दुःखितस्य निशा कल्पस् सुखिनस् सैव च क्षणः । क्षणस् स्वप्ने भवेत् कल्पः कल्पश् च भवति क्षणः
तथा च मृत्वा जातो ऽहं तरुणो ऽहम् अवस्थितः । यातो ऽस्मि योजनशतं स्वप्न इत्य् अनुभूयते
रात्रिं द्वादशवर्षाणि हरिश्चन्द्रो ऽनुभूतवान् । लवणो भुक्तवान् आयुर् एकरात्र्यां समाश् शतम्
यो निमेषः प्रजेशस्य स मनोर् जीवितं मुनेः । जीवितं यद् विरिञ्चस्य तद् दिनं किल चक्रिणः
ध्याने प्रक्षीणचित्तस्य न दिनानि न रात्रयः । न पदार्था न च जगत् सत्यं नात्मापि योगिनः
मधुरं कटुताम् एति कटुभावेन चिन्तितम् । कट्व् अप्य् आयाति माधुर्यं मधुरत्वेन चेतितम्
मित्रबुद्ध्या द्विषन् मित्रं रिपुबुद्ध्या रिपुस् सुहृत् । भवतीति महाबाहो यथासंवेदनं जगत्
अनभ्यस्ताः पदार्था ये शास्त्रपाठजपादयः । एषां संवेदनाभ्यासान् नूनम् अभ्येति सात्मता
नौर् यायिनां भ्रमार्तानां वेदनात् तु विवर्तते । अवेदनाद् भ्रमार्तानाम् अपि नैषा विवर्तते
शून्यम् आकीर्णताम् एति वेदनात् स्वप्नदृक्ष्व् इव । वेदनात् पीतम् आनीलं शुक्लं वाप्य् अनुभूयते
आपद्वद् उत्सवः खेदं करोति परिमोहिनः । कुड्ये ऽपि ख इवाचारो दृष्टो धातुविकारिणः
असद्यक्षो विमूढानां प्राणान् अप्य् अपकर्षति । वेदनात् स्वप्नवनिता जाग्रतीव रतिप्रदा
यद् यथाभ्यासम् आयातं तत् तथा स्थिरतां गतम् । असद् एव नभस्य् एव नभ एव चिदात्मनि
शतहस्तखुरच्छायानटवृत्तम् इवाततम् । गगने मानसं स्पन्दं जगद् विद्धि न वस्तु तत्
मिथ्याज्ञानपिशाचस्य सन्दर्शनम् अनाकृति । कायामात्रकम् एवेदम् अरोधकम् अभित्तिमत्
इदं भास्वरम् आभासं स्वप्नसन्दर्शनं चितः । अपूर्वम् एव सुप्ताया नरस्येवोदितं विदुः
अखाताश् चेतति स्तम्भो यादृशं सालभञ्जिकाः । परमार्थमहास्तम्भस् सृष्टीश् चेतति तादृशम्
यादृशो मानवः पार्श्वे स्वप्ने क्षुब्धो महाभटैः । तादृशो ब्रह्मणस् सर्गो बुद्ध एव सुषुप्तवत्
तृणगुल्मलतायुक्तश् शिशिरान्ते यथा रसः । वासन्तस् संस्थितो भूमौ तथा सर्गः परे पदे
यथा द्रवत्वं कनके स्थितम् अन्तर् अनुन्मिषत् । तथा स्थितः परे सर्गः खात्मा वल्गन्न् अणाव् अणौ
सन्निवेशो यथाङ्गानाम् अङ्गिनो ऽनन्यद् आत्मनः । जगद् एवम् अनङ्गस्य खात्मनः खात्म ब्रह्मणः
यादृग् एकनरस्वप्नयुद्धम् अन्यनरं प्रति । तादृशं सदसद्रूपं खात्मेदं व्योमगं जगत्
महाकल्पान्तसर्गादौ चित्स्वभाव इदं वपुः । कारणत्वं मिथः पश्चाद् असद् वेत्ति न वास्तवम्
मुक्ते ऽस्मिन् ब्रह्मणि यदि ब्रह्मान्यस् स्मृतिजो भवेत् । तत्स्मृतिर् ज्ञप्तिजे सर्गे स्थितेव ज्ञप्तिमात्रतः
पौराणां मन्त्रिमुख्यानां विदूरथकुलक्रमः । समम् एव कथं तत्र सर्वेषां प्रतिभासितः
चितस् समनुवर्तन्ते मुख्यायास् सर्वसंविदः । यथा विपुलवात्यायास् सामान्या वातलेखिकाः
परस्परानुभावेन तथारूपेण संविदः । कचितास् ताः प्रजापालप्रजावास्तव्यमन्त्रिणाम्
एवंरूपात् कुलाज् जातो राजास्माकम् अयं त्व् असौ । कचिता इति वास्तव्यविदो वैदूरथे पुरे
कचने चित्स्वभावस्य न च कारणमार्गणम् । युक्तं महामणेर् भासाम् इवान्यत् स्वस्वभावतः
अहम् एव कुलाचारो राजास्या भुव इत्य् अपि । विदूरथविदो रत्नाद् उदिता प्रतिभाप्रभा