तन्द्रातन्त्रीगणं कोशे दधाना परिवेष्टितम् । नानन्दे राजते ब्रह्मंस् तृष्णाजर्जरवल्लकी
नित्यम् एवातिमलिना कटुकोन्मादशालिनी । दीर्घा तन्वी घनस्नेहा तृष्णागह्वरवल्लरी
अनानन्दकरी शून्या निष्फलात्यर्थम् उन्नता । अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी
अनावर्जितचित्तापि सर्वम् एवानुधावति । न चाप्नोति फलं किञ्चित् तृष्णा जीर्णेव कामिनी
संसारनृत्ते महति नानारससमाकुले । भुवनाभोगरङ्गेषु तृष्णा जरढनर्तकी
जराकुसुमितारूढा पातोत्पातफलावलिः । संसारजङ्गले दीर्घे तृष्णाविषलता तता
यन् न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् । नृत्यत्य् आनन्दरहितं तृष्णा जीर्णेव नर्तकी
भृशं स्फुरति नीहारे शाम्यत्य् आलोक आगते । दुःखौघेषु पदं धत्ते तृष्णाचपलबर्हिणी
जडकल्लोलबहला चिरं शून्यतरान्तरा । क्षणम् उल्लासम् आयाति तृष्णाप्रावृट्तरङ्गिणी
नष्टम् उत्सृज्य तिष्ठन्तं वृक्षाद् वृक्षम् इवापरम् । पुरुषात् पुरुषं याति तृष्णा लोलेव पक्षिणी
पदं करोत्य् अलङ्घ्ये ऽपि तृप्तापि फलम् ईहते । चिरं तिष्ठति नैकत्र तृष्णाचपलमर्कटी
इदं कृत्वेदम् आयाति सर्वम् एवासमञ्जसम् । अनारतं च यतते तृष्णा चेष्टेव दैविकी
क्षणम् आयाति पातालं क्षणं याति नभस्तलम् । क्षणं भ्रमति दिक्कुञ्जे तृष्णाहृत्पद्मषट्पदी
सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा । अन्तःपुरस्थम् अपि या योजयत्य् अतिसङ्कटे
प्रयच्छति परं जाड्यं परमालोकरोधिनी । मोहनीहारगहना तृष्णाजलदमालिका
सर्वेषां जन्तुजालानां संसारव्यवहारिणाम् । परिप्रोतमनोमालास् तृष्णा बन्धनरज्जवः
विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः । शून्या शून्यास्पदा तृष्णा शक्रकार्मुकधर्मिणी
अशनिर् गुणसस्यानां फलिता शरद् आपदे । हिमं सम्पत्सरोजिन्यास् तमसां दीर्घयामिनी
संसारनाटकनटी कायालयविहङ्गमी । मानसारण्यहरिणी स्मरसङ्गीतवल्लकी
व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला । मार्गन्यग्रोधसुभगा दुःखकैरवचन्द्रिका
जरामरणदुःखानाम् एका रत्नसमुद्गिका । आधिव्याधिविलासानां नित्यमत्ता विलासिनी
क्षणम् आलोकविमला सान्धकारलवा क्षणम् । व्योमवीथीसमा तृष्णा नीहारगहना क्षणम्
गच्छतूपशमं तृष्णा कार्यव्यायामशान्तये । तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये
तावन् मुह्यत्य् अयं लोको मूको विलुलिताशयः । यावद् एवानुसन्धत्ते तृष्णाविषविषूचिकाम्
लोको ऽयम् अखिलं दुःखं चिन्तयोज्झित उज्झति । चिन्ताविषूचिकामन्त्रश् चिन्तात्यागो हि कथ्यते
तृणपाषाणकाष्ठादि सर्वम् आमिषशङ्कया । आदधाना स्फुरत्य् अन्तस् तृष्णा मत्स्यी ह्रदे यथा
रोगार्तिरङ्गगा तृष्णा गम्भीरम् अपि मानवम् । उत्तानतां नयत्य् आशु सूर्यांशव इवाम्बुजम्
अन्तश्शून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः । मुक्तामणिश्रियो नित्यं तृष्णा वेणुलता इव
अहो बत महच् चित्रं तृष्णाम् अपि महाधियः । दुश्छेद्याम् अपि कृन्तन्ति विवेकेनामलासिना
नासिधारा न वज्राग्निर् न तप्तायःकणार्चिषः । तथा तीक्ष्णा यथा ब्रह्मंस् तृष्णेयं हृदि संस्थिता