बुद्धं सद् अपसर्गं तत् ससर्गम् अपि तत् समम् । अबुद्धं सर्गरूपात्म विसर्गम् अपि तत् सदा
चिद्ब्रह्म यद् यथा येन विन्दते स्वत्वम् आत्मनि । तत् तत् तथानुभवति सर्वं तत् सर्वशक्तिमत्
तत् सत्यं विद्विलासत्वान् नित्यानुभवरूपतः । तद् असत्यं मनष्षष्ठं सर्वाख्यातिगतं यतः
यथा तत् सरणं वायौ तथा सर्गस् स्थितः परे । असत्कल्पे त्व् असत्कल्पस् सत्ये ऽसत्य इवापि च
अन्यरूपा यथानन्या तेजस्य् आलोकतोदरे । तथा ब्रह्मणि विश्वश्रीस् सत्यासत्यात्मिकात्मनि
अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि । वर्णा यथा मषीकल्के तथा सर्गास् स्थिताः परे
अनन्यान्येव कचति ब्रह्मतत्त्वमरुस्थले । असत्यानित्यसत्तेयं त्रिजगन्मृगतृष्णिका
ब्रह्मणा चिन्मयेनात्मासर्गात्मैव विभाव्यते । न भाव्यते चानन्यत्वाद् बीजेनान्तर् इव द्रुमः
यथा क्षीरस्य माधुर्यं तीक्ष्णत्वं मरिचस्य च । द्रवत्वं पयसश् चैव स्पन्दो ऽन्तः पवनस्य च
स्थितो ऽनन्यो ऽप्य् अथान्यस् सन् न स्थितश् च तथात्मनि । सर्गो ऽनर्गलचिद्रूपः परमात्मात्मरूपधृत्
कचनं ब्रह्मरत्नस्य जगद् इत्य् एव यत् स्थितम् । तद् अकारणकं तस्मात् तेन न व्यतिरिच्यते
वासनाचित्तजीवादिवेदनं वेदनोदितम् । नोदेत्य् अवेदनाद् एव यन् नानात्मैव पौरुषम्
नास्तम् एति न चोदेति क्वचित् किञ्चित् कदाचन । सर्वं शान्तम् अजं ब्रह्म चिद्घनं सुशिलाघणम्
पराणुं प्रति सर्गौघाश् चित्त्वाद् भान्ति सहस्रशः । तेष्व् अन्ये ऽणाव् अणाव् अन्तः कैवात्र गणना कथम्
यथा जलान्तर् ऊर्म्याद्या गुप्तागुप्तास् स्वशक्तयः । जाग्रत्स्वप्नसुषुप्ताद्यास् तथा जीवे ऽन्तर् आस्थिताः
जाता चेद् अरतिर् भोगान् प्रति मनाग् अपि । तदासौ तावतैवोच्चैः पदं प्राप्त इति श्रुतिः
यतो यतो वियुज्यते ततस् ततो विमुच्यते । अतो ऽहम् इत्य् असंविदः क एति जन्मसंविदम्
चितं परापराम् अजाम् अरूपिकाम् अनामिकाम् । चराचराधरामयीं विदन्ति ये जयन्ति ते
परे चिद् अस्त्य् अप्रकटाद्वितीया स्वावर्तलेखेव जलद्रवे ऽन्तः । सा हन्त येन त्रिजगन्ति धत्ते न सन्ति नासन्ति परात्मकानि
अहम्मयी पद्मजभावना चित् सङ्कल्पभेदात् प्रतनोति विश्वम् । अन्तर् मुधैवानुभवत्य् अनन्तं निमेषकोट्यंशविधौ युगान्तम्
परमाणुनिमेषाणां लक्षांशकलनास्व् अपि । जगत्कल्पसहस्राणि सत्यानीव विभान्त्य् अलम्
तेष्व् अप्य् अन्तस् तथैवान्तः परमाणुकणं प्रति । भ्रान्तिर् एवम् अनन्ताहो इयम् इत्य् अवभासते
वहन्तीमाः परा सत्ता शान्तास् सर्गपरम्पराः । सलिलद्रवतेवान्तर् अस्फुटावर्तवर्तिकाः
मिथ्यात्मिकैव सर्गश्रीर् वहतीह महामरौ । तीरद्रुमलतोन्मुक्तपुष्पाणीव तरङ्गिणी
स्वप्नेन्द्रजालपुरवत् सङ्कथेहापुराद्रिवत् । सङ्कल्पवद् असत्यैव भाति सर्गानुभूतिभूः
ऐकात्म्यैकतयैवं हि जाते सम्यग्विचारणात् । निर्विकल्पात्मनि ज्ञाने परिज्ञानवतां वर
किमर्थम् इह तिष्ठन्ति देहास् तत्त्वविदाम् अपि । दैवेनेव समाक्रान्ता दैवम् अत्र च किं भवेत्
अस्तीह नियतिर् ब्राह्मी चिच्छक्तिस्पर्शरूपिणी । अवश्यम्भवितव्यैकसत्ता सकलकल्पगा
आदिसर्गे हि नियतिर् भाववैचित्र्यम् अक्षयम् । अनेनेत्थं सदा भाव्यम् इति सम्पद्यते परम्
महासत्तेति कथिता महाचितिर् इति स्मृता । महाशक्तिर् इति ख्याता महादृष्टिर् इति स्थिता