स राजा सा च ते भृत्यास् सर्व एव परस्परम् । चिदाकाशैकतायोगाद् आवयोश् च प्रभावतः
महाचित्प्रतिभासाश् च महानियतिनिश्चयात् । अन्योऽन्यम् एवं वेत्स्यन्ति मिथस् सम्प्रतिबिम्बितम्
इयं मे सहजा भार्या ममेयं सहजा सखी । ममेयं सहजा राज्ञी भृत्यो ऽयं सहजो मम
केवलं त्वम् अहं सा च यथावृत्तम् अखण्डितम् । ज्ञास्याम महदाश्चर्यं न तु कश्चिद् अपीतरः
अमुनैव शरीरेण किमर्थं नागता पतिम् । एषा वरे ऽपि संप्राप्ते लीला ललितवादिनि
अप्रबुद्धधियस् सिद्धलोकान् पुण्यवशोदितान् । न समर्थास् स्वदेहेन प्राप्तुं छाया इवातपान्
आदिसर्गे हि नियतिस् स्थापितेति प्रबोधिभिः । यथा सत्यम् अलीकेन न मिलत्य् एव किञ्चन
यावद् वेतालसङ्कल्पो बालस्य किल विद्यते । निर्वेतालधियस् तावद् उदयस् तस्य कः कथम्
अविवेकज्वरोष्णत्वं विद्यते यावद् आत्मनि । तावद् विवेकशीतांशुशैत्यं कुत उदेत्य् अलम्
अहं पृथ्व्यादिदेहः खेगतिर् नास्ति ममोत्तमा । इति निश्चयवान् यो ऽन्तः कथं स्यात् सो ऽन्यनिश्चयः
अतो ज्ञानविवेकेन पुण्येनाथ वरेण वा । पुण्यदेहे न गच्छन्ति परं लोकम् अनेन नो
शुष्कपर्णं किलाङ्गारे पतद् एवाशु दह्यते । अयं देवमयीं देहः प्राप्त एव विशीर्यते
एतावद् एव भवति वरलाभविजृम्भितैः । यथा संवित् स एवाहं तथा स्मृत इति स्थितिः
यस् सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् । आत्मन्य् एव हि यो नास्ति तस्य का कार्यकारिता
यत् त्व् एतन् मृत इत्य् एव मिथ्या समनुभूयते । प्रागभ्यासस्य पुष्टस्य नामैतत् प्रविजृम्भितम्
स्वानुभूते जगज्जाले सुगमे संसृतिभ्रमः । नान्यसङ्कल्पिते नाम सर्गाद्यभ्यास ईदृशः
अन्तर् अनुभूयमानास् संसृतयो बाह्यभूतजालानाम् । अविदितवेद्यदृशाम् अतिदूरे पुंसाम् इवैन्दवं बिम्बम्
तस्माद् ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः । आतिवाहिकदेहत्वं प्राप्नुवन्त्य् एव नेतरे
आधिभौतिकदेहत्वं मिथ्या भ्रममयात्मकम् । कथम् अन्ये स्थितिं यातु च्छायास् ते कथम् आतपे
लीला विदितवेद्या नो परमं धर्मम् आश्रिता । केवलं तेन सा भर्तृकल्पितं नगरं गता
एवम् एषा प्रयाता तु भर्ता पश्य ममाम्बिके । प्रवृत्तः प्राणसन्त्यागे कर्तव्यम् किम् इहाधुना
भावाभावेषु भावानां कथं नियतिर् आगता । कथं भूयो ऽप्य् अनियतिर् मृतिजन्मादिषूचिता
कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा । कथम् अग्न्यादिषूष्णत्वं पृथ्व्यादौ स्थिरता कथम्
हिमादिषु कथं शैत्यं का सत्ता कालखादिषु । भावाभावग्रहोत्सर्गस् स्थूलसूक्ष्मदृशः कथम्
कथम् अत्यन्तम् उच्छ्रायं तृणगुल्माङ्कुरादिकम् । वस्तुनायात्य् अनष्टे ऽपि स्थिते स्वोच्छ्रायकारणे
महाप्रलयसंपत्तौ सर्गास्थास्तमये सति । अनन्ताकाशम् आशान्तं सद् ब्रह्मैवावतिष्ठते
तच्चिद्रूपतया तेजःकणो ऽहम् इति चेतति । स्वप्ने संविद् यथा हि त्वम् आकाशगमनादि वा
तेजःकणो सौस्थूलत्वम् आत्मनात्मनि विन्दति । असत्यम् एव सत्याभं ब्रह्माण्डं तद् इदं स्मृतम्
तत्रान्तर् ब्रह्म तद् वेत्ति ब्रह्माहम् अयम् इत्य् अथ । मनोराज्यं स कुरुते खात्मैव तद् इदं जगत्
तस्मिन् प्रथमतस् सर्गे या यथा यत्र संविदः । कथितास् तास् तथा तत्र स्थिता अद्यापि निश्चलाः