पद्मो भूमिपतिश् श्रुत्वा वृत्तान्तकथनं मनाक् । चक्रे स्नानं समानीतैश् चतुस्सागरवारिभिः
ततो ऽभिषिषिचुर् विप्रा मन्त्रिणो भूभुजश् शतम् । लब्धोदयम् अनन्तेहम् अमरेन्द्रम् इवामराः
लीला लीला च राजाथ जीवन्मुक्ता महाधियः । रेमिरे पूर्ववृत्तान्तकथनैस् सुरतैर् इव
सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत् । प्राप्तं लोकद्वयं श्रेयः पद्मेनेति महीभुजा
प्रज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः । चक्रे वर्षायुतान्य् अष्टौ तत्र राज्यम् अनिन्दितम्
जीवन्मुक्तो जितमना जितपञ्चेन्द्रियभ्रमः । असंसक्तमना मौनी यथाप्राप्तानुवृत्तिमान्
तस्य लावण्यजलधेर् बिन्दुर् इन्दुर् इवोद्धृतः । तस्य प्रतापकल्पाग्नेर् भानुः कण इवोत्थितः
जीवन्मुक्तास् त इत्य् एवं राज्यं वर्षायुताष्टकम् । कृत्वा विदेहमुक्तत्वम् आसेदुस् सिद्धसंविदः
एतत् ते कथितं राम दृश्यदोषनिवृत्तये । लीलोपाख्यानम् अनघ घनतां जगतस् त्यज
शान्तैव दृश्यसत्तास्याश् शमनं नोपयुज्यते । सतो हि मार्जनं क्लेशो नासतस् तु कदाचन
ज्ञानेनाकाशरूपेण दृश्यं ज्ञेयं खरूपकम् । इत्य् एकीभूतम् आलोक्य ज्ञस् तिष्ठत्य् अम्बरोपमः
पृथ्व्यादिरहितेनेदं चिद्भासैव स्वयम्भुवा । साधितं यद् असिद्धेन तन् न द्व्यात्म न साधितम्
संविद् यथा या यतते सा तथा बाह्यलेखिका । विसृता सृष्टिचिन्नद्यां यावद् यत्नान् न बोधिता
चिदाकाशावभासो ऽयं जगद् इत्य् एव बुध्यते । चिद्व्योम्नैवात्मनि स्वच्छे परमाणुकणं प्रति
एवम् अस्या मुधाभ्रान्तेः का सत्ता केव वासना । कास्था का नियतिः केहा कावश्यम्भावितोच्यताम्
सर्वं चैतद् यथादृष्टं स्थितम् इत्थम् अखण्डितम् । मायैवैवम् अनन्तेयं न च मायास्ति काचन
अहो नु परमा दृष्टिर् दर्शिता भगवंस् त्वया । दावार्चिर्दृश्यकक्ष्याणां दाहशान्तौ कलैन्दवी
अहो नु सुचिरेणैतज् ज्ञातं ज्ञातव्यम् अक्षतम् । मया यथेदं यच् चेदं यादृक् चेदं यतो यदा
शाम्यामीव द्विजश्रेष्ठ निर्वामीवाविकल्पनः । एतद् आश्चर्यम् आख्यानं व्याख्यानं शास्त्रदृष्टिषु
इदं मे भगवन् ब्रूहि संशयं सर्वकोविद । तव पातुं न तृप्तो ऽस्मि श्रोत्रपात्रैर् वचोऽमृतम्
स सर्गत्रितये कालो लीलाभर्तुर् हि योगतः । स क्वचित् किम् अहोरात्रः क्वचित् किं मासमात्रकः
क्वचित् किं बहुवर्षाणि कस्यचित् किं सुपेलवः । कस्यचित् किं महादीर्घः कस्यचित् किं क्षणस्थितः
इति मे भगवन् ब्रूहि त्वं यथावद् अनुग्रहात् । सकृच् छ्रुतं न विश्रान्तिम् एति लोष्टे यथा जलम्
येन येन यदा यद् यद् यथा संवेद्यते ऽनघ । तेन तेन तदा तत् तत् तथा समनुभूयते
अमृतत्वं विषं याति सदैवामृतवेदनात् । शत्रुर् मित्रत्वम् आयाति मित्रसंवित्तिवेदनात्
यथाभावितम् एतेषां पदार्थानां निजं वपुः । तद् एव हि चिराभ्यासान् नियतेर् वशम् आगतम्
कचनैकात्मिकैषा चिद् यथा कचति यादृशम् । तथा तत्राशु भवति तत् स्वभावैककारणात्
निमेषे यदि कल्पौघं प्रविदन् परिविन्दते । निमेष एव तत् कल्पीभवत्य् अत्र न संशयः
कल्पे यदि निमेषत्वं वेत्ति कल्पो ऽप्य् असौ ततः । निमेषीभवति क्षिप्रं तादृग्रूपात्मिका हि चित्
दुःखितस्य निशा कल्पस् सुखिनस् सैव च क्षणः । क्षणस् स्वप्ने भवेत् कल्पः कल्पश् च भवति क्षणः