सुते वद कथं प्राप्ता त्वम् इमं देशम् आदितः । किं वृत्तं ते त्वया दृष्टं किम् इवाध्वनि कुत्र वा
देवि तस्मिन् प्रदेशे सा जातमूर्छा तदाभवम् । द्वितीयेन्दुकलेवाहं कल्पान्तज्वालयावृता
न चेतितं मया किञ्चित् समं विषमम् एव वा । ततस् तरलपक्ष्मान्ते विनिमील्य विलोचने
ततो मरणमूर्छान्ते पश्यामि परमेश्वरि । यावद् अभ्युत्थितास्म्य् आशु प्लुता च गगनोदरम्
भूताकाशे ऽनिलरथं समारूढास्म्य् अहं तथा । आनीता गन्धलेखेव तेनाहम् इमम् आलयम्
इह पश्यामि सदनं नायकेनाभ्यलङ्कृतम् । दीप्तदीपं विविक्तं च महार्हशयनान्वितम्
पतिम् आलोकयामीमं यावद् एष विदूरथः । शेते कुसुमगुप्ताङ्गो मधुः पुष्पवने यथा
अथ सङ्ग्रामसंरम्भश्रमार्तो ऽयं स्वपित्य् अलम् । इति निद्रा मयास्यैवं देवेश्वरि न वारिता
अनन्तरम् इमं देशं प्राप्ते देव्याव् इमे त्व् इति । यथानुभूतं कथितं मदनुग्रहकारिणि
हे हंसहारिगामिन्यौ लीले ललितलोचने । उत्थापयामो नृपतिं शवतल्पतलाद् इमम्
सेत्य् उक्त्वा मुमुचे जीवम् आमोदम् इव पद्मिनी । स समीरलवाकारस् तन्नासानिकटं ययौ
घ्राणकोशं विवेशाशु वंशरन्ध्रम् इवानिलः । स्ववासनाशतान्य् अन्तर् दधद् अब्धिर् मणीन् इव
अन्तस्स्थजीवं वदनं तस्य तत्कान्तिम् आययौ । पद्मस्यावग्रहे पद्मं प्रविष्टम् इव वारिणि
क्रमाद् अङ्गानि सर्वाणि सरसानि चकाशिरे । तस्य पुष्पाकर इव लताजालानि बूभृतः
अथाबभौ कलापूर्णस् स राकायाम् इवोडुराट् । भासयन् भवनं भूरि वदनेन्दुमरीचिभिः
स्फारयाम् आस सो ऽङ्गानि रसवन्ति मृदूनि च । कनकोज्ज्वलकान्तीनि पल्लवानीव माधवः
उन्मीलयम् आस दृशौ विमलालोककारणे । हारिण्यौ सुभगाभोगे चन्द्रार्कौ भुवनं यथा
उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिर् इव वृद्धिमान् । उवाच कस् स्थित इह प्रभाकपिशितालयः
लीलाद्वयम् अथास्याग्रे प्रोवाचादिश्यताम् इति । स ददर्श पुरो नम्रं लीलाद्वयम् अवस्थितम्
समाधारं समाकारं समरूपं समस्थिति । समवाक्यं समोद्योगं समानन्दं समोदयम्
का त्वं केयं कुतश् चेयम् इत्य् आह स विलोकयन् । तस्मै लीलाह हे देव श्रूयतां यद् वदाम्य् अहम्
महिला तव लीलाहं प्राक्तनी सह वर्धिता । वाग् अर्थस्येव संसक्ता स्थिता संश्लेषशालिनी
इयं लीला द्वितीया ते महिला हेलया मया । उपार्जिता त्वदर्थेन कथयिष्ये ऽहम् ईदृशम्
शिरोभागोपविष्टेयं येह हेममहासना । एषा सरस्वती देवी त्रैलोक्यजननी शिवा
अस्माकं पुण्यसंभारैर् इह साक्षाद् उपागता । अनयासि पराल् लोकाद् इहानीतो महीपतिः
इत्य् आकर्ण्य समुत्थाय राजा राजीवलोचनः । लम्बमाल्याम्बरधरः पपात ज्ञप्तिपादयोः
सरस्वति नमस् तुभ्यं सर्वलोकहितप्रदे । प्रयच्छ वरदे मेधां दीर्घम् आयुर् धनानि च
इत्य् उक्तवन्तं हस्तेन पस्पर्श ज्ञप्तिदेवता । त्वं पुत्राभिमतार्थाढ्यो भवेति वचनान्वितः
सर्वापदस् सकलदुष्कृतदृष्टयश् च गच्छन्तु वश् शमम् अनन्तसुखानि सम्यक् । आयान्तु नित्यमुदिता जनता भवन्तु राष्ट्रे स्थिराश् च विलसन्तु सदैव लक्ष्म्यः
सरस्वती तदेत्युक्त्वा तत्रैवान्तर्धिम् आययौ । प्रभाते पङ्कजैस् सार्धं बुबुधे सकलो जनः