महाक्रियेति गदिता महोद्भव इति श्रुता । महास्पन्द इति प्रौढा महात्मैकतयोदिता
तृणानीति जगन्तीति दैत्या इति सुरा इति । इति नागा इति नगा इत्य् आकल्पम् इति स्थितिः
कदाचिद् ब्रह्मसत्ताया व्यभिचारो ऽनुमीयते । चित्रम् आकाशकोशे वा नान्यथा नियतेस् स्थितिः
विरिञ्चाद्यात्मभिर् बुद्धैर् बोधायाविदितात्मनाम् । बृंहणात् सैव नियतिस् सर्गो ऽयम् इति कथ्यते
अचलं चलवद् दृष्टं ब्रह्मण्य् आर्यव्यवस्थितम् । अनादिमध्यपर्यन्तं शास्त्रो वृक्ष इवाम्बरम्
पाषाणोदरलेखौघन्यायेनात्मनि तिष्ठता । ब्रह्मणा नियतिस् सर्गो बुद्धो बोधयतेव खम्
देहे यथाङ्गिनाङ्गादि स्पृश्यते चित्स्वभावतः । ब्रह्मणा पद्मजत्वेन नियत्याद्यङ्गकं तथा
एषा दैवम् इति प्रोक्ता सर्वं सकलकालगम् । पदार्थम् अलम् आक्रम्य शुद्धा चिद् इति संस्थिता
स्पन्दितव्यं पदार्थेन भाव्यं वा भोक्तृतापदम् । अनेनेत्थम् अनेनेत्थम् अवश्यम् इति दैवधीः
एषैव पुरुषस्पन्दतृणगुल्मादि चाखिलम् । एषैव सर्वभूतादि जगत्कालक्रियादि च
अनया पौरुषी सत्ता सत्तास्याः पौरुषेण च । लक्ष्येते भवनं याते द्वे एकात्मतयेति हि
नरेण पौरुषेणैव कार्ये सत्तात्मिके उभे । ईदृश्य् एव हि नियतिर् एवं नियतिपौरुषम्
प्रष्टव्यो ऽहं त्वया राम दैवपौरुषनिर्णयम् । मदुक्तं पौरुषं पाल्यं त्वयेति नियतिस् स्थिता
भोजयिष्यति मां दैवम् इति दैवपरायणः । यत् तिष्ठत्य् अक्रियो मौनं नियतेर् एष निश्चयः
पौरुषेण समाहृत्य भोगान् भुङ्क्ते नरश् च यत् । राज्यादीन् मोक्षपर्यन्तान् नियतेर् एष निश्चयः
मुक्तिर् भवति संसारान् न कल्पनिचयैर् अपि । भ्रमतां यच् छरीरौघैर् नियतेर् एष निश्चयः
नास्या बुद्धिर् न कर्माणि न विकारादि नाकृतिः । केवलं त्व् इत्थम् आकल्पं स्थित्या भाव्यम् इति स्थितम्
अवश्यं भविता ह्य् एवम् इदम् इत्थम् इति स्थितिः । न शक्यते लङ्घयितुम् अपि रुद्रादिबुद्धिभिः
पौरुषम् न परित्याज्यम् एनाम् आश्रित्य धीमता । पौरुषेणैव रूपेण नियतिर् हि नियामिका
अपौरुषं हि नियतिः पौरुषं सैव सर्गगा । निष्फलापौरुषाकारा सफला पौरुषात्मिका
नियत्या मूकताहेतुनिष्पौरुषतयाक्रियः । यस् तिष्ठति प्राणमरुत्स्पन्दस् तस्य क्व गच्छति
अथ प्राणक्रियारोधम् अपि कृत्वा विरामदम् । यदि तिष्ठति तत् साधुर् मुक्त एव किम् उच्यते
पौरुषैकात्मता श्रेयो मोक्षो ऽत्यन्तम् अकर्मता । आभ्यां तु शबलः पक्षो दुःखायैव महात्मनाम्
नियतिर् ब्रह्मतत्त्वाभा तस्यां चेत् परिणम्यते । नूनं परमशुद्धायां तत् प्राप्तैव परा गतिः
एतैर् नियत्यादिमहाविलासैर् ब्रह्मैव विस्फूर्जति सर्वगात्म । तृणादिवल्लीतरुगुल्मजालैस् सत्तेव तोयस्य धरान्तरस्था
सर्वशक्तेर् हि या यैव यथोदेति तथैव सा । तदा स्वशक्तिर् नानाभारूपिणी सा स्वभावतः
यो ऽयं सर्वगतो देवः परमात्मा महेश्वरः । स्वच्छस् स्वानुभवानन्दरूपो ऽन्तादिविवर्जितः
एतस्मात् परमानन्दाच् छुद्धचिन्मात्ररूपिणः । जीवस् सञ्जायते पूर्वं स चित्तं तत् ततो जगत्
स्वानुभूतिप्रमाणे ऽस्मिन् ब्रह्मन् ब्रह्मणि बृंहिते । कथं सत्ताम् अवाप्नोति जीवको द्वैतवर्जिते
असदाभासम् अध्यात्म ब्रह्मास्तीह प्रबृंहितम् । बृंहच्चिद्भैरववपुर् आनन्दाभिधम् अव्ययम्