तरङ्गतरलास्फालवृत्तिना जडरूपिणा । तटवृक्ष इवौघेन ब्रह्मन् नीतो ऽस्मि चेतसा
अवान्तरनिपाताय शून्येनाक्रमणाय च । तृणं चण्डानिलेनेव दूरे नुन्नो ऽस्मि चेतसा
संसारजलधेर् अस्मान् नित्यम् उत्तरणोन्मुखः । सेतुनेव पयःपूरो रोधितो ऽस्मि कुचेतसा
पातालाद् गच्छता पृष्ठं पृष्ठात् पातालगामिना । कूपकाष्ठं कुदाम्नेव वेष्टितो ह्य् अस्मि चेतसा
मिथ्यैव स्फाररूपेण विचारविशरारुणा । बालो वेतालकेनेव गृहीतो ऽस्मि स्वचेतसा
वह्नेर् उष्णतरश् शैलाद् अपि कष्टतरक्रमः । वज्राद् अपि दृढो ब्रह्मन् दुर्निग्रहमनोग्रहः
चेतः पतति कार्येषु विहगश् चामिषेष्व् इव । क्षणेन विरतिं याति बालः क्रीडनकाद् इव
जडप्रकृतिर् आलोलो विततावर्तवृत्तिमान् । मनोऽब्धिर् ईहितव्यालो दूरान् नयति तात माम्
अप्य् अब्धिपानान् महतस् सुमेरूल्लङ्घनाद् अपि । अपि वह्न्यशनात् साधो विषमश् चित्तनिग्रहः
चित्तं कारणम् अर्थानां तस्मिन् सति जगत्त्रयम् । तस्मिन् क्षीणे जगत् क्षीणं तच् चिकित्स्यं प्रयत्नतः
चित्ताद् इमानि सुखदुःखशतानि नूनम् अभ्यागतान्य् अगवराद् इव काननानि । तस्मिन् विवेकवशतस् तनुतां प्रयाते मन्ये मुने निपुणम् एव गलन्ति तानि
सकलगुणजयाशा यत्र बद्धा महद्भिस् तम् अरिम् इह विजेतुं चित्तम् अभ्युत्थितो ऽहम् । विगतरतितयान्तर् नाभिनन्दामि लक्ष्मीं जडमलिनविशालां मेघमालाम् इवेन्दुः
हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया । चरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः
अन्तर्दाहप्रदायिन्या समूढरसमार्दवः । पङ्क आदित्यदीप्त्येव शोषं नीतो ऽस्मि चिन्तया
मम चित्तमहारण्ये व्यामोहतिमिराकुले । शून्ये ताण्डविनी मत्ता भृशम् आशापिशाचिका
रजोरचितनीहारा काञ्चनावचयोज्ज्वला । नूनं विकासम् आयाति चिन्ता मे ऽशोकमञ्जरी
अलम् अन्तर् भ्रमायैषा तृष्णा कवलिताशया । आयाता विषमोल्लासम् ऊर्मिर् अम्बुनिधाव् इव
उद्दामकल्लोलरवा देहाद्रौ वहतीव मे । तरङ्गिततराकारा तरत्तृष्णातरङ्गिणी
वेगं संरोद्धुम् उदितो वात्ययेव जरत्तृणम् । नीतः कलुषया क्वापि धियायं चित्तचातकः
यां याम् अहम् अधीतास्थाम् आश्रयामि गुणश्रियम् । तां तां कृन्तति मे तृष्णा तन्त्रीम् इव कुमूषिका
पयसीव जरत्पर्णं वायाव् इव जरत्तृणम् । नभसीव शरन्मेघश् चिन्ताचक्रे भ्रमाम्य् अहम्
गन्तुम् आस्पदम् आत्मीयम् असमर्थधियो वयम् । चिन्ताजाले विमुह्यामो जाले शकुनयो यथा
तृष्णाभिधानया तात दग्धो ऽस्मि ज्वालया तथा । यथा दाहोपशमनम् आशङ्के नामृतैर् अपि
दूरं दूरम् इतो गत्वा समेत्य च पुनः पुनः । भ्रमत्य् आशु दिगन्तेषु तृष्णोन्मत्ततुरङ्गमी
जडसंसङ्गिनी तृष्णा कृतोर्ध्वाधोगमागमा । क्षुब्धा ग्रन्थिमती नित्यम् अरघट्टोग्ररज्जुवत्
अन्तर् ग्रथितया देहे सम्भ्रमोच्छिद्यमानया । रज्ज्वेवाशु बलीवर्दस् तृष्णया वाह्यते जनः
पुत्रदारकलत्रादितृष्णया नित्यकृष्णया । खगेष्व् इव किरात्येह जालं लोकेषु रच्यते
भाययत्य् अपि धीरेहम् अन्धयत्य् अपि सेक्षणम् । खेदयत्य् अपि सानन्दं तृष्णा कृष्णेव शर्वरी
कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी । दहत्य् अपि मनाक् स्पृष्टा तृष्णा कृष्णेव भोगिनी
भिनत्ति हृदयं पुंसां मायामयविधायिनी । दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी