एवम् एषा प्रयाता तु भर्ता पश्य ममाम्बिके । प्रवृत्तः प्राणसन्त्यागे कर्तव्यम् किम् इहाधुना
भावाभावेषु भावानां कथं नियतिर् आगता । कथं भूयो ऽप्य् अनियतिर् मृतिजन्मादिषूचिता
कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा । कथम् अग्न्यादिषूष्णत्वं पृथ्व्यादौ स्थिरता कथम्
हिमादिषु कथं शैत्यं का सत्ता कालखादिषु । भावाभावग्रहोत्सर्गस् स्थूलसूक्ष्मदृशः कथम्
कथम् अत्यन्तम् उच्छ्रायं तृणगुल्माङ्कुरादिकम् । वस्तुनायात्य् अनष्टे ऽपि स्थिते स्वोच्छ्रायकारणे
महाप्रलयसंपत्तौ सर्गास्थास्तमये सति । अनन्ताकाशम् आशान्तं सद् ब्रह्मैवावतिष्ठते
तच्चिद्रूपतया तेजःकणो ऽहम् इति चेतति । स्वप्ने संविद् यथा हि त्वम् आकाशगमनादि वा
तेजःकणो सौस्थूलत्वम् आत्मनात्मनि विन्दति । असत्यम् एव सत्याभं ब्रह्माण्डं तद् इदं स्मृतम्
तत्रान्तर् ब्रह्म तद् वेत्ति ब्रह्माहम् अयम् इत्य् अथ । मनोराज्यं स कुरुते खात्मैव तद् इदं जगत्
तस्मिन् प्रथमतस् सर्गे या यथा यत्र संविदः । कथितास् तास् तथा तत्र स्थिता अद्यापि निश्चलाः
यद् यथा स्फुरितं चित्त्वं तत् तथान्यत्म चिद् भवेत् । स्वयम् एवानियमितस् ततस् स्यान् नेह किञ्चन
न च नाम नकिञ्चित्त्वं युज्यते चित्स्वरूपिणः । त्यक्त्वा समस्तसंस्थानं हि संतिष्ठतु वै कथम्
सर्गादौ स्वयम् एवान्तश् चिद् यथा कचितात्मनि । हिमाग्न्यादितयाद्यापि सा तथास्ते स्वसत्तया
तस्मात् स्वसत्तासन्त्यागस् सतः कर्तुं न युज्यते । यदा चिदादेस् तेनेयं नियतिर् न विनश्यति
यद् यथा कचितं यत्र व्योमरूप्य् अपि पार्थिवम् । सर्गादौ तस्य चलितुम् अद्य यावन् न युज्यते
या यथा चित् प्रकचिता प्रतिपक्षविदं विना । न सा ततः प्रचलति वेदनाभ्यासतस् स्वयम्
जगदादाव् अनुत्पन्नं यच् चेदम् अनुभूयते । तत् संविद्व्योमकचनं स्वप्नस्त्रीसुरतं यथा
असत्यम् एव सत्याभं प्रतिभानम् इति स्थितम् । इति स्वभावसंवित्तिर् इत्थं भूतानुभूतयः
सर्गादौ या यथा रूढा संवित्कचनसन्ततिः । साद्यापि चालितान्येन स्थिता नियतिर् दृश्यते
गृहीतव्योमतासंविच् चिद्व्योम व्योमतां गतम् । गृहीतकालतासंविच् चिन्नभः कालतां गतम्
गृहीतजलसंविद् चिद्व्योम वारि व्यवस्थितम् । स्वप्ने तथा हि पुरुषः पश्यत्य् आत्मनि वारिताम्
स्वमरुत्संविदा भाति भवत्य् एषा यथास्थिता । चिच्चमत्कारचातुर्यम् असद् एतत् समूहते
खत्वं मरुत्त्वम् उर्वीत्वम् अप्त्वम् अग्नित्वम् अप्य् असत् । वेत्त्य् अन्तस् स्वप्नसङ्कल्पध्यानेष्व् इव चितिस् स्वयम्
मरणानन्तरं कर्मफलानुभवनक्रमम् । सर्वकर्मेहशान्त्यर्थं श्रुतं श्रेयस्करं शृणु
रूढादिसर्गे नियतिर् यैकद्वित्रिचतुर्मिता । पुष्ट्यादिष्व् आयुषः पुंसां तस्याथ नियतिं शृणु
देशकालक्रियाद्रव्यशुद्ध्यशुद्धी स्वकर्मणाम् । ऊनत्वे चाधिकत्वे च नृणां कारणम् आयुषः
स्वकर्मधर्मे ह्रसति ह्रसत्य् आयुर् नृणाम् इह । वृद्धे वृद्धिम् उपायाति समम् एव भवेत् समे
बालमृत्युप्रदैर् बालो युवा यौवनमृत्युदैः । वृद्धमृत्युप्रदैर् वृद्धः कर्मभिर् मृतिम् ऋच्छति
यो यथा शास्त्रम् आरब्धं स्वधर्मम् अनुतिष्ठति । भाजनं भवति श्रीमान् स यथाशास्त्रम् आयुषः
एवं कर्मानुसारेण जन्तुर् अन्त्यां दशाम् इतः । भवत्य् अस्तङ्गतवचो दृङ्मर्मच्छेदिवेदनः