प्रभाताचारसारम्भराजधान्यां समं स्थितम् । मन्दारकुन्दस्रग्दामवृन्दाम्बरवलच्छवम्
शवशय्याशिरस्स्थाग्र्यपूर्णकुम्भादिमङ्गलम् । अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम्
प्रशाम्यद्दीपिकालोकश्यामलामलभित्तिकम् । गृहैकदेशसंसुप्तमुखश्वासससीत्कृतम्
सम्पूर्णचन्द्रशकलोदरकान्तिकान्तसौन्दर्यनिर्जितपुरन्दरमन्दिरर्द्धि । वैरिञ्चपद्ममुकुलान्तरचारुशोभा निश्शब्दम् अब्दम् इव निर्मलम् इन्दुकान्तम्
ततो ददृशतुस् तत्र शवशय्यैकपार्श्वगाम् । लीलां विदूरथस्याग्रे मृतां तां प्रथमागताम्
प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राक्स्ववासनाम् । प्राक्तनाकारसदृशसर्वरूपाङ्गसुन्दरीम्
प्राक्स्मृत्यवयवस्पन्दां प्रागम्बरपरावृताम् । प्राग्भूषणभरच्छन्नां केवलं तत्र संस्थिताम्
गृहीतचामरां चारु वीजयन्तीं महीपतिम् । मौनस्थां वामहस्तस्थवदनेन्दुतयानताम्
भूषणांशुलतापुष्पैः फुल्लाम् इव वनस्थलीम् । कुर्वाणां वीक्षणैर् दिक्षु मालत्युत्पलवर्षणम्
सृजन्तीम् आत्मलावण्याद् बिन्दून् इन्दून् इवोदितान् । नराधिपात्मनो विष्णोर् लक्ष्मीम् इव समागताम्
उदितां पुष्पसम्भाराद् इव पुष्पाकरश्रियम् । भर्तुर् वदनविन्यस्तदृष्टिम् इव विचेष्टिताम्
किञ्चित्प्रम्लानवदनां म्लानचन्द्रां निशाम् इव । ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते । यस्मात् ते सत्यसङ्कल्पे सा न तावत् तथोदिता
तस्मिन् प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् । ध्यानेन ज्ञप्तिसहिता गताभूद् इति वर्णितम्
किम् इदानीं च लीला या देहस् तत्र न वर्णितः । किं सम्पन्नः क्व वायात इति मे कथय प्रभो
क्वासील् लीलाशरीरं तत् कुतस् तस्य हि सत्यता । सा किल भ्रान्तिर् एवाभूज् जलबुद्धिर् मराव् इव
यथैव बोधे लीलासौ परिणामम् इता क्रमात् । परे तथैव तस्यास् तद् धिमवद्गलितं वपुः
आतिवाहिकदेहस्य कालेनाभ्युदितो भ्रमः । आधिभौतिकदेहो ऽहम् इति रज्जुभुजङ्गवत्
आतिवाहिकदेहेन दृश्यं यद् अवकल्पितम् । भूम्यादि नाम तस्यैव कृतं तत् त्व् आधिभौतिकम्
वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः । न शब्देन न चार्थेन शब्दार्थौ शशशृङ्गवत्
पुंसो हरिणको ऽस्मीति स्वप्ने यस्योदिता मतिः । स किम् अन्विष्यति मृगं स्वमृगत्वपरिक्षये
उदेत्य् असत्यम् एवाशु तथासत्यम् प्रलीयते । भ्रान्तिर् हि भ्रमतो रज्ज्वाम् इव सर्पत्वसङ्ग्रहे
समस्तस्याप्रबुद्धस्य मनोजातस्य कस्यचित् । विडम्बेन दृग् एवेयं मिथ्यारूढिम् उपागता
स्वप्नोपलम्भं सर्गाख्यं स्वं सर्वो ऽनुभवन् स्थितः । चिरम् आवृत्तदेहात्मा भूचक्रस्फुरणं यथा
ब्रह्मंल् लोकैः पुरस्स्थस्य गच्छतो योगिनो निजाम् । आतिवाहिकतां देहः कीदृशो ऽयं विलोक्यते
देहाद् देहान्तरप्राप्तिः पूर्वदेहविनाशदा । आतिवाहिकदेहे हि स्वप्नेष्व् इव विकस्वरा
यथातापे हिमकणश् शरद्व्योम्नि सितो ऽम्बुदः । दृश्यमानो ऽप्य् अदृश्यत्वम् एत्य् एवं योगिदेहकः
झगित्य् एवाथवा कश्चिद् योगिदेहो न लक्ष्यते । सयोगिभिः पुरो वेगात् प्रोड्डीन इव खे खगः
स्ववासनाक्रमेणैव क्वचित् केचित् कदाचन । मृतो ऽयम् इति पश्यन्ति कंचिद् योगिनम् अग्रगाः
भ्रान्तिमात्रं तु देहात्म तेषां तद् उपशाम्यति । सत्यबोधेन रज्जूनां सर्पबुद्धिर् इवात्मनि
को देहः कस्य वा सत्ता कस्य नाशः कथं कुतः । स्थिरं तद् एवं यद् अभूद् अबोधः केवलं गतः