यावन्तो जन्तवो यस्मिन् ये ये सर्गे यदा यदा । ते सर्वगत्वाच् चिद्धातोर् अन्योऽन्यादर्शतां गताः
तीव्रवेगवती या स्यात् तत्र संविद् अकल्पिता । सैवायाति परं स्थैर्यं सामोक्षत्वैकरूपिणी
बलवद्विद्विलासानाम् अनुवृत्त्या परस्परम् । स्वभावाः प्रतिबिम्बन्ति चिदादर्शस्वभावतः
तत्रातियत्ना जयति सान्यास् संविद आत्मसात् । कुर्वती सरिद् अम्भोधिगामिनीस् सरितो यथा
ये समास् त्व् अत्र ते तावद् यतन्ते चित्स्वभावतः । यावद् एको जयेत् तत्र द्वितीयस् सन्निमज्जति
जायमानेषु नश्यत्सु वर्तमानेषु भूरिशः । एवं सर्गसहस्रेषु परमाणुकणं प्रति
न किञ्चित् केनचिद् व्याप्तं न च किञ्चित् क्वचित् स्थितम् । चिदाकाशम् अजं शान्तम् एतत् सर्वम् अभित्तिमत्
अयम् आभासते स्वप्नो निर्निद्रो द्रष्टृवर्जितः । अवश्यम्भावबोधश् च सो ऽनुभूतो ऽप्य् असन्मयः
पुष्पपत्त्रफलांशात्मा यथैकस् स्वास्थितो द्रुमः । अनन्तसर्वशक्त्यात्मा चैक एव तथा विभुः
मातृमेयप्रमाणादिमयात्मकम् अजं पदम् । बुद्धं विस्मृतिम् आयाति न कदाचन कस्यचित्
शून्योदयास्तमयवस्तु तमःप्रकाशदिक्कालरूप्य् अपि सद् एकम् अनादिशुद्धम् । आद्यन्तमध्यरहितं स्थितम् अच्छम् अम्बुसोम्यत्ववीचिवलनाढ्यम् इवैकम् एव
अहं त्वम् इत्यादि जगत्स्वरूपा विशुद्धबोधैकविभा विभाति । आकाशकोशे निजशून्यतैव द्वैतैक्यसङ्कल्पविकल्पनाः क्व
अहं जगद् इति भ्रान्तिः परस्मात् कारणं विना । यथोदेति तथा ब्रह्मन् भूयः काथय साधु मे
समस्तास् समम् एवान्तस् संविदो विन्दते यतः । सर्वथा सर्वदा सर्वं सर्वात्मैकम् अजस् ततः
सर्वादिशब्दार्थकला ब्रह्मैवैताः पृथङ् न तु । सर्वार्थशब्दादिकलारूपम् आसां न विद्यते
कटकत्वं पृथग् घेम्नस् तरङ्गत्वं पृथग् जलात् । यथा न सम्भवत्य् एवं न जगत् पृथग् ईश्वरात्
ईश एव जगद्रूपं जगद्रूपं तु नेश्वरः । हेमैव कटकादित्वं कटकत्वं तु हेम नो
यथावयविनो रूपम् अनेकावयवात्मकम् । तथानवयवायास् तु चित्त्वं सर्वात्मकं चितः
यत् तुल्यकालम् अखिलं तन्मात्रावेदनं परे । अन्तस्स्थं तद् इदं भाति जगद् इत्य् अहम् इत्य् अपि
लेखौघानां यथा भेदी सन्निवेशश् शिलोदरे । तथानन्यज् जगद् अहं चेत्य् अन्तश् चिद्घने घनम्
स्थितास् तरङ्गास् सलिले यथान्तरतरङ्गिते । सृष्टिशब्दार्थरहितास् तथान्तस् सृष्टयः परे
नासर्गं तिष्ठति परं सर्गस् तिष्ठति नापरः । अवयवावयविवत् सत्तानवयवैतयोः
चिद्रूपेण खसंवित्त्या खतन्मात्रं विभाव्यते । स्वम् एव रूपं हृदयं वातेन स्पन्दनं यथा
तत्कालम् एष शब्दाणुश् चिच्चमत्काररूपधृत् । चेत्यते शमिनैवान्तस् सङ्कल्प इव चेतसा
तदैवानिलतां वेत्ति निजसत्तात्मिकां स्वयम् । अन्तर्गतस्पन्दरसां पवनस् स्पन्दताम् इव
तदैवाभासताम् एति निजसत्तात्मिकां स्वयम् । कोशस्थितालोकलवां तेजः प्रकटताम् इव
तदैवाप्तां चेतयते निजसत्तात्मिकाम् अजः । हृत्संस्थरसतन्मात्रां सलिलं द्रवताम् इव
तदैवावनितां वेत्ति स्वचित्तैकात्मिकाम् अजः । अन्तस्स्थगन्धतन्मात्राम् उर्वी स्थैर्यकलाम् इव
तुल्यकालनिमेषांशलक्षभागं प्रतीतयः । नित्यं चितः प्रकचनं तत् सर्गौघपरम्पराः
एवं सकृत् स्वभावान्तर् दृश्यमध्यम् अनामयम् । उदयास्तमयोन्मुक्तं ब्रह्म तिष्ठत्य् अनिष्ठितम्