यदेषन्मोहम् आदत्ते नादत्ते पवनस् तदा । न त्व् आदत्ते यथा प्राणान् मोहम् आयात्य् अलं तदा
अन्योऽन्यं पुष्टतां यातैर् मोहात् संवेदनभ्रमैः । जन्तुः पाषाणताम् एति स्थितम् इत्य् आदिसर्गतः
व्यथां विमोहं मूर्छां च भ्रमं व्याधिम् अचेतनम् । किम् अर्थम् अयम् आयाति देहो खण्डाङ्गवान् अपि
एवं संविदितं कर्म सर्गादौ स्पन्दनं विदः । यद्य् अस्मिन् समये दुःखं कालेनैतावतेदृशम्
स्यात् कचत्य् एव विटपगुच्छवत् तत् स्वभावजम् । वेत्ति चित्त्वविजृम्भोत्थं नान्यद् अत्रास्ति कारणम्
यदा व्यथावशान् नाड्यस् स्वसङ्कोचविकासने । त्यजन्ति मरुतो देहात् परियान्ति निजां स्थितिम्
प्रविष्टा न विनिर्यान्ति निर्याताः प्रविशन्ति नो । यदा वाता विनाडित्वात् तदास्पन्दान् मृतिर् भवेत्
न विशत्य् एव वा नैव निर्याति पवनो यदा । शरीरान् नाडिवैधुर्ये मृत इत्य् उच्यते तदा
आगन्तव्यं मया नाशं कालेनैतावतेति या । पूर्वं संविदिता संविद् याति तच्चोदिता मृतिम्
ईदृशेन मयेहेत्थं भाव्यम् इत्य् आदिसर्गजा । संविद् बीजकलानाशं न कदाचन गच्छति
संविदो वेदनं नाम स्वभावो ऽव्यतिरेकवान् । तस्मात् स्वभावसंवित्तेर् नान्यन् मरणजन्मनी
क्वचिद् आवर्तवद् दौस्स्थ्यं क्वचिन् नद्यां जलं यथा । क्वचित् सौम्यं क्वचिज् जीवधर्मीदं चेतनं तथा
यथा लतायाः पर्वाणि दीर्घाया मध्यमध्यतः । तथा चेतनसत्ताया जन्मानि मरणानि च
न जायते न म्रियते चेतनं पुरुषः क्वचित् । स्वप्नसम्भ्रमवद् भ्रान्तम् एतत् पश्यति केवलम्
पुरुषश् चेतनामात्रं स कदा क्वेव नश्यति । चेतनव्यतिरिक्तं च वदान्यत् किं पुमान् भवेत्
क्वाद्य यावन् मृतं ब्रूहि चेतनं कस्य किं कथम् । म्रियन्ते देहलक्षाणि चेतनं स्थितम् अक्षयम्
अमरिष्यत् तु चेच् चित्त्वम् एकस्मिन्न् एव तन्मृते । अभविष्यन् सर्व एव मृता एकमृताव् इह
वासनामात्रवैचित्र्यं यज् जीवो ऽनुभवेत् स्वयम् । तस्यैव जन्ममरणे नामनी परिकल्पिते
एवं न किञ्चिन् म्रियते जायते न च कश्चन । वासनावर्तगर्तेषु जीवो लुठति केवलम्
अत्यन्तासम्भवाद् एव दृश्यस्यासौ च वासना । नास्त्य् एवेति विचारेण दृढज्ञाने विनश्यति
अनुदितम् उदितं जगत्प्रबन्धं भवभयतो व्यसनैर् विलोक्य सम्यक् । अलम् अनुदितवासनो हि जीवो भवति विमुक्त इतीह सत्यम् अस्तु
यथैष जन्तुर् म्रियते जायते च यथा पुनः । तन् मे कथय देवेशि पुनर् बोधविवृद्धये
नाडीप्रवाहे विधुरे यदा वातविसंस्थताम् । जन्तुः प्राप्नोति हि तदा शाम्यतीवास्य चेतनम्
शुद्धं हि चेतनं नित्यं नोदेति न च शाम्यति । स्थावरे जङ्गमे व्योम्नि शैले ऽग्नौ पवने स्थितम्
केवलं वातसंरोधाद् यदा स्पन्दः प्रशाम्यति । मृत इत्य् उच्यते देहस् तदा स जडनामकः
तस्मिन् देहे शवीभूते वाते खानिलतां गते । चेतनं वासनायुक्तं खात्म तत्रैव तिष्ठति
जीव इत्य् उच्यते तस्य नामाणोर् वासनावतः । तत्रैवास्ते स च शवागारे गगनके तथा
ततो ऽसौ प्रेतशब्देन प्रोच्यते व्यवहारिभिः । चेतनो वासनामिश्रस् सामोदानिलवत् स्थितः
इदं सर्वं परित्यज्य यदास्ते दर्शनान्तरे । स स्वप्न इव सङ्कल्प इव नानाकृतिस् तदा
तस्मिन्न् एव प्रदेशे ऽन्तः पूर्ववत् स्मृतिभाग् भवेत् । तदैव मृतिमूर्छान्ते पश्यत्य् अन्यच् छरीरकम्