निर्जीवं पतितं भूमौ संशुष्कम् इव पल्लवम् । काष्ठकुड्योपसंजातं शवं तुहिनशीतलम्
ततो मन्त्रिभिर् आगत्य मृतैवेयम् इति स्वयम् । क्लेदलोकाद् विनिर्णीय भीत्या निष्कालितं गृहात्
बहुनात्र किम् उक्तेन नीत्वा चन्दनदारुभिः । चितौ प्रक्षिप्य सघृतं सहसा भस्मसात्कृतम्
ततो राज्ञी मृते ऽत्युच्चैः कृत्वा रोदनम् आकुलः । परिवारस् तवाशेषः कृतवान् और्ध्वदेहिकम्
इदानीं त्वाम् इहालोक्य सशरीराम् इहागताम् । परलोकाद् आगतेति महच् चित्रं भविष्यति
त्वं तु तेनैव देहेन सत्यसङ्कल्पतस् सुते । दृश्यसे स्ववदातेन तेन चित्तं तवोपरि
यद्वासना त्वम् अभवो देहं प्रति तद् एव ते । रूपम् अभ्युदितं बाले तेन प्राक्सदृशं तव
स्ववासनानुसारेण सर्वस् सर्वं हि पश्यति । दृष्टान्तो ऽत्राविसंवादी बालवेतालदर्शनम्
आतिवाहकदेहासि सम्पन्ना सिद्धसुन्दरी । विस्मृतस् तव देहो ऽसौ प्राक्तनो नयतस् स्वयम्
दृढातिवाहिकदृशः प्रशाम्यत्य् आधिभौतिकः । बुद्धस्य दृश्यमानो ऽपि शरन्मेघ इवाम्बरे
रूढातिवाहिकीभावश् शवो भवति देहकः । निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः
अद्यारभ्य प्ररूढायाम् आतिवाहिकसंविदि । देहो विस्मृतिम् आयाति गर्भसंस्थेव यौवने
एकत्रिंशे ऽद्य दिवसे प्राप्ता वयम् इहाम्बरम् । प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना
तद् एहि यावल् लीलायै लीले सङ्कल्पलीलया । आत्मानं दर्शयावो ऽस्यै व्यवहारः प्रवर्तताम्
आवां तावद् इमे लीला पश्यत्व् इत्य् एव चिन्तिते । ज्ञप्त्या देव्यौ ततस् तत्र दृश्ये दीप्ते बभूवतुः
सा विदूरथलीलाथ समाकुलविलोचना । गृहम् आलोकयाम् आस तत् तेजःपुञ्जभासुरम्
चन्द्रबिम्बाद् इवोत्कीर्णं धौतं हेमद्रवैर् इव । ज्वालाया इव शीतायास् सुमध्यम् इव भित्तिमत्
गृहम् आलोक्य पुरतो लीलाज्ञप्ती विलोक्यते । उत्थाय सम्भ्रमवती तयोः पादेषु सापतत्
मज्जयायागते देव्यौ जयतं जीवितप्रदे । इह पूर्वम् अहं प्राप्ता भवत्योर् मार्गशोधिनी
इत्य् उक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः । उपाविशन् विष्टरेषु लता मेरुशिरस्स्व् इव
सुते वद कथं प्राप्ता त्वम् इमं देशम् आदितः । किं वृत्तं ते त्वया दृष्टं किम् इवाध्वनि कुत्र वा
देवि तस्मिन् प्रदेशे सा जातमूर्छा तदाभवम् । द्वितीयेन्दुकलेवाहं कल्पान्तज्वालयावृता
न चेतितं मया किञ्चित् समं विषमम् एव वा । ततस् तरलपक्ष्मान्ते विनिमील्य विलोचने
ततो मरणमूर्छान्ते पश्यामि परमेश्वरि । यावद् अभ्युत्थितास्म्य् आशु प्लुता च गगनोदरम्
भूताकाशे ऽनिलरथं समारूढास्म्य् अहं तथा । आनीता गन्धलेखेव तेनाहम् इमम् आलयम्
इह पश्यामि सदनं नायकेनाभ्यलङ्कृतम् । दीप्तदीपं विविक्तं च महार्हशयनान्वितम्
पतिम् आलोकयामीमं यावद् एष विदूरथः । शेते कुसुमगुप्ताङ्गो मधुः पुष्पवने यथा
अथ सङ्ग्रामसंरम्भश्रमार्तो ऽयं स्वपित्य् अलम् । इति निद्रा मयास्यैवं देवेश्वरि न वारिता
अनन्तरम् इमं देशं प्राप्ते देव्याव् इमे त्व् इति । यथानुभूतं कथितं मदनुग्रहकारिणि
हे हंसहारिगामिन्यौ लीले ललितलोचने । उत्थापयामो नृपतिं शवतल्पतलाद् इमम्