मरणं मे समासेन कथयेन्दुसमानने । किं सुखं मरणं किं वा दुःखं मृत्वा च किं भवेत्
त्रिविधाः पुरुषास् सन्ति देहस्यान्ते मुमूर्षवः । मूर्खो ऽथ धारणाभ्यासी युक्तिमान् पुरुषस् तथा
अभ्यस्य धारणाश् चेष्टा देहं त्यक्त्वा यथासुखम् । प्रयाति धारणाभ्यासी युक्तियुक्तस् तथैव च
धारणा यस्य नाभ्यासं प्राप्ता नैव स मुक्तिभाक् । मूर्खस् स्वमृतिकाले ऽसौ दुःखम् एत्य् अवशाशयः
वासनावेशवैवश्यं भावयन् विषयाशयः । दीनतां परमाम् एति परिलूनम् इवाम्बुजम्
अशास्त्रसंस्कृतमतिर् असज्जनपरायणः । मृताव् अनुभवत्य् अन्तर् दाहम् अग्नाव् इव च्युतः
यदा घर्घरकण्ठत्वं वैरूप्यं दृष्टिवर्णजम् । गच्छत्य् एष विनाशात्मा तदा भवति दीनधीः
परमश्यामलालोको दिवाभ्युदितरात्रिकः । भ्रमद्दिङ्मण्डलाभोगो घनमेचकिताम्बरः
मर्मव्यथाविधुरितः प्रभ्रमद्वृक्षमण्डलः । आकाशीभूतवसुधो वसुधीभूतखान्तरः
परिवृत्तककुप्चक्र उह्यमान इवार्णवे । नीयमान इवाकाशे घननिद्रोन्मुखाशयः
अन्धकूपम् इवापन्नश् शिलान्तर् इव योजितः । स्वयं जडीभवज्जिह्वो विकर्तित इवाशये
पततीव नभोमार्गाद् घुणावर्त इवार्पितः । रथद्रुत इवारूढो हिमवद्गलनोन्मुखः
ज्योत्कुर्वन्न् इव संसारं वह्निमध्यं स्पृशन्न् इव । भ्रमितः क्षेपणेणेव वातयन्त्र इव स्थितः
भ्रमितो वा भ्रम इव कृष्टो रशनयेव वा । भ्रमन्न् इव जलावर्ते शस्त्रयन्त्र इवार्पितः
प्रोह्यमानस् तृणम् इव महत्य् अर्णवमारुते । दूरोढो वारिपूरेण निपतन्न् इव वाडवे
अनन्तगगने श्वभ्रे चक्रावर्ते पतन्न् इव । अद्रिद्यूर्वीविपर्यासदशाम् अनुभवन् स्थितः
पतन्न् इवानवरतं प्रोत्पतन्न् इव वाभितः । घूत्काराकर्णनोद्भ्रान्तः पूर्णसर्वेन्द्रियव्रजः
क्रमाच् छ्यामलतां यान्ति तस्य सर्वार्थसंविदः । यथास्तङ्गच्छन्ति रवौ मन्दालोकतया दिशः
पूर्वापरं न जानाति स्मृतिस् तानवम् आगता । यथा पाश्चात्यसन्ध्यान्ते नष्टा दृष्टिर् दिगष्टके
मनःकल्पनसामर्थ्यं जहात्य् अस्य विमोहितः । अविवेकेन तेनासौ महामोहे निमज्जति
यदेषन्मोहम् आदत्ते नादत्ते पवनस् तदा । न त्व् आदत्ते यथा प्राणान् मोहम् आयात्य् अलं तदा
अन्योऽन्यं पुष्टतां यातैर् मोहात् संवेदनभ्रमैः । जन्तुः पाषाणताम् एति स्थितम् इत्य् आदिसर्गतः
व्यथां विमोहं मूर्छां च भ्रमं व्याधिम् अचेतनम् । किम् अर्थम् अयम् आयाति देहो खण्डाङ्गवान् अपि
एवं संविदितं कर्म सर्गादौ स्पन्दनं विदः । यद्य् अस्मिन् समये दुःखं कालेनैतावतेदृशम्
स्यात् कचत्य् एव विटपगुच्छवत् तत् स्वभावजम् । वेत्ति चित्त्वविजृम्भोत्थं नान्यद् अत्रास्ति कारणम्
यदा व्यथावशान् नाड्यस् स्वसङ्कोचविकासने । त्यजन्ति मरुतो देहात् परियान्ति निजां स्थितिम्
प्रविष्टा न विनिर्यान्ति निर्याताः प्रविशन्ति नो । यदा वाता विनाडित्वात् तदास्पन्दान् मृतिर् भवेत्
न विशत्य् एव वा नैव निर्याति पवनो यदा । शरीरान् नाडिवैधुर्ये मृत इत्य् उच्यते तदा
आगन्तव्यं मया नाशं कालेनैतावतेति या । पूर्वं संविदिता संविद् याति तच्चोदिता मृतिम्
ईदृशेन मयेहेत्थं भाव्यम् इत्य् आदिसर्गजा । संविद् बीजकलानाशं न कदाचन गच्छति