देशकालक्रियाद्रव्यसम्पद्भ्यश् चेति भावना । यत्रैवाभ्युदिता साम्यात् स द्वयोर् अधिको जयी
धर्मदातुः प्रवृद्धा चेद् वासना तत् तया क्षणात् । आपूर्यते प्रेतमतिर् नो चेत् प्रेतधियाशु सा
एवं परस्परजयो जयत्य् अत्रातिवीर्यवान् । तस्माच् छुभेन यत्नेन शुभाभ्यासम् उपाहरेत्
देशकालाधिका ब्रह्मन् वासना समुदेति चेत् । तन् महाकल्पसर्गादौ देशकालोदयः कुतः
कारणैस् समुदेतीदं कैस् तदा सहकारिभिः । सहकारिकारणानाम् अभावे वासना कुतः
एवम् एतन् महाभाग सत्यात्मनि कदाचन । महाप्रलयसर्गादौ देशकालादि किञ्चन
सहकारिकारणानाम् अभावे सति दृश्यधीः । नेयम् अस्ति न चोत्पन्ना न च स्फुरति काचन
दृश्यस्यासम्भवाद् धेतोः किञ्चिद् यद् दृश्यते त्व् इदम् । तद् ब्रह्मैव कचद्रूपं स्थितम् इत्थम् अनामयम्
एतच् चाग्रे युक्तिशतैः कथयिष्याम एव ते । एतदर्थं प्रयत्नो ऽयं वर्तमानकथां शृणु
तत् ते ददृशतुः प्राप्ते मन्दिरं सुन्दरोदरम् । कीर्णं पुष्पोपकारेण वसन्तम् इव शीतलम्
प्रभाताचारसारम्भराजधान्यां समं स्थितम् । मन्दारकुन्दस्रग्दामवृन्दाम्बरवलच्छवम्
शवशय्याशिरस्स्थाग्र्यपूर्णकुम्भादिमङ्गलम् । अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम्
प्रशाम्यद्दीपिकालोकश्यामलामलभित्तिकम् । गृहैकदेशसंसुप्तमुखश्वासससीत्कृतम्
सम्पूर्णचन्द्रशकलोदरकान्तिकान्तसौन्दर्यनिर्जितपुरन्दरमन्दिरर्द्धि । वैरिञ्चपद्ममुकुलान्तरचारुशोभा निश्शब्दम् अब्दम् इव निर्मलम् इन्दुकान्तम्
ततो ददृशतुस् तत्र शवशय्यैकपार्श्वगाम् । लीलां विदूरथस्याग्रे मृतां तां प्रथमागताम्
प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राक्स्ववासनाम् । प्राक्तनाकारसदृशसर्वरूपाङ्गसुन्दरीम्
प्राक्स्मृत्यवयवस्पन्दां प्रागम्बरपरावृताम् । प्राग्भूषणभरच्छन्नां केवलं तत्र संस्थिताम्
गृहीतचामरां चारु वीजयन्तीं महीपतिम् । मौनस्थां वामहस्तस्थवदनेन्दुतयानताम्
भूषणांशुलतापुष्पैः फुल्लाम् इव वनस्थलीम् । कुर्वाणां वीक्षणैर् दिक्षु मालत्युत्पलवर्षणम्
सृजन्तीम् आत्मलावण्याद् बिन्दून् इन्दून् इवोदितान् । नराधिपात्मनो विष्णोर् लक्ष्मीम् इव समागताम्
उदितां पुष्पसम्भाराद् इव पुष्पाकरश्रियम् । भर्तुर् वदनविन्यस्तदृष्टिम् इव विचेष्टिताम्
किञ्चित्प्रम्लानवदनां म्लानचन्द्रां निशाम् इव । ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते । यस्मात् ते सत्यसङ्कल्पे सा न तावत् तथोदिता
तस्मिन् प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् । ध्यानेन ज्ञप्तिसहिता गताभूद् इति वर्णितम्
किम् इदानीं च लीला या देहस् तत्र न वर्णितः । किं सम्पन्नः क्व वायात इति मे कथय प्रभो
क्वासील् लीलाशरीरं तत् कुतस् तस्य हि सत्यता । सा किल भ्रान्तिर् एवाभूज् जलबुद्धिर् मराव् इव
यथैव बोधे लीलासौ परिणामम् इता क्रमात् । परे तथैव तस्यास् तद् धिमवद्गलितं वपुः
आतिवाहिकदेहस्य कालेनाभ्युदितो भ्रमः । आधिभौतिकदेहो ऽहम् इति रज्जुभुजङ्गवत्
आतिवाहिकदेहेन दृश्यं यद् अवकल्पितम् । भूम्यादि नाम तस्यैव कृतं तत् त्व् आधिभौतिकम्
वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः । न शब्देन न चार्थेन शब्दार्थौ शशशृङ्गवत्
पुंसो हरिणको ऽस्मीति स्वप्ने यस्योदिता मतिः । स किम् अन्विष्यति मृगं स्वमृगत्वपरिक्षये