आतिवाहिकतां याति आधिभौतिक एव किम् । उतान्य इति मे ब्रूहि येनोह्य इव न प्रभो
बहुशो ऽप्य् उक्तम् एतन् मे न गृह्णासि किम् उत्तरम् । आतिवाहिक एवास्ति नास्त्य् एवेहाधिभौतिकः
तस्यैवाभ्यासतो ऽभ्येति साधिभौतिकतामतिः । यदा शाम्यति सैवास्य तदा पूर्वा प्रवर्तते
तदा गुरुत्वं काठिन्यं भित्तिमत्त्वं मुधाग्रहः । शाम्येत् स्वप्ने नरस्येव बोद्धुर् बोधान् निरामयात्
लघुतूलसमापत्तिस् ततस् समुपजायते । स्वप्ने स्वप्नपरिज्ञानाद् यथा देहो लघूभवेत्
तथा बोधाद् अयं देहस् स्थूलवत् प्लुतिमान् भवेत् । अनेकदिनसङ्कल्पदेहे परिणतात्मनाम्
अस्मिन् देहे शवे दग्धे तत्रैव स्थितिम् ईयुषाम् । लघुदेहानुभवनम् अवश्यंभावि वै तथा
प्रबोधातिशयाद् एति जीवताम् अपि योगिनाम् । उदितायां स्मृतौ तत्र सङ्कल्पात्माहम् इत्य् अलम्
यादृशस् स भवेद् देहस् तादृशो ऽयं प्रबोधिनः । भ्रान्तिर् एवम् इयं भाति रज्ज्वाम् इव भुजङ्गता । किं नष्टम् अस्यां नष्टायां जातायां किं प्रजायते
अनन्तरं ते वास्तव्या लीले पश्यन्ति ते यदि । तत् सत्यसङ्कल्पतया बुध्यन्ते किं ततः प्रभो
एवं ज्ञास्यन्ति ते राज्ञी दुःखितेयम् इह स्थिता । वयस्या काचिद् अन्येयं कुतो ऽप्य् अस्या उपागता
सन्देहः क इवात्रैषां पशवो ह्य् अविवेकिनः । यथादृष्टं विचेष्टन्ते कुत एषां विचारणा
यथा लोष्टो लुठन् वृक्षं वञ्चयित्वाशु गच्छति । अज्ञात्वैवाज्ञजनता तथाद्र्यग्निसुरादिकम्
यथा स्वप्नवपुर् बोधेन जाने क्वेव गच्छति । असत्यम् एव तद् यस्मात् तथैवेहाधिभौतिकम्
भगवन् स्वप्नशिखरी प्रबोधे क्वेव गच्छति । इति मे संशयं छिन्धि शरदभ्रम् इवानिलः
स्वप्ने भ्रमे ऽथ सङ्कल्पे पदार्थाः पर्वतादयः । संविदो ऽन्तर् मिलन्त्य् एते स्पन्दनान्य् अनिलं यथा
अस्पन्दस्य यथा वायोस् स्वस्पन्दो ऽन्तर् विशत्य् अलम् । अस्फुरन्ती तु तेनैव यात्य् एकत्वं तदात्मिका
संवित्स्वप्नार्थयोर् द्वित्वं न कदाचन लभ्यते । यथा द्रवत्वपयसोर् यथा वा स्पन्दवातयोः
यस् त्व् अत्र स्याद् द्विताबोधस् तद् अज्ञानम् अनुत्तमम् । सैषा संसृतिर् इत्य् उक्ता मिथ्याज्ञानात्मिकोदिता
सहकारिकारणानाम् अभावे किल कीदृशी । संवित् स्वप्नपदार्थानां द्वित्वं स्वप्ने निरर्थकम्
यथा स्वप्नस् तथा जाग्रद् इदं नात्रास्ति संशयः । स्वप्ने पुरम् असद् भाति सर्गादौ भाति असज् जगत्
न चार्थो भवितुं शक्तस् सत्यत्वे स्वप्नचोदितः । संविदो नित्यसत्यत्वं स्वप्नार्थानाम् असत्यता
झगित्य् एव यथाकाशं भवति स्वप्नपर्वतः । क्रमेण वा तथा बोधे खं भवत्य् आधिभौतिकः
उड्डीनो ऽयं मृतो वेति पश्यन्ति निकटे स्थिताः । ज्ञानातिवाहिकीभूतस्वस्वभावहता यतः
मिथ्यादृष्टय एवेमास् सृष्टयो मोहदृष्टयः । मायामात्रदृशो भान्ति शून्यास् स्वप्नानुभूतयः
स्वप्नानुभूतय इमा मरणान्तर्बोधभातेतरभ्रमदृशस् स्फुटसर्गभासः । भान्त्य् आतिवाहिकशरीरगतास् समस्ता मिथ्योदिता मृगनदीमरणक्रमेण
एतस्मिन्न् अन्तरे ज्ञप्तिर् जीवं वैदूरथं पुरः । सङ्कल्पेन रुरोधाशु मनसस् स्पन्दनं यथा
वद देवि कियत् कालो गतो ऽयम् इह मन्दिरे । समाधौ मयि लीनायां महीपालशवे स्थिते
इह मासस् त्व् अतिक्रान्त इह दास्याव् इमे उभे । रक्षार्थं वासकगृहे स्वपतो वहिते स्थिते
शृणु देहस्य किं वृत्तं तवेह वरवर्णिनि । शरीरं किल पक्षेण चोत्क्लिन्नस्नायुतां गतम्