सा जीवसंविद् गगनवातेनावलिता सती । खे दूरं गन्तुम् आरेभे वासनानुविधायिनी
ताम् एवानुससाराथ स्त्रीद्वयं जीवसंविदम् । भ्रमरीयुगलं वातलग्नां गन्धकलाम् इव
ततो मुहूर्तमात्रेण शान्ते मरणमूर्छने । साम्बरे बुबुधे संविद् गन्धलेखेव वयुना
अपश्यत् पुरुषान् याम्यान् नीयमानं च तैर् वपुः । बन्धुपिण्डप्रदानेन शरीरं जातम् आत्मनः
मार्गे कर्मफलोल्लासवति दूरतरे स्थितम् । वैवस्वतपुरं गन्तुं प्रवृत्तम् अनिवारितम्
प्राप्तं वैवस्वतपुरम् आदिष्टं च ततो यथा । अस्य कर्माण्य् अशुभ्राणि नैव सन्ति कदाचन
नित्यम् एवावदातानां कर्तायं शुभकर्मणाम् । भगवत्यास् सरस्वत्या वरेणायं विवर्धितः
प्राक्तनो ऽस्य शवीभूतो देहो ऽस्ति कुसुमाम्बरः । प्रविशत्व् एष तं गत्वा त्यज्यताम् इत्य् अवेक्ष्य सः
ततस् त्यक्तो नभोमार्गं यन्त्रोपल इव प्लुतः । अथ जीवकला लीला ज्ञप्तिश् चेति त्रयं नभः
पुप्लुवे जीवलेखा त्व् अरूपिण्य् एते न पश्यति । तम् एवानुसरन्त्यौ ते समुल्लङ्घ्य नभस्तलम्
लोकान्तराण्य् अतीत्याथ विनिर्गत्य जगद्गृहात् । द्वितीयं जगद् आसाद्य भूमण्डलम् उपेत्य च
कान्ते सङ्कल्परूपिण्यौ सङ्गते जीवलेखया । पद्मराजपुरं प्राप्य लीलान्तःपुरमण्डपम्
क्षणाद् विविशतुस् स्वैरं वायुलेखे यथाम्बुदम् । सूर्यातपो यथाम्भोजं सुगन्धः पवनं यथा
ब्रह्मन् प्राप्तः कथम् असौ शवस्य निकटं गृहम् । कथं तेन परिज्ञातो मार्गो मृतशरीरिणा
तस्य स्ववासनान्तस्स्थम् अवश्यं किल राघव । तत् सर्वं हृद्गतं तस्मान् मासौ प्राप्नोतु तत् कथम्
भ्रान्तिमात्रम् असङ्ख्येयं जगज्जीवकणोदरे । बीजे वटतरुम् इव स्थितं को वै न पश्यति
स्वभावभूतं चिदणुस् त्रैलोक्यनिचयं तथा । नरो यथैकदेशस्थो दूरदेशान्तरस्थितम्
संपश्यति निधानं स्वं मनसानारतं सदा । यथा जीवद्वपुर् जीवमकुरं हृदि पश्यति
तथा स्ववासनान्तस्स्थम् अभीष्ठं परिपश्यति । जीवो जातिशताढ्यो ऽपि भ्रमे परिगतो ऽपि वा
भगवन् पिण्डदानादिवासनारहिताकृतिः । कीदृक् संपद्यते देहः पिण्डो यस्मै न दीयते
पिण्डो ऽथ दीयतां मात्रे पिण्डो दत्तो ममेति चेत् । वासना हृदि संरूढा तत् पिण्डफलभाङ् नरः
यच्चित्तस् तन्मयो जन्तुर् भवतीत्य् अनुभूतयः । सदेहेषु विदेहेषु न भवन्त्य् अन्यथा क्वचित्
सपिण्डो ऽस्मीति संवित्त्या निष्पिण्डो ऽपि हि पिण्डवान् । निष्पिण्डो ऽस्मीति संवित्त्या सपिण्डो ऽपि न पिण्डवान्
यथाभावनम् एतेषां पदार्थानां हि सत्यता । भावना च पदार्थेभ्यः कारणेभ्य उदेति हि
यथा वासनया जन्तोर् विषम् अप्य् अमृतायते । असत्यस् सत्यताम् एति पदार्थो भावनात् तथा
कारणेन विनोदेति न कदाचन कस्यचित् । कार्यता काचिद् अपि भो इति निश्चयवान् भव
कारणेन विना कार्यम् आ महाप्रलयं क्वचित् । न दृष्टं न श्रुतं किञ्चित् स्वयं स्वैकतया ऋते
विद् एव वासना सैव धत्ते स्वप्न इवार्थताम् । कार्यकारणताम् एति सैवम् अन्येव तिष्ठति
धर्मो नास्ति ममेत्य् एव यः प्रेतो वासनान्वितः । तस्य चेत् सुहृदा भूरिधर्मा कृत्वा समर्पितः
तत्र चात्र स किं धर्मो नष्टस् स्याद् उत भावनम् । सत्यार्थाद् वाप्य् असत्यार्थाद् भावनात् किं बलाधिकम्