तत्र ब्रह्माण्डलक्षाणि सन्त्य् असङ्ख्यानि भूरिशः । अन्योऽन्यं तान्य् अदृष्टानि फलानीव महावने
तत्रैकस्मिन् पुरस्संस्थे विततावरणान्विते । वेधयित्वा विवेशान्तर् वदनं क्रिमिको यथा
पुनर् ब्रह्मेन्द्रविष्ण्वादि लोकान् उल्लङ्घ्य भासुरान् । सा महीमण्डलं श्रीमत् प्राप तारापथाद् अधः
तत्र तन् मण्डलं प्राप्य तत्पुरं तं च मण्डपम् । प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता
एतस्मिन्न् अन्तरे सात्र न ददर्श कुमारिकाम् । मायाम् इव परिज्ञातां क्वापि यातां वरानना
मुखम् आलोक्य सा तस्य स्वभर्तुश् शवरूपिनः । इदं बुद्धवती सत्यं प्रतिभावशतस् स्वतः
अयं स भर्ता संग्रामे निहतो मम सिन्धुना । वीरलोकान् इमान् प्राप्य क्षणं शेते यथासुखम्
अहं देव्याः प्रसादेन सशरीरैनम् ईदृशम् । इह प्राप्तवती धन्या मदन्या नास्ति काचन
इति सञ्चिन्त्य सा हस्ते गृहीत्वा चारुचामरम् । वीजयाम् आस चान्द्रेण तं द्यौर् वावनिमण्डलम्
ते भृत्यास् ताश् च वा दास्यस् स राजा वा प्रबुद्धवान् । वक्ष्यन्ति वदतां देवि किं कयेव कथं धिया
स राजा सा च ते भृत्यास् सर्व एव परस्परम् । चिदाकाशैकतायोगाद् आवयोश् च प्रभावतः
महाचित्प्रतिभासाश् च महानियतिनिश्चयात् । अन्योऽन्यम् एवं वेत्स्यन्ति मिथस् सम्प्रतिबिम्बितम्
इयं मे सहजा भार्या ममेयं सहजा सखी । ममेयं सहजा राज्ञी भृत्यो ऽयं सहजो मम
केवलं त्वम् अहं सा च यथावृत्तम् अखण्डितम् । ज्ञास्याम महदाश्चर्यं न तु कश्चिद् अपीतरः
अमुनैव शरीरेण किमर्थं नागता पतिम् । एषा वरे ऽपि संप्राप्ते लीला ललितवादिनि
अप्रबुद्धधियस् सिद्धलोकान् पुण्यवशोदितान् । न समर्थास् स्वदेहेन प्राप्तुं छाया इवातपान्
आदिसर्गे हि नियतिस् स्थापितेति प्रबोधिभिः । यथा सत्यम् अलीकेन न मिलत्य् एव किञ्चन
यावद् वेतालसङ्कल्पो बालस्य किल विद्यते । निर्वेतालधियस् तावद् उदयस् तस्य कः कथम्
अविवेकज्वरोष्णत्वं विद्यते यावद् आत्मनि । तावद् विवेकशीतांशुशैत्यं कुत उदेत्य् अलम्
अहं पृथ्व्यादिदेहः खेगतिर् नास्ति ममोत्तमा । इति निश्चयवान् यो ऽन्तः कथं स्यात् सो ऽन्यनिश्चयः
अतो ज्ञानविवेकेन पुण्येनाथ वरेण वा । पुण्यदेहे न गच्छन्ति परं लोकम् अनेन नो
शुष्कपर्णं किलाङ्गारे पतद् एवाशु दह्यते । अयं देवमयीं देहः प्राप्त एव विशीर्यते
एतावद् एव भवति वरलाभविजृम्भितैः । यथा संवित् स एवाहं तथा स्मृत इति स्थितिः
यस् सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् । आत्मन्य् एव हि यो नास्ति तस्य का कार्यकारिता
यत् त्व् एतन् मृत इत्य् एव मिथ्या समनुभूयते । प्रागभ्यासस्य पुष्टस्य नामैतत् प्रविजृम्भितम्
स्वानुभूते जगज्जाले सुगमे संसृतिभ्रमः । नान्यसङ्कल्पिते नाम सर्गाद्यभ्यास ईदृशः
अन्तर् अनुभूयमानास् संसृतयो बाह्यभूतजालानाम् । अविदितवेद्यदृशाम् अतिदूरे पुंसाम् इवैन्दवं बिम्बम्
तस्माद् ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः । आतिवाहिकदेहत्वं प्राप्नुवन्त्य् एव नेतरे
आधिभौतिकदेहत्वं मिथ्या भ्रममयात्मकम् । कथम् अन्ये स्थितिं यातु च्छायास् ते कथम् आतपे
लीला विदितवेद्या नो परमं धर्मम् आश्रिता । केवलं तेन सा भर्तृकल्पितं नगरं गता