आलिलिङ्ग घनं लीलां लीला च दयितं क्रमात् । पुनः पुनर् महानन्दो मृतप्रोज्जीवितो नृपः
तदासीद् राजसदनं मदमन्मथमन्थरं । आनन्दमत्तजनतं वाद्यगेयरवाकुलम्
जयमङ्गलपुण्याहघोषघुङ्घुमघर्घरम् । हृष्टपुष्टजनाकीर्णराजलोकवृताङ्गनम्
सिद्धविद्याधरोन्मुक्तपुष्पवर्षसशीत्कृतम् । ध्वनन्मृदङ्गमुरजकाहलाशङ्खदुन्दुभि
ऊर्ध्वीकृतबृहद्धस्तहास्तिकस्तनितोत्कटम् । उत्तालताण्डवस्त्रैणपूर्णाङ्गनलसद्ध्वनि
मिथस्सङ्घट्टनिपतन्नानोपायनदन्तुरम् । पुष्पशेखरसम्भारमयस्रग्दामसुन्दरम्
विकीर्णपाटितक्षौमं मन्त्रिसामन्तनागरैः । स्थलपद्ममयं व्योम रक्तैस् ताण्डविनीकरैः
मत्तस्त्रीकन्धरावृत्तलीलान्दोलितकुण्डलम् । प्रनृत्तपादसम्पातप्रोन्नमत्पुष्पकर्दमम्
पटवासशरन्मेघवितानकवितानितम् । वराङ्गनामुखैर् नृत्यच्चन्द्रलक्ष्यगृहाजिरम्
परलोकाद् उपानीतो राज्ञात्मा पतिर् एव च । इत्य् एवं वृत्तगाथाभिर् जगुर् देशान्तरे जनाः
पद्मो भूमिपतिश् श्रुत्वा वृत्तान्तकथनं मनाक् । चक्रे स्नानं समानीतैश् चतुस्सागरवारिभिः
ततो ऽभिषिषिचुर् विप्रा मन्त्रिणो भूभुजश् शतम् । लब्धोदयम् अनन्तेहम् अमरेन्द्रम् इवामराः
लीला लीला च राजाथ जीवन्मुक्ता महाधियः । रेमिरे पूर्ववृत्तान्तकथनैस् सुरतैर् इव
सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत् । प्राप्तं लोकद्वयं श्रेयः पद्मेनेति महीभुजा
प्रज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः । चक्रे वर्षायुतान्य् अष्टौ तत्र राज्यम् अनिन्दितम्
जीवन्मुक्तो जितमना जितपञ्चेन्द्रियभ्रमः । असंसक्तमना मौनी यथाप्राप्तानुवृत्तिमान्
तस्य लावण्यजलधेर् बिन्दुर् इन्दुर् इवोद्धृतः । तस्य प्रतापकल्पाग्नेर् भानुः कण इवोत्थितः
जीवन्मुक्तास् त इत्य् एवं राज्यं वर्षायुताष्टकम् । कृत्वा विदेहमुक्तत्वम् आसेदुस् सिद्धसंविदः
एतत् ते कथितं राम दृश्यदोषनिवृत्तये । लीलोपाख्यानम् अनघ घनतां जगतस् त्यज
शान्तैव दृश्यसत्तास्याश् शमनं नोपयुज्यते । सतो हि मार्जनं क्लेशो नासतस् तु कदाचन
ज्ञानेनाकाशरूपेण दृश्यं ज्ञेयं खरूपकम् । इत्य् एकीभूतम् आलोक्य ज्ञस् तिष्ठत्य् अम्बरोपमः
पृथ्व्यादिरहितेनेदं चिद्भासैव स्वयम्भुवा । साधितं यद् असिद्धेन तन् न द्व्यात्म न साधितम्
संविद् यथा या यतते सा तथा बाह्यलेखिका । विसृता सृष्टिचिन्नद्यां यावद् यत्नान् न बोधिता
चिदाकाशावभासो ऽयं जगद् इत्य् एव बुध्यते । चिद्व्योम्नैवात्मनि स्वच्छे परमाणुकणं प्रति
एवम् अस्या मुधाभ्रान्तेः का सत्ता केव वासना । कास्था का नियतिः केहा कावश्यम्भावितोच्यताम्
सर्वं चैतद् यथादृष्टं स्थितम् इत्थम् अखण्डितम् । मायैवैवम् अनन्तेयं न च मायास्ति काचन
अहो नु परमा दृष्टिर् दर्शिता भगवंस् त्वया । दावार्चिर्दृश्यकक्ष्याणां दाहशान्तौ कलैन्दवी
अहो नु सुचिरेणैतज् ज्ञातं ज्ञातव्यम् अक्षतम् । मया यथेदं यच् चेदं यादृक् चेदं यतो यदा
शाम्यामीव द्विजश्रेष्ठ निर्वामीवाविकल्पनः । एतद् आश्चर्यम् आख्यानं व्याख्यानं शास्त्रदृष्टिषु
इदं मे भगवन् ब्रूहि संशयं सर्वकोविद । तव पातुं न तृप्तो ऽस्मि श्रोत्रपात्रैर् वचोऽमृतम्