देहेनानेन गन्तव्यम् अनया वीरभार्यया । यत्रावाभ्यां च तत् स्थानं कथं गन्तव्यम् अम्बिके
एवंरूपमहारम्भे सङ्ग्रामे राष्ट्रसम्भ्रमे । संपन्ने ऽपि स्थिते ऽप्य् उच्चैर् विचित्रारम्भमन्थरे
न किञ्चिद् अपि संपन्नं राष्ट्रं न च महीतलम् । न स्थितं क्वचनाप्य् एवं स्वप्नात्मकम् इदं यतः
तस्य त्वन्मण्डपस्यान्तश् शवस्य निकटाम्बरे । इत्थं भूराष्ट्रम् आभाति भर्तृजीवस्य ते ऽनघे
अन्तःपुरगृहं ते तद् इदं राष्ट्रान्वितोदरम् । वसिष्ठविप्रगेहे ऽन्तश् शवगेहे जगत् स्थितम्
एवम् एष महारम्भो जगत्त्रयमयो भ्रमः । त्वया मयानयानेन संयुक्तस् सार्णवावनिः
गिरिग्रामकगेहे ऽन्तर् मध्ये गगनकोशके । खात्मावकचति व्यक्तो न कचत्य् एव वा क्वचित्
एवम् आरम्भघनयोर् अपि मण्डपयोस् तयोः । उदरे शून्यम् आकाशम् एवास्ति न जगद्भ्रमः
भ्रमद्रष्टुर् अभावे हि कीदृशी भ्रमता भ्रमे । नास्त्य् एव भ्रमसत्ता तु यद् अस्ति तद् अजं पदम्
भ्रमे दृश्यम् असत् तस्य द्रष्टुर् द्रष्टृदशा कुतः । द्रष्टृदृश्यक्रमाभावाद् अत्र यत् सहजं हि तत्
तत् पदं परमं विद्धि नाशोत्पादविवर्जितम् । स्वकं कचति चाभातं शान्तम् आद्यम् अनामयम्
किल मण्डपगेहान्तस् स्वस्वभावोदितात्मनि । विहरन्ति जनास् तत्र स्वगृहे संव्यवस्थया
न जगत् तत्र नो सर्गः कश्चित् तैर् अनुभूयते । तेनाहं जगद् आकाशम् अजम् इत्य् एव वच्मि ते
सर्वं शून्यात्मविज्ञानं मेर्वादिगिरिजालकम् । नेदं कुड्यमयं किञ्चिद् यथा स्वप्ने महापुरम्
देशे प्रादेशमात्रे ऽपि गिरिजालमयान्य् अपि । वज्रसाराणि खान्य् एव सम्भवन्त्य् अणुके ऽणुके
कदलीपल्लवापीडसन्निवेशेन भूरिशः । त्रिजगच् चिदणाव् अन्तर् अस्ति स्वप्नपुरं यथा
तस्याप्य् अन्तर् विभागेन क्रमाद् एकैकशो जगत् । तेषां यस्मिञ् जगत्य् एव पद्मो राजा शवस् स्थितः
लीला तव सपत्नी तं प्राप्ता पूर्वतरं शुभे । यदैव मूर्छाम् आयाता लीलेयं पुरतस् तव । तदैव भर्तुः पद्मस्य शवस्य निकटे स्थिता
कथम् एषा गता देवि सम्पन्ना तत्र देहिनी । कथं कथं वा तत्पत्नीभावम् आप्तवती स्थिता
ते वास्या वद किं रूपं पश्यन्त्य् अथ वदन्ति किम् । तद्गेहवरवास्तव्यास् समासेनेति मे वद
शृणु सर्वं समासेन यथादृष्टं वदामि ते । लीले लीलास्ववृत्तान्तम् अन्तदं दृश्यदुर्दृशाम्
पद्म एव स भर्तैष भ्रान्तिं तावत् तताम् इमाम् । इत्थं जगन्मयीं स्वस्मिन्न् एव सद्मनि पश्यति
भ्रान्तियुद्धम् इदं युद्धम् इमे भ्रान्तिजना जनाः । भ्रान्त्यैवास्तीह मरणम् एष चैव भ्रमात्मकः
भ्रमक्रमेणानेनैव लीलास्य दयिता स्थिता । त्वं चैषा च वरारोहे स्वप्नमात्रा वराङ्गने
तथा भवत्योर् भर्तैष तथैवाहम् अपि स्वयम् । जगच्छोभैव संसारे दृश्यसे तद् इहोच्यते
एतद् एव परिज्ञातं दृश्यशब्दार्थम् उज्झति । एवम् एषा त्वम् एवं च सम्पन्नैवम् असौ नृपः
अहं चात्मनि सत्यत्वगतास् सर्वतयात्मनः । इमे वयम् इहान्योऽन्यं सम्पन्नास् स्वोदिता इव
इत्थं सर्वात्मकतया महाचिद्घनसंस्थितेः । एवम् एषा स्थिता राज्ञी हारिहासविलासिनी
लीलाविलोलनयना नवयौवनशालिनी । पेशलाचारमधुरा मधुरोदारभाषिणी
कोकिलस्वरसङ्काशा मदमन्मथमन्थरा । असितोत्पलपत्त्राक्षी वृत्तपीनापयोधरा