यथा स्वप्नस् तथा जाग्रद् इदं नात्रास्ति संशयः । स्वप्ने पुरम् असद् भाति सर्गादौ भाति असज् जगत्
न चार्थो भवितुं शक्तस् सत्यत्वे स्वप्नचोदितः । संविदो नित्यसत्यत्वं स्वप्नार्थानाम् असत्यता
झगित्य् एव यथाकाशं भवति स्वप्नपर्वतः । क्रमेण वा तथा बोधे खं भवत्य् आधिभौतिकः
उड्डीनो ऽयं मृतो वेति पश्यन्ति निकटे स्थिताः । ज्ञानातिवाहिकीभूतस्वस्वभावहता यतः
मिथ्यादृष्टय एवेमास् सृष्टयो मोहदृष्टयः । मायामात्रदृशो भान्ति शून्यास् स्वप्नानुभूतयः
स्वप्नानुभूतय इमा मरणान्तर्बोधभातेतरभ्रमदृशस् स्फुटसर्गभासः । भान्त्य् आतिवाहिकशरीरगतास् समस्ता मिथ्योदिता मृगनदीमरणक्रमेण
एतस्मिन्न् अन्तरे ज्ञप्तिर् जीवं वैदूरथं पुरः । सङ्कल्पेन रुरोधाशु मनसस् स्पन्दनं यथा
वद देवि कियत् कालो गतो ऽयम् इह मन्दिरे । समाधौ मयि लीनायां महीपालशवे स्थिते
इह मासस् त्व् अतिक्रान्त इह दास्याव् इमे उभे । रक्षार्थं वासकगृहे स्वपतो वहिते स्थिते
शृणु देहस्य किं वृत्तं तवेह वरवर्णिनि । शरीरं किल पक्षेण चोत्क्लिन्नस्नायुतां गतम्
निर्जीवं पतितं भूमौ संशुष्कम् इव पल्लवम् । काष्ठकुड्योपसंजातं शवं तुहिनशीतलम्
ततो मन्त्रिभिर् आगत्य मृतैवेयम् इति स्वयम् । क्लेदलोकाद् विनिर्णीय भीत्या निष्कालितं गृहात्
बहुनात्र किम् उक्तेन नीत्वा चन्दनदारुभिः । चितौ प्रक्षिप्य सघृतं सहसा भस्मसात्कृतम्
ततो राज्ञी मृते ऽत्युच्चैः कृत्वा रोदनम् आकुलः । परिवारस् तवाशेषः कृतवान् और्ध्वदेहिकम्
इदानीं त्वाम् इहालोक्य सशरीराम् इहागताम् । परलोकाद् आगतेति महच् चित्रं भविष्यति
त्वं तु तेनैव देहेन सत्यसङ्कल्पतस् सुते । दृश्यसे स्ववदातेन तेन चित्तं तवोपरि
यद्वासना त्वम् अभवो देहं प्रति तद् एव ते । रूपम् अभ्युदितं बाले तेन प्राक्सदृशं तव
स्ववासनानुसारेण सर्वस् सर्वं हि पश्यति । दृष्टान्तो ऽत्राविसंवादी बालवेतालदर्शनम्
आतिवाहकदेहासि सम्पन्ना सिद्धसुन्दरी । विस्मृतस् तव देहो ऽसौ प्राक्तनो नयतस् स्वयम्
दृढातिवाहिकदृशः प्रशाम्यत्य् आधिभौतिकः । बुद्धस्य दृश्यमानो ऽपि शरन्मेघ इवाम्बरे
रूढातिवाहिकीभावश् शवो भवति देहकः । निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः
अद्यारभ्य प्ररूढायाम् आतिवाहिकसंविदि । देहो विस्मृतिम् आयाति गर्भसंस्थेव यौवने
एकत्रिंशे ऽद्य दिवसे प्राप्ता वयम् इहाम्बरम् । प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना
तद् एहि यावल् लीलायै लीले सङ्कल्पलीलया । आत्मानं दर्शयावो ऽस्यै व्यवहारः प्रवर्तताम्
आवां तावद् इमे लीला पश्यत्व् इत्य् एव चिन्तिते । ज्ञप्त्या देव्यौ ततस् तत्र दृश्ये दीप्ते बभूवतुः
सा विदूरथलीलाथ समाकुलविलोचना । गृहम् आलोकयाम् आस तत् तेजःपुञ्जभासुरम्
चन्द्रबिम्बाद् इवोत्कीर्णं धौतं हेमद्रवैर् इव । ज्वालाया इव शीतायास् सुमध्यम् इव भित्तिमत्
गृहम् आलोक्य पुरतो लीलाज्ञप्ती विलोक्यते । उत्थाय सम्भ्रमवती तयोः पादेषु सापतत्
मज्जयायागते देव्यौ जयतं जीवितप्रदे । इह पूर्वम् अहं प्राप्ता भवत्योर् मार्गशोधिनी
इत्य् उक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः । उपाविशन् विष्टरेषु लता मेरुशिरस्स्व् इव