स गर्भो जायते लोके पूर्वकर्मानुसारतः । भव्यो भवत्य् अभव्यो वा बालको ललिताकृतिः
ततो ऽनुभवतीदं हि यौवनं मदनोन्मुखम् । ततो जरां पद्ममुखे हिमाशनिम् इव च्युताम्
ततो ऽपि व्याधिमरणं पुनर् मरणमूर्छनम् । पुनस् स्वप्नवद् आयातं पिण्डैर् देहपरिग्रहम्
याम्यं याति पुनर् लोकं पुनर् एनं भ्रमक्रमम् । भूयो भूयो ऽनुभवति व्योम्न्य् एव व्योमरूपवान्
आदिसर्गे यथा देवि भ्रम एव प्रवर्तते । तथा कथय मे भूयः प्रसादाद् बोधवृद्धये
परमार्थघनं शैलाः परमार्थघनं द्रुमाः । परमार्थघनं पृथ्वी परमार्थघनं नभः
सर्वात्मकत्वात् स यतो यथोदेति चिदीश्वरः । परमाकाशशुद्धात्मा तथा तत्र भवत्य् अलम्
सर्गादौ स्वप्नपुरुषन्यायेनादिप्रजापतिः । यथा स्फुरत्प्रकचितस् तथाद्यापि स्थिता स्थितिः
प्रथमो ऽसौ प्रतिच्छन्दः पदार्थानां हि बिम्बकम् । प्रतिबिम्बितम् एतस्माद् यत् तद् अद्यापि संस्थितम्
यन् नाम सुशिरं स्थानं देहानां तद्गतो ऽनिलः । करोत्य् अङ्गपरिस्पन्दं जीवतीत्य् उच्यते ततः
सर्गादाव् एव मे वैषा जङ्गमे ऽधिष्ठिता स्थितिः । चेतना अपि निस्स्पन्दास् तेन ते पादपादयः
चिदाकाशो ऽयम् एवांशं कुरुते चेतनोदितम् । स एव संविद् भवति शेषं तद् अपि नैव तत्
नरो यदि खुरप्रान्तं चेतत्य् अक्षिपटं न तु । तत् तस्य नाक्षिणिर्जीवं नाजीवत्य् एव सर्वतः
तथा खं खतया भूमिर् भूमित्वेनाप्तया जलम् । यद् यथा चेतति स्वैरं तद् वेत्त्य् एव तथावपुः
इति सर्वशरीरेण जङ्गमत्वेन जङ्गमम् । स्थावरं स्थावरत्वेन सर्वात्मा भावयन् स्थितः
तस्माद् यज् जङ्गमं नाम तत् सचोपनरूपधृत् । तेन बुद्धं ततस् तद्वत् तद् एवाद्यापि संस्थितम्
यज् जडाभिधम् आबुद्धं स्थावरं तेन वै पुनः । जडम् अद्यापि संविद्धि शिलातरुतृणादि तत्
न तु जाड्यं पृथक् किञ्चिद् अस्ति नापि च चेतनम् । नास्ति भेदो ऽत्र सर्गादौ सत्तासामान्यकेन तु
वृक्षाणाम् उपलानां या नामान्तस्स्थास् स्वसंविदः । बुद्ध्यादीनीहितान्य् एव तानि तेषाम् इह स्थितिः
विदो ऽन्तस् स्थावरादेर् यास् तस्या बुद्ध्यादयो हि ते । अन्याभिधानास् त्व् अन्यार्थास् सङ्केतैर् अपरैस् स्थिताः
क्रिमिकीटपतङ्गानां येषाम् अन्तस् स्वसंविदः । तान्य् एव तेषां बुद्ध्यादीन्य् अन्याभिख्यार्थकानि तु
यथोत्तराब्धिजनता दक्षिणाब्धिजनस्थितिम् । न किञ्चिद् अपि जानाति निजसंवेदनाद् ऋते
स्वसंज्ञानुभवे लीनास् तथा स्थावरजङ्गमाः । परस्परजडास् सर्वे स्वसङ्केतपरायणाः
यथा शिलान्तस्संस्थानां बहिस्स्थानां च वेदनम् । असज् जडं च भेकानां मिथोऽन्तस् तस्थुषां तथा
तत्र सर्वगतं चित्त्वाच् चिद्व्योम्ना यत् प्रचेतितम् । सर्गादौ चोपनं वायुस् स इहाद्यापि संस्थितः
विदितं यत् तु सौशिर्यं तन् नभस् तत्र मारुतः । स्पन्दात्मेत्यादि स महान् पदार्थेष्व् इति चोपनम्
चित्त्वं तु परमार्थेन स्थावरे जङ्गमे स्थितम् । चोपनान्य् अनिलैर् एव भवन्ति न भवन्ति च
एवं भ्रान्तिमयं विश्वं पदार्थास् संविदंशवः । सर्गादिषु यथैवासंस् तथैवाद्यापि संस्थिताः
यथा विश्वपदार्थानां स्वभावस्य विजृम्भणम् । असत्यम् एव सत्याभं तद् एतत् कथितं तव
अयम् अस्तङ्गतप्रायः पश्य राजा विदूरथः । मालाशवस्य पद्मस्य पत्युस् ते याति हृद्गुहाम्