नियत्या मूकताहेतुनिष्पौरुषतयाक्रियः । यस् तिष्ठति प्राणमरुत्स्पन्दस् तस्य क्व गच्छति
अथ प्राणक्रियारोधम् अपि कृत्वा विरामदम् । यदि तिष्ठति तत् साधुर् मुक्त एव किम् उच्यते
पौरुषैकात्मता श्रेयो मोक्षो ऽत्यन्तम् अकर्मता । आभ्यां तु शबलः पक्षो दुःखायैव महात्मनाम्
नियतिर् ब्रह्मतत्त्वाभा तस्यां चेत् परिणम्यते । नूनं परमशुद्धायां तत् प्राप्तैव परा गतिः
एतैर् नियत्यादिमहाविलासैर् ब्रह्मैव विस्फूर्जति सर्वगात्म । तृणादिवल्लीतरुगुल्मजालैस् सत्तेव तोयस्य धरान्तरस्था
सर्वशक्तेर् हि या यैव यथोदेति तथैव सा । तदा स्वशक्तिर् नानाभारूपिणी सा स्वभावतः
यो ऽयं सर्वगतो देवः परमात्मा महेश्वरः । स्वच्छस् स्वानुभवानन्दरूपो ऽन्तादिविवर्जितः
एतस्मात् परमानन्दाच् छुद्धचिन्मात्ररूपिणः । जीवस् सञ्जायते पूर्वं स चित्तं तत् ततो जगत्
स्वानुभूतिप्रमाणे ऽस्मिन् ब्रह्मन् ब्रह्मणि बृंहिते । कथं सत्ताम् अवाप्नोति जीवको द्वैतवर्जिते
असदाभासम् अध्यात्म ब्रह्मास्तीह प्रबृंहितम् । बृंहच्चिद्भैरववपुर् आनन्दाभिधम् अव्ययम्
तस्य यत् समम् आपूर्णं शुद्धं सत्त्वम् अचिह्नितम् । तद्विदाम् अप्य् अनिर्देश्यं तच् छान्तं परमं पदम्
तस्यैवोद्यन् महाशान्ति यत् सत्त्वं संविदात्मकम् । स्वभावात् स्पन्दनं तत् तज् जीवशब्देन कथ्यते
तत्रेमाः परमादर्शे चिद्व्योम्न्य् अनुभवात्मिकाः । असत्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः
ब्रह्मणस् स्फुरणं किञ्चिद् यद् अवाताम्बुधेर् इव । दीपस्य वाप्य् अवातस्य तज् जीवं विद्धि राघव
शान्तत्वापगमे ऽच्छस्य मनाक्संवेदनात्मकम् । स्वाभाविकं यत् स्फुरणं चिद्व्योम्नस् सो ऽङ्ग जीवकः
यथा वातस्य चलनं कृशाणोर् उष्णता यथा । शीतता वा तुषारस्य तथा जीवत्वम् आत्मनः
चिद्रूपस्यात्मतत्त्वस्य स्वभाववशतस् स्वयम् । मनाक्संवेदनं पूर्वं यत् तज् जीव इति स्मृतः
तद् एव घनसंवित्ति यात्य् अहन्ताम् अनुक्रमात् । वह्न्यणुस् स्वेन्धनाधिक्यात् स्वां प्रकाशकताम् इव
यथास्य तारकासर्गे व्योम्नस् स्फुरति नीलिमा । शून्यस्याप्य् अस्य जीवस्य तथाहम्भावभावना
जीवो ऽहङ्कृतिम् आदत्ते सङ्कल्पकलयेद्धया । स्वयैव वा घनतया नीलिमानम् इवाम्बरम्
अहम्भावो हि दिक्कालव्यवच्छेदाङ्किताकृतिः । खस्थस् सङ्कल्पवशतो वातस्पन्द इव स्फुरन्
सङ्कल्पोन्मुखतां यातस् त्व् अहङ्काराभिधस् स्थितः । चित्तं जीवो मनो माया प्रकृतिश् चेति नामभिः
तत्सङ्कल्पात्मकं चेतो भूतमात्रात्मकल्पनम् । कुर्वंस् तत्तां व्रजत्य् एव सङ्कल्पाद् याति पञ्चताम्
तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत् । अजातजगति व्योम्नि तारका पेलवा यथा
तेजःकणत्वम् आदत्ते चित्तं तन्मात्रकल्पनात् । शनैस् स्वस्मात् परिस्पन्दाद् बीजम् अङ्कुरताम् इव
असौ तेजःकणो ऽण्डाख्यात् कल्पनात् कश्चिद् अण्डताम् । प्रयात्य् अन्तस्स्फुरद्ब्रह्मा जलम् आपीडताम् इव
कश्चिद् द्रागिति देहादिकल्पनाद् याति देहताम् । भ्रान्त्युत्थां तदतद्रूपां गन्धर्वेच्छेव पूश्श्रियम्
कश्चित् स्थावरताम् एति कश्चिज् जङ्गमताम् अपि । कश्चिद् याति खवार्यादिरूपं सङ्कल्पतस् स्वजात्
सर्गादाव् आदिजो देहो जीवसङ्कल्पसम्भवः । क्रमेण पदम् आसाद्य वैरिञ्चं कुरुते जगत्
आत्मभूः कलनात्माभो यत् सङ्कल्पयति क्षणात् । तत् स्वभाववशाद् एव जातम् एव प्रपश्यति