कान्तकाञ्चनगौराङ्गी पक्वबिम्बफलाधरा । त्वत्सङ्कल्पात्मकस्यैषा यथा भर्तुर् मनःकला
तदा त्वत्सदृशाकारा स्थितैषा चिच्चमत्कृतौ । त्वद्भर्तृमरणे क्षिप्रं समनन्तरम् एव हि
त्वद्भर्तैषा पुरो दृष्टा त्वत्सङ्कल्पात्मनाणुना । यदाधिभौतिकं भावं चेतो ऽनुभवति स्वयम्
वेत्त्य् असन्मयम् एवात आतिवाहिककल्पनम् । यदाधिभौतिकं भावं वेत्त्य् एतं तु न सन्मयम्
आतिवाहिकसङ्कल्पस् तदा सो ऽन्यस्य जायते । अतो मरणसंवित्त्या पुनर्जन्ममये भ्रमे
त्वं हि संविदितानेन त्वयावगत एष सः । इत्थं त्वां दृष्टवान् एष दृष्टश् चैष त्वयेति च
त्वम् अस्यात्मनि संपन्ना सर्वगत्वाच् चिदात्मनः । ब्रह्म सर्वगतं यस्माद् यथा यत्र यदोदितम्
भवत्य् आशु तथा तत्र तत् स्वशक्त्यैव पश्यति । सर्वत्र सर्वशक्तित्वाद् यत्र यां शक्तिम् उन्नयन्
आस्ते तत्र तथा भाति तीव्रसंवेगहेतुतः । मृतिमोहक्षणेनैव तद् एतौ दम्पती स्थितौ
तदैवाभ्याम् इदं बुद्धं प्रतिभासवशाद् धृदि । आवयोः पितराव् एताव् इमे चैवापि मातरौ
देह एष धनं चेदं कर्मेदं पूर्वम् ईदृशम् । आवां विवाहिताव् एवम् एवं नामैकतां गतौ
एतयोश् चापि जनता याता तत्रैव सत्यताम् । तथैवात्रास्ति दृष्टान्तः प्रत्यक्षस् स्वप्नवेदनम्
इत्य् एवंभावया लीले लीलयाहम् अथार्चिता । माहं स्यां विधवेत्य् एवं वरो दत्तो मयाप्य् असौ
इत्य् अर्थीव मृता पूर्वम् एषेह खलु बालिका । भवतां चेतनांशानाम् अहं चेतनधर्मिणी
कुलदेवी सदा पूज्याप्य् अत एतत् करोम्य् अहम् । अथास्या जीवको देहात् प्राणमारुतरूपधृत्
मनसा वलितः प्राप्तो मुखाग्रं त्यक्तदेहकः । ततो मरणमूर्छान्ते गृहे ऽस्मिन्न् एव चैतया । बुद्धो भावित आकारो दृष्टो जीवात्मना ततः
सम्पन्नैषा हरिणनयना पूर्णचन्द्राननश्रीर् मानोन्नद्धा दयितवलिता कान्तम् आभोक्तुकामा । पूर्वस्मृत्या सरभसमुखी संयतान्तस्स्वभावा स्वप्नस्थेव प्रकृतविभवा पद्मिनीवोदितेव
अथ लब्धवरा देहेनानेनैव महीपतिम् । पतिं प्राप्तुं प्रयाम्य् एषा नभोमार्गेण विष्टपम्
इति सञ्चिन्त्य सानन्दम् उद्दाममकरध्वजा । पुप्लुवे पेशलाकारा पक्षिणीव नभस्तले
कुमारी तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् । स्वसङ्कल्पमहादर्शात् पुरतो निर्गताम् इव
दुहितास्मि सखि ज्ञप्ते स्वागतं ते ऽस्तु सुन्दरि । प्रतीक्षमाणा त्वाम् एव स्थितास्मीह नभःपथे
देवि भर्तृसमीपं मां नय नीरजलोचने । महतां दर्शनं यस्मान् न कदाचन निष्फलम्
एहि तत्रैव गच्छाव इत्य् उक्त्वा सा कुमारिका । पुरस् तस्यास् स्थिता व्योम्नि मार्गदर्शनतत्परा
ततस् तदनुयाता सा प्राप कोटरम् अम्बरम् । निर्मलं करवालाङ्गं यथा लक्षणलेखिका
मेघमार्गम् अथोल्लङ्घ्य वातस्कन्धान्तरोत्थिता । सूर्यमार्गाद् अतिगता तारामार्गमहीम् इता
वाय्विन्द्रसुरसिद्धानां लोकान् उल्लङ्घ्य लाघवात् । ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डकर्परम्
हिमशैत्यं यथान्तस्स्थं कुम्भभित्तेर् बहिर् भवेत् । तथा सङ्कल्पसिद्धा सा ब्रह्माण्डान् निर्गता बहिः
स्वचित्तमात्रदेहैषा स्वसङ्कल्पप्रभावजम् । अन्तरे वानुभवति किलैवं नाम विभ्रमम्
ततो ब्रह्माण्डपारस्थाञ् जलाद्यावरणान् नव । समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम्
अदृष्टपारपर्यन्तम् अतिवेगेन धावता । सर्वतो गरुडेनापि कल्पकोटिशतैर् अपि