शृणु सर्वं समासेन यथादृष्टं वदामि ते । लीले लीलास्ववृत्तान्तम् अन्तदं दृश्यदुर्दृशाम्
पद्म एव स भर्तैष भ्रान्तिं तावत् तताम् इमाम् । इत्थं जगन्मयीं स्वस्मिन्न् एव सद्मनि पश्यति
भ्रान्तियुद्धम् इदं युद्धम् इमे भ्रान्तिजना जनाः । भ्रान्त्यैवास्तीह मरणम् एष चैव भ्रमात्मकः
भ्रमक्रमेणानेनैव लीलास्य दयिता स्थिता । त्वं चैषा च वरारोहे स्वप्नमात्रा वराङ्गने
तथा भवत्योर् भर्तैष तथैवाहम् अपि स्वयम् । जगच्छोभैव संसारे दृश्यसे तद् इहोच्यते
एतद् एव परिज्ञातं दृश्यशब्दार्थम् उज्झति । एवम् एषा त्वम् एवं च सम्पन्नैवम् असौ नृपः
अहं चात्मनि सत्यत्वगतास् सर्वतयात्मनः । इमे वयम् इहान्योऽन्यं सम्पन्नास् स्वोदिता इव
इत्थं सर्वात्मकतया महाचिद्घनसंस्थितेः । एवम् एषा स्थिता राज्ञी हारिहासविलासिनी
लीलाविलोलनयना नवयौवनशालिनी । पेशलाचारमधुरा मधुरोदारभाषिणी
कोकिलस्वरसङ्काशा मदमन्मथमन्थरा । असितोत्पलपत्त्राक्षी वृत्तपीनापयोधरा
कान्तकाञ्चनगौराङ्गी पक्वबिम्बफलाधरा । त्वत्सङ्कल्पात्मकस्यैषा यथा भर्तुर् मनःकला
तदा त्वत्सदृशाकारा स्थितैषा चिच्चमत्कृतौ । त्वद्भर्तृमरणे क्षिप्रं समनन्तरम् एव हि
त्वद्भर्तैषा पुरो दृष्टा त्वत्सङ्कल्पात्मनाणुना । यदाधिभौतिकं भावं चेतो ऽनुभवति स्वयम्
वेत्त्य् असन्मयम् एवात आतिवाहिककल्पनम् । यदाधिभौतिकं भावं वेत्त्य् एतं तु न सन्मयम्
आतिवाहिकसङ्कल्पस् तदा सो ऽन्यस्य जायते । अतो मरणसंवित्त्या पुनर्जन्ममये भ्रमे
त्वं हि संविदितानेन त्वयावगत एष सः । इत्थं त्वां दृष्टवान् एष दृष्टश् चैष त्वयेति च
त्वम् अस्यात्मनि संपन्ना सर्वगत्वाच् चिदात्मनः । ब्रह्म सर्वगतं यस्माद् यथा यत्र यदोदितम्
भवत्य् आशु तथा तत्र तत् स्वशक्त्यैव पश्यति । सर्वत्र सर्वशक्तित्वाद् यत्र यां शक्तिम् उन्नयन्
आस्ते तत्र तथा भाति तीव्रसंवेगहेतुतः । मृतिमोहक्षणेनैव तद् एतौ दम्पती स्थितौ
तदैवाभ्याम् इदं बुद्धं प्रतिभासवशाद् धृदि । आवयोः पितराव् एताव् इमे चैवापि मातरौ
देह एष धनं चेदं कर्मेदं पूर्वम् ईदृशम् । आवां विवाहिताव् एवम् एवं नामैकतां गतौ
एतयोश् चापि जनता याता तत्रैव सत्यताम् । तथैवात्रास्ति दृष्टान्तः प्रत्यक्षस् स्वप्नवेदनम्
इत्य् एवंभावया लीले लीलयाहम् अथार्चिता । माहं स्यां विधवेत्य् एवं वरो दत्तो मयाप्य् असौ
इत्य् अर्थीव मृता पूर्वम् एषेह खलु बालिका । भवतां चेतनांशानाम् अहं चेतनधर्मिणी
कुलदेवी सदा पूज्याप्य् अत एतत् करोम्य् अहम् । अथास्या जीवको देहात् प्राणमारुतरूपधृत्
मनसा वलितः प्राप्तो मुखाग्रं त्यक्तदेहकः । ततो मरणमूर्छान्ते गृहे ऽस्मिन्न् एव चैतया । बुद्धो भावित आकारो दृष्टो जीवात्मना ततः
सम्पन्नैषा हरिणनयना पूर्णचन्द्राननश्रीर् मानोन्नद्धा दयितवलिता कान्तम् आभोक्तुकामा । पूर्वस्मृत्या सरभसमुखी संयतान्तस्स्वभावा स्वप्नस्थेव प्रकृतविभवा पद्मिनीवोदितेव
अथ लब्धवरा देहेनानेनैव महीपतिम् । पतिं प्राप्तुं प्रयाम्य् एषा नभोमार्गेण विष्टपम्
इति सञ्चिन्त्य सानन्दम् उद्दाममकरध्वजा । पुप्लुवे पेशलाकारा पक्षिणीव नभस्तले
कुमारी तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् । स्वसङ्कल्पमहादर्शात् पुरतो निर्गताम् इव