चिदेकार्णव एवायं स्वयम् आत्मा विजृम्भते
असत्यम् अस्थैर्यवशात् सत्यं स्वप्रतिभासतः । यथा स्वप्नस् तथा चित्ते जगत् सदसदात्मकम्
न सन् नासन्न् अयं जातश् चेतसो जागतो भ्रमः । ओषधीसमवायानाम् इन्द्रजालम् इवोत्थितम्
दीर्घस् स्वप्नस् स्थितिं यातस् संसाराख्यो मनोवशात् । असम्यग्दर्शनात् स्थाणाव् इव पुम्प्रत्ययो मुधा
अनात्मालोकनाच् चित्तं चित्तत्वेनानुशोचति । वेतालकल्पनाद् बाल इव सङ्कल्पिते भये
अनाख्यस्य स्वरूपस्य सर्वांशातिगतात्मनः । चेत्योन्मुखतया चित्त्वं चित्त्वाज् जीवत्वकल्पनम्
जीवत्वाद् अप्य् अहम्भावस् त्व् अहम्भावाच् च चित्तता । चित्तत्वाद् इन्द्रियादित्वं ततो देहादिविभ्रमः
देहादिमोहतस् स्वर्गनरकौ मोक्षबन्धने । बीजाङ्कुरवद् आरम्भस् संरूढो देहकर्मणोः
द्वैतं यथा नास्ति चिदात्मतत्त्वयोस् तथैव भेदो ऽस्ति न जीवचित्तयोः । यथैव भेदो ऽस्ति न जीवचित्तयोस् तथैव भेदो ऽस्ति न देहकर्मणोः
कर्मैव देहो ननु देह एव चित्तं तद् एवाहम् इतीव जीवः । स जीव एवेश्वरचित् स आत्मा सर्वं शिवात् त्व् एकपदोत्थम् एतत्
एवम् एकं परं वस्तु रामानानात्वम् अप्य् अलम् । नानात्वम् इव संयातं दीपाद् दीपशतं यथा
यथाभूतम् असद्रूपम् आत्मानं यदि पश्यति । विचार्य चेतस् तद् अहम्भावहीनं न शोचति
चित्तमात्रं नरस् तस्मिन् शान्ते शान्तम् इदं जगत् । उपानद्रूढपादस्य ननु चर्मावृतैव भूः
पत्त्रमात्राद् ऋते नान्यत् कदल्या विद्यते यथा । भ्रममात्राद् ऋते नान्यज् जगतां विद्यते तथा
जायते बालताम् एति यौवनं वार्धकं तथा । मृतिं स्वर्गं च नरकं भ्रमाच् चेतो हि नृत्यति
विचित्रबुद्बुदोल्लासे स्वात्मनो ऽव्यतिरेकिणि । यथा सुरायास् सामर्थ्यं तथा चित्तस्य संसृतौ
यथा द्वित्वं शशाङ्कादौ पश्यत्य् अक्षि मलाबिलम् । चिच् चेतनकलाक्रान्ता तथैव परमात्मनि
यथा मदवशाद् भ्रान्तान् क्षीवः पश्यति पादपान् । तथा चेतनविक्षुब्धा संसारांश् चित् प्रपश्यति
यथा लीलाभ्रमाद् बालः कुम्भकृच्चक्रवज् जगत् । भ्रान्तं पश्यति चित्त्वात् तु चिद् वै दृश्यं तथैव हि
यदा चिच् चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः । यदा न चेतति द्वित्वं तदा द्वैतैक्ययोः क्षयः