आत्मन्य् अस्थिघटापुष्टम् अन्यस्य व्योम केवलम् । आधारे भूतले सार्कम् आकाशजनवासनम्
भवन्ति यद्विधाः प्रेतास् तेषां भेदम् इमं शृणु । सामान्यपापिनो मध्यपापिनस् स्थूलपापिनः
सामान्यधर्मा मध्यस्थधर्मा चोत्तमधर्मवान् । एतेषां कस्यचिद् भेदो द्वौ त्रयो ऽप्य् अथ कस्यचित्
कश्चिन् महापातकवान् वत्सरान् मृतिमूर्छनाम् । विमूढो ऽनुभवत्य् अन्तः पाषाणहृदयोपमाम्
ततः कालेन सम्बुद्धो वासनाजठरोदितम् । अनुभूय चिरं कालं वासनादुःखम् अक्षतम्
भुक्त्वा योनिशतान्य् उच्चैर् दुःखाद् दुःखान्तरं गतः । कदाचिद् इमम् आयाति संसारस्वप्नविभ्रमम्
अथ वा मृतिमोहान्ते जडां दुःखशताकुलां । क्षणाद् वृक्षादिताम् एव हृत्स्थाम् अनुभवन्ति ते
स्ववासनानुरूपाणि दुःखानि नरके पुनः । अनुभूयाथ योनीषु जायन्ते भूतले चिरात्
अथ मध्यमपापो यो मृतिमोहाद् अनन्तरम् । स शिलाजठरं जाड्यं कञ्चित् कालं प्रपश्यति
ततः प्रबुध्य कालेन केनचिद् वा तथैव वा । तिर्यगादिक्रमैर् भुक्त्वा योनीस् संसारम् एष्यति
मृत एवानुभवति कश्चित् सामान्यपातकी । स्ववासनानुसारेण देहं सम्पन्नम् अक्षतम्
सङ्कल्प इव सङ्कल्प इव वेत्ति स तादृशम् । तस्मिन्न् एव क्षणे तस्य स्मृतिर् इत्थम् उदेत्य् अपि
ये तूत्तममहापुण्यमृतिमोहाद् अनन्तरम् । स्वर्गं विद्याधरपुरं स्मृत्यास्व् अनुभवन्ति ते
ततो ऽन्यकर्मसदृशं भुक्त्वान्यत्र निजं फलम् । जायन्ते मानुषे लोके सश्रीके सज्जनास्पदे
ये ऽथ मध्यमधर्माणो मृतिमोहाद् अनन्तरम् । त इहोत्तारं कुर्वन्तस् स्थितं पश्यन्ति देहकम्
ये ऽथ सामान्यधर्माणो मृतिमोहाद् अनन्तरम् । ते व्योमवायुवलिताः प्रयान्त्य् ओषधिपल्लवान्
तत्र चारुफलं भूत्वा प्रविश्य हृदयं नृणाम् । ततस् ताम् अधितिष्ठन्ति गर्भे जातिक्रमोदिते
स्ववासनानुसारेण प्रेता एतां व्यवस्थितिं । मूर्छान्ते ऽनुभवन्त्य् अन्तः क्रमेणैवाक्रमेण च
आदौ मृता वयम् इति बुध्यन्ते तदनुक्रमात् । बन्धुपिण्डादिदानेन प्रोत्पन्ना इति वेदिनः
ततो यमभटा एते कालपाशान्वितास् तथा । नीयमानो व्रजाम्य् एभिः क्षणाद् यमपुरं त्व् इति
उद्यानानि विमानानि शोभनानि पुनः पुनः । स्वकर्मभिर् उपात्तानि पुण्यानीत्य् एव पुण्यवान्
इमानि कण्टकश्वभ्रशस्त्रपत्त्रवनानि च । स्वकर्मदुष्कृतोत्थानि संप्राप्तानीति पापवान्
इयं मे सौम्यसंपाता धरणिश् शीतशाद्वला । स्निग्धच्छायासवापीका पुरस्संस्थेति मध्यमः
अयं प्राप्तो यमपुरम् अयम् एष स भूतपः । अयं कर्मविचारो मे कृत इत्य् अनुभूतिमान्
इति प्रत्येकम् अभ्येति पृथुस् संसारषण्डकः । यथासंस्थितनिश्शेषपदार्थाचारभासुरः
आकाश एव निश्शून्ये शून्यात्मैवं विभोधवान् । देशकालक्रियादैर्घ्यभासुरो ऽपि न किञ्चन
इतो ऽयम् अहम् आदिष्टस् स्वकर्मफलभोजने । गच्छाम्य् आशु शुभं स्वर्गम् इतो नरकम् एव वा
अयं स्वर्गो मया भुक्तो भुक्तो ऽयं नरको ऽथवा । इमास् ता योनयो त्यक्ता जाये ऽहं संसृतौ पुनः
अयं शालिर् अहं जातः क्रमात् फलम् इह स्थितम् । इत्य् उदर्कप्रबोधेन बुद्ध्यमानो भविष्यति
संसुप्तवासनस् त्व् एवं बीजतां यात्य् असौ नरे । तद्बीजं योनिगलितं गर्भो भवति मातरि