मनो मननविक्षुब्धं दिशो दश विधावति । मन्दराहननोद्धूतं क्षीरार्णवपयो यथा
कल्लोलकलनावर्तं मायामकरमालिनम् । न निरोद्धुं समर्थो ऽस्मि मनोमोहमहार्णवम्
भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातम् अचिन्तयन् । मनोहरिणको ब्रह्मन् दूरं विपरिधावति
न कदाचन मे चेतस् ताम् आलूनविशीर्णताम् । त्यजत्य् आकुलया वृत्त्या चञ्चलत्वम् इवार्णवः
चेतश् चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् । धृतिं बध्नाति नैकत्र केसरी पञ्जरे यथा
मनो मोहरथारूढं शरीराच् छमतासुखम् । हरत्य् उपगतोद्योगं हंसः क्षीरम् इवाम्भसः
अनल्पकल्पनातल्पे निलीनाश् चित्तवृत्तयः । मुनीन्द्र न प्रबुध्यन्ते तेन तप्तो ऽहम् आकुलः
क्रोडीकृतदृढग्रन्थितृष्णासूत्रोम्भितात्मना । विहगो जालकेनेव ब्रह्मन् बद्धो ऽस्मि चेतसा
सततामर्षधूमेन चिन्ताज्वालाबिलेन च । वह्निनेव तृणं शुष्कं मुने दग्धो ऽस्मि चेतसा
क्रूरेण जडतां यातस् तृष्णाभार्यानुगामिना । शवः कौलेयकेनेव ब्रह्मन् भुक्तो ऽस्मि चेतसा
तरङ्गतरलास्फालवृत्तिना जडरूपिणा । तटवृक्ष इवौघेन ब्रह्मन् नीतो ऽस्मि चेतसा
अवान्तरनिपाताय शून्येनाक्रमणाय च । तृणं चण्डानिलेनेव दूरे नुन्नो ऽस्मि चेतसा
संसारजलधेर् अस्मान् नित्यम् उत्तरणोन्मुखः । सेतुनेव पयःपूरो रोधितो ऽस्मि कुचेतसा
पातालाद् गच्छता पृष्ठं पृष्ठात् पातालगामिना । कूपकाष्ठं कुदाम्नेव वेष्टितो ह्य् अस्मि चेतसा
मिथ्यैव स्फाररूपेण विचारविशरारुणा । बालो वेतालकेनेव गृहीतो ऽस्मि स्वचेतसा
वह्नेर् उष्णतरश् शैलाद् अपि कष्टतरक्रमः । वज्राद् अपि दृढो ब्रह्मन् दुर्निग्रहमनोग्रहः
चेतः पतति कार्येषु विहगश् चामिषेष्व् इव । क्षणेन विरतिं याति बालः क्रीडनकाद् इव
जडप्रकृतिर् आलोलो विततावर्तवृत्तिमान् । मनोऽब्धिर् ईहितव्यालो दूरान् नयति तात माम्
अप्य् अब्धिपानान् महतस् सुमेरूल्लङ्घनाद् अपि । अपि वह्न्यशनात् साधो विषमश् चित्तनिग्रहः
चित्तं कारणम् अर्थानां तस्मिन् सति जगत्त्रयम् । तस्मिन् क्षीणे जगत् क्षीणं तच् चिकित्स्यं प्रयत्नतः
चित्ताद् इमानि सुखदुःखशतानि नूनम् अभ्यागतान्य् अगवराद् इव काननानि । तस्मिन् विवेकवशतस् तनुतां प्रयाते मन्ये मुने निपुणम् एव गलन्ति तानि
सकलगुणजयाशा यत्र बद्धा महद्भिस् तम् अरिम् इह विजेतुं चित्तम् अभ्युत्थितो ऽहम् । विगतरतितयान्तर् नाभिनन्दामि लक्ष्मीं जडमलिनविशालां मेघमालाम् इवेन्दुः
हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया । चरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः
अन्तर्दाहप्रदायिन्या समूढरसमार्दवः । पङ्क आदित्यदीप्त्येव शोषं नीतो ऽस्मि चिन्तया
मम चित्तमहारण्ये व्यामोहतिमिराकुले । शून्ये ताण्डविनी मत्ता भृशम् आशापिशाचिका
रजोरचितनीहारा काञ्चनावचयोज्ज्वला । नूनं विकासम् आयाति चिन्ता मे ऽशोकमञ्जरी
अलम् अन्तर् भ्रमायैषा तृष्णा कवलिताशया । आयाता विषमोल्लासम् ऊर्मिर् अम्बुनिधाव् इव
उद्दामकल्लोलरवा देहाद्रौ वहतीव मे । तरङ्गिततराकारा तरत्तृष्णातरङ्गिणी
वेगं संरोद्धुम् उदितो वात्ययेव जरत्तृणम् । नीतः कलुषया क्वापि धियायं चित्तचातकः
यां याम् अहम् अधीतास्थाम् आश्रयामि गुणश्रियम् । तां तां कृन्तति मे तृष्णा तन्त्रीम् इव कुमूषिका