क्रिमिकीटपतङ्गानां येषाम् अन्तस् स्वसंविदः । तान्य् एव तेषां बुद्ध्यादीन्य् अन्याभिख्यार्थकानि तु
यथोत्तराब्धिजनता दक्षिणाब्धिजनस्थितिम् । न किञ्चिद् अपि जानाति निजसंवेदनाद् ऋते
स्वसंज्ञानुभवे लीनास् तथा स्थावरजङ्गमाः । परस्परजडास् सर्वे स्वसङ्केतपरायणाः
यथा शिलान्तस्संस्थानां बहिस्स्थानां च वेदनम् । असज् जडं च भेकानां मिथोऽन्तस् तस्थुषां तथा
तत्र सर्वगतं चित्त्वाच् चिद्व्योम्ना यत् प्रचेतितम् । सर्गादौ चोपनं वायुस् स इहाद्यापि संस्थितः
विदितं यत् तु सौशिर्यं तन् नभस् तत्र मारुतः । स्पन्दात्मेत्यादि स महान् पदार्थेष्व् इति चोपनम्
चित्त्वं तु परमार्थेन स्थावरे जङ्गमे स्थितम् । चोपनान्य् अनिलैर् एव भवन्ति न भवन्ति च
एवं भ्रान्तिमयं विश्वं पदार्थास् संविदंशवः । सर्गादिषु यथैवासंस् तथैवाद्यापि संस्थिताः
यथा विश्वपदार्थानां स्वभावस्य विजृम्भणम् । असत्यम् एव सत्याभं तद् एतत् कथितं तव
अयम् अस्तङ्गतप्रायः पश्य राजा विदूरथः । मालाशवस्य पद्मस्य पत्युस् ते याति हृद्गुहाम्
केन मार्गेण देवेशि यान्त्यौ वै शवमण्डपम् । एनम् एवाशु पशन्त्याव् आवां गच्छाव उत्तमे
मनुष्यवासनान्तस्स्थं मार्गम् आश्रित्य गच्छति । एषो ऽहम् अपरं लोकं दूरं यामीति चिन्मयम्
मार्गेणावासनेनैव या वस् तेनैव सम्मतम् । परस्परेच्छा संवित्तिर् न हि सौहार्दबन्धिनी
इति विहितकथाशमक्रमायां परमदृशि प्रसृते प्रबोधभानौ । नृपतिवरसुतामनस्य् उदारे विगलितविज् जरढो विदूरथो ऽभूत्
एतस्मिन्न् अन्तरे राजा परिवृत्ताक्षितारकः । बभूवैकतनुप्राणस् सद्यश् शुष्कसिताधरः
जीर्णपर्णसवर्णाभः क्षीणपाण्डुमुखच्छविः । भृङ्गकूजितसच्छायाश्वासकूटाविकूणितः
महामरणमूर्छान्धकूपे निपतिताशयः । अन्तर्निलीननिश्शेषनेत्रादीन्द्रियवृत्तिमान्
चित्रन्यस्त इवाकारमात्रदृश्यो विचेतनः । निस्स्पन्दसर्वावयवस् समुत्कीर्ण इवोपले
बहुनात्र किम् उक्तेन तालुदेशेन तं जहौ । प्राणः पिपतिषुं वृक्षं सुपक्षीवान्तरिक्षगः
तं ते ददृशतुर् बाले दिव्यदृष्टी नभोगतम् । जीवं प्राणमयं संविद्गन्धलेशम् इवानिले
सा जीवसंविद् गगनवातेनावलिता सती । खे दूरं गन्तुम् आरेभे वासनानुविधायिनी
ताम् एवानुससाराथ स्त्रीद्वयं जीवसंविदम् । भ्रमरीयुगलं वातलग्नां गन्धकलाम् इव
ततो मुहूर्तमात्रेण शान्ते मरणमूर्छने । साम्बरे बुबुधे संविद् गन्धलेखेव वयुना
अपश्यत् पुरुषान् याम्यान् नीयमानं च तैर् वपुः । बन्धुपिण्डप्रदानेन शरीरं जातम् आत्मनः
मार्गे कर्मफलोल्लासवति दूरतरे स्थितम् । वैवस्वतपुरं गन्तुं प्रवृत्तम् अनिवारितम्
प्राप्तं वैवस्वतपुरम् आदिष्टं च ततो यथा । अस्य कर्माण्य् अशुभ्राणि नैव सन्ति कदाचन
नित्यम् एवावदातानां कर्तायं शुभकर्मणाम् । भगवत्यास् सरस्वत्या वरेणायं विवर्धितः
प्राक्तनो ऽस्य शवीभूतो देहो ऽस्ति कुसुमाम्बरः । प्रविशत्व् एष तं गत्वा त्यज्यताम् इत्य् अवेक्ष्य सः
ततस् त्यक्तो नभोमार्गं यन्त्रोपल इव प्लुतः । अथ जीवकला लीला ज्ञप्तिश् चेति त्रयं नभः
पुप्लुवे जीवलेखा त्व् अरूपिण्य् एते न पश्यति । तम् एवानुसरन्त्यौ ते समुल्लङ्घ्य नभस्तलम्